अथ सप्तसप्ततितमः पटलः
भिक्षाटनमूर्तिलक्षणम्
अथ वक्ष्ये विशेषेण भिक्षाटनमहेश्वरम्
पादौ पादुकसंयुक्तौ वामपादं तु सुस्थितम् १
ईषदुद्धृत्य सव्यं तु पादं तु गमनोत्सुकम्
ललाटमध्यमात्सव्ये नवाष्टौ वा यवान्तरे २
नासाग्रे त्वधरे वामे हिक्कामध्यात्तु वामके
हृन्मध्ये नाभिसव्ये तु षोडशं तु यवान्तरम् ३
स्थिताङ्घ्रिगुल्फमध्ये तु पूर्वसूत्रं प्रलम्बयेत्
आभङ्गं तु नतं कार्यं समभङ्गमथापि वा ४
पादौ पादुकसंयुक्तौ पादुकारहितौ तु वा
सुविकीर्णजटाभारं जटामण्डलमेव वा ५
वृत्तबन्धजटाभारं नग्नरूपं नताननम्
ललाटपट्टसंयुक्तं करोट्यर्धेन्दुशेखरम् ६
सर्वाभरणसंयुक्तं कटिसूत्रविवर्जितम्
शुद्धश्वेतनिभं प्रोक्तं नानानागविभूषितम् ७
दक्षिणे पूर्वहस्तं तु मृगन्यासान्तकं भवेत्
वामे तु पूर्वहस्तं तु वरदं स्यात्कपालभृत् ८
दक्षिणे परहस्ते तु डमरुं च धरेत् द्विज
वामे तु शिखिपिञ्च्छं च कर्तव्यं चातिशीतलं ९
सितवस्त्रोत्तरीयं तु नागेन कटिवेष्टितम्
श्वेतयज्ञोपवीतं तु नीलकण्ठत्रिपुण्ड्रधृक् १०
पद्मपीठोपरिष्टात्तु शेषं कङ्काळमूर्तिवत् ११
इति काश्यपशिल्पे भिक्षाटनमूर्तिलक्षणं नाम
सप्तसप्ततितमः पटलः समाप्तः