७७

अथाष्टसप्ततितमः पटलः
चण्डेशानुग्रहमूर्तिलक्षणम्
अथ वक्ष्ये विशेषेण चण्डेशानुग्रहं परम्
उमा सहितवत्सर्वं वामे किञ्चिन्नताननम् १
दक्षिणे त्वभयं वर्ज्यं तथा त्वाभरणं भवेत्
वामे तु कटकं न्यस्य अधस्तात् चण्डमूर्तिनां २
हृदयेञ्जलिसंयुक्तं चण्डेशं भक्तिसंयुतम्
आसीनौ पद्मपीठे तु चण्डेशं स्वर्णवर्णभम् ३
देवदेवेशयोर्मध्ये स्कन्दमूर्तिं विना बुध
चण्डेशानुग्रहं ख्यातं दक्षिणेशमतः परम् ४
इति काश्यपशिल्पे चण्डेशानुग्रहमूर्तिलक्षणं नाम