७५

अथ षट्सप्ततितमः पटलः
हरिहरार्धमूर्तिलक्षणम्
अथ वक्ष्ये विशेषेण हरिमर्धहरं परम्
आर्जवं सुस्थितं स्थानं स्थानकं समपादकम् १
दक्षिणं चाभयं वामं कटकं चोरुमाश्रितम्
परशुं दक्षिणे वामे शङ्खायुधधरं परम् २
सव्ये वामे च मुकुटे जटाकीरीटमण्डितम्
प्रवाळाभं श्यामरूपं तद्योग्याभरणान्वितम् ३
दक्षिणे तूग्रदृष्टिः स्यात् वामे दृष्टिः सुशीतला
किञ्चित्प्रकाशितं चोर्ध्वं दृष्टिस्तु तल्ललाटके ४
सर्वाभरणसंयुक्तं दिगम्बरसमन्वितम्
शिरश्चन्द्र कलायुक्तं तस्य लक्षणमुच्यते ५
रुद्रा शं!कविशालं तु तद्भागांशेन वर्धितम्
सुवृत्तं चक्रवद्विप्र पद्माकृतिरथापि वा ६
शिरश्चक्रविशालं तु सप्तभागैकभागिकम्
शिरसश्चक्रनाळस्य विस्तारं द्विजसत्तम ७
चक्रवामत्रिभागैकं चक्रदं शिरसोन्नतम्
अग्रे ललाटपट्टस्य शिरश्चक्रस्य नालकम् ८
चक्रं तर्जनीमालम्ब्य पुष्पमालां च मध्यमाम्
सर्वेषां देवदेवीनामेवमेव समाचरेत् ९
इति काश्यपशिल्पे हरिहरार्धलक्षणं नाम
षट्सप्ततितमः पटलः समाप्तः