अथ पञ्चसप्ततितमः पटलः
कङ्कालमूर्तिलक्षणम्
अथ कङ्काळमूर्तेस्तु लक्षणं वक्ष्यतेऽधुना
पादौ तु पादुकोपेतौ कङ्काळं भिक्षुलक्षणम् १
रक्षार्थं परिवारार्थं मोक्षार्थं तु विधीयते
स्थानकं गमनं ग्राह्यं द्वाविंशं तु प्रवक्ष्यते २
स्थानकं मूलबेरं च गमनं चोत्सवं भवेत्
दारुजा लोहजा वाथ सुधामृत् शर्करा मयी ३
शिलां च चित्रं वा कुर्यात् प्रतिमां वा यथाविधि
एवं च प्रतिमां कुर्यात् मानोन्मानप्रमाणवित् ४
प्रमाणमङ्गैर्वा कृत्वा मानं सङ्ग्राह्य बुद्धिमान्
अङ्गुलैर्यवसंयुक्तैः हस्ततालवितस्तिभिः ५
आयादिशुभं सङ्ग्राह्यं मानं शुद्ध्यर्थकं भवेत्
पादावधिष्ठानमानं वा द्वारतुङ्गसमेपि वा ६
मूललिङ्गसमोत्तुङ्गं सार्धं द्वित्रियवं तु वा
तयोर्मध्येष्टभागे तु नवधा तुङ्गमानकम् ७
उत्सवोदयमानेन समस्तविधिरुच्यते
वामपादं स्थितं चैव दक्षिणं गम्य वक्ष्यते ८
पादौ पादुकया युक्तौ दक्षिणं कुञ्चितं भवेत्
पार्ष्ण्यूर्ध्वदृग्भवेत्पूर्वं ब्रह्मसूत्रं प्रलम्बयेत् ९
पूर्वहस्तं कृतं वापि दक्षिणे कर्षके धृतम्
हिरण्यस्य कृतं वापि तर्जन्यं गुष्ठस्पृक्यया १०
योनिसीमावसानेन दूर्वाकार इवापि वा
अथ वामकरे पात्रं नाभिसीमावसानकम् ११
डमरुं पूर्वहस्ते तु हनुसीमावसानकम्
वामेशूलस्य हस्तं वा शिखिपिक्खण्डसंयुतम् १२
कङ्काळं च तदग्रे तु बद्धं तु हृदयोपरि
बाहुसीमावसानेन तत्कन्या च्यविकं भवेत् १३
एकद्वित्रिचतुर्मात्रं नताधिक्यादिमेव वा
स्थानके पूर्वसूत्रं वा भङ्गमानमथो शृणु १४
ललाटवामपार्श्वे च नेत्रान्ते च पुटान्तके
हनोर्वामे तु हिक्कायां हृदये काककोलकम् १५
नाभेश्च दक्षिणे सूत्रं पक्षाङ्गुलमिति त्रयम्
योनिनीप्रं तु सूत्रं वा दक्षिणे युगमात्रकम् १६
वामपादस्थितं वापि द्विपादान्तरमध्यमे
स्थानकं ह्येवमाख्यातं गमनेषू विधीयते १७
गमनस्य तु सूत्रं तु ललाटे वामपार्श्वके
वामाङ्घ्रिगुल्फमध्ये तु द्विपार्श्वके सूत्रकं भवेत् १८
सूत्रं ललाटमध्ये च दक्षिणे तु द्वयाङ्गुलं
वामे च पुटपार्श्वे तु हिक्काहृदयमध्यमे १९
नाभिवामे द्वयाङ्गुल्यं योनिवामे युगाङ्गुलं
वामाङ्घ्रिगुल्फस्पृशं स्यात् गमनस्य तु सूत्रकम् २०
आभङ्गस्योक्तमार्गेण नतमानं च बुद्धिमान्
गमने सूत्रकं वापि हस्तयोर्नीप्रमेव वा २१
सव्यहस्ततृणं कुर्यात्सूत्राद्व्यन्तरमंशकम्
द्वाविंशत्यङ्गुलं वापि त्रयोविंशतिरेव वा २२
मणिबन्धे मध्यमां तु बाह्यं चैव तथैव हि
नीप्रं तत् त्रिविधं चैव पात्रे वामकरेपि वा २३
कलासप्तदशं चाष्टमानानौ चापि नीप्रकम्
नाभिसीमावसाने तु कूर्परं तस्य नीप्रकम् २४
पञ्चाङ्गुलमथो वापि तिथिषोडशमेव वा
दक्षिणं तृणकं हस्ते योनिसीमावसानके २५
एकद्वित्रिचतुर्मात्रं मृगसस्य प्रलम्बयेत्
ज्ञानमुद्रा ं! सिंहकर्णं यथा सौन्दर्यमाचरेत् २६
वामहस्ते परे शूलं बाहुसीमावसानकम्
पूर्वसूत्रं तथैव स्यात् शिखाबन्धस्य नीप्रकम् २७
चत्वारिंशतिमात्रं वा शूलं तु खगुतोपरि
शूलाग्रोघातुकोपीवा कङ्काळं बन्धयेत्सुधीः २८
दक्षिणे परहस्तेन डमरुं कटकेपि वा
तुटिदीर्घस्य विस्तारं नवांशैरितिकेपि वा २९
मध्यं क्षीणं युगाङ्गुल्यं पद्माकारं द्विपार्श्वके
वलयत्रयसंयुक्तं तर्जनी ऋजुतो भवेत् ३०
तर्जन्याङ्गृह्यमेवं हि हनुसीमावसानकम्
मणिबन्धस्य नीप्रं तु पूर्वसूत्रं तथैव च ३१
चत्वारिंशतिमात्रं स्यादंशाधिकमथापि वा
वामे कपालपात्रं वा भान्वंशं रसनीप्रकम् ३२
घनं मेघाङ्गुलं वापि सुवृत्तं निर्व्रणं भवेत्
मकरकुण्डलं वापि शङ्खपत्रं तु वामके ३३
जटामकुटमेवोक्तं विकीर्णं केशमण्डलम्
दक्षिणे तु शेखरं वा पाजन्विर्वामकेपि वा ३४
करोटिमन्दबन्धं च धुत्तूरकुसुमावृतौ
बकपक्षं तथैवोक्तमर्कपुष्पैश्च दूर्वकैः ३५
पिकाकिजगबन्धं च कटौ क्षुद्रा क्षमालिका
नागकङ्कणं कोष्ठेषु नानारत्नविभूषितम् ३६
एतत्कङ्काळनामास्ति वामस्कन्धोपरि त्यजेत्
अनेकभूतैर्जायाभिः सेवितं वन्दितं च तैः ३७
बलिपात्रधृतं भूतमग्रे मांससमन्वितम्
दक्षात्वन्नं तु तत्पात्रे निधायाकृतिजा यया ३८
किञ्चित् प्रकाशितयोनिसंयुक्तं नतवाससा
सम्भूता मनसोपेता जायास्सर्वत्र नैकशः ३९
दक्षिणे कटिपार्श्वे तु छुरिकाश्चैव बन्धयेत्
छुरिका हेमसङ्काशमुपबन्धसमञ्चिता ४०
उभयोः पार्श्वयोर्हस्तेनानानागैर्विभूषितम्
ऋषिभिर्देवगन्धर्वैस्सिद्धविद्याधरादिभिः ४१
हृदयं कलिसंयुक्तं सम्भ्रान्तमनसाञ्चितैः
सर्वनित्यं सदानन्दं सेविताद्यैः सुपूजितम् ४२
वीथीं सम्मार्जयेद्वायुः पर्जन्यस्सेचयेत् जलम्
पुष्पवृष्टिकृतोदेवाः ऋषयः स्तोत्रपाठकाः ४३
ऋग्यजुस्सामाथर्वाणः स्तुतिं कुर्युः परे परे
चर्मबन्धं च कांस्यं च वीणां सुषिरमेव च ४४
शङ्खध्वनिसमायुक्तं पञ्चवाद्यं समारभेत्
तुम्बुरुर्नारदश्चैव जयवाद्यं सलक्षणम् ४५
चन्द्रा दित्यादिचिद्रो जाच्चामरादिव्ययोषितः
सर्वलोकोपकारार्थमिन्द्र स्य सवनादिषु ४६
वा भूता गमना देवा योन्ये वा वसानकम्
पञ्चतालेन भूतं च मानोन्मानप्रमाणकम् ४७
भूते तु शिरसः पात्रं द्विहस्तस्पर्श एव वा
पात्रविस्तारकं चापि विंशतिरङ्गुलं तु वा ४८
निम्नमानं दशाङ्गुल्यं घनमेकाङ्गुलं भवेत्
हिरण्यं दक्षदिग्भागे जानुसीमावसानकम् ४९
मूर्धादिपादपर्यन्तं हरिणी तुङ्गमेव च
देवस्य पूर्वसूत्रे तु स्पर्शमानं तथैव हि ५०
नासाग्रे लम्बयेत्सूत्रं वामाङ्गुष्ठस्य मूलके
जटाग्रे विंशदङ्गुल्यं त्रयोविंशदथाङ्गुलम् ५१
स्पर्शनं कुक्षिनासाग्रमङ्गुष्ठमूलं लम्बयेत्
सूत्रवामे तु नीप्रान्तमङ्गुष्ठाङ्गुल्य शराङ्गुलम् ५२
तत्सूत्रात् दक्षिणाङ्गुष्ठनीप्रकं तु नवाङ्गुलम्
दशरुद्रा गुं!लं वापि द्वादशाङ्गुलमेव वा ५३
सूत्रस्थानं तु निम्नं वा सर्वपार्ष्ण्यन्तरेपि वा
द्वाविंशदङ्गुलं वापि त्रयोविंशतिरेव वा ५४
सूत्रात्पार्श्वं तु सीमान्तं दक्षिणाङ्गुष्ठनिम्नकम्
एकद्वित्रिचतुःपञ्च रसाङ्गुल्यं तु नीप्रकम् ५५
पीठे दक्षिणपार्ष्ण्ये तु वेदपञ्चरसाङ्गुलम्
पादुकायामकं वापि पादतालायसीमकम् ५६
उत्सेधेन गुणाङ्गुल्यमूर्ध्वमानं तु पद्मकम्
तर्जन्यङ्गुष्ठयोर्मध्ये मुकुळाकृतिबन्धयेत् ५७
द्व्यङ्गुलं कुमुदोत्सेधं सुवृत्तं सुन्दरं भवेत्
कैलासशिखरे रम्ये श्रीगन्धे देवनायकः ५८
ऋषीणां सङ्गमे प्रीत्या भगवान् परमेश्वरः
दण्डकारण्यलीलायां मुनीनां सर्वशान्तये ५९
तेषां श्रीणां च पौरन्ध्र्य विघाताय च लीलया
भिक्षास्वरूपीनग्नेन कटिसूत्रविवर्जितः ६०
इत्येवं परमेशानः कैलासं त्रैविनीयतम्
भिक्षां करोम्यहं विप्र कङ्काळस्य तु मोक्षणं ६१
काश्यप उवाच
त्वया वै वर्धितं चास्य कङ्काळस्य बलं कथम्
शिव उवाच
इदानीं पुरतो विप्र कथ्यते तत्सविस्तरम् ६२
तदहं भुवनादीनि याचे भयपुरस्करः
कम्पितस्तु समस्तानि भुवनान्यधिवासितः ६३
प्रार्थयेद्यस्तु मां भिक्षां मांसं भयनिवृत्तये
अण्डानां सुस्थितार्थं च सर्वलोकोपकारकम् ६४
कङ्काळमोचनान्तं तु तद्धुनैवमहं द्विज
भिक्षान्तेमोचयेदेतत्कङ्काळमभयं भवेत् ६५
काश्यप उवाच
एवं कङ्काळमाख्यातं हरिहरार्धमथ शृणु ६६
इति काश्यपशिल्पे कङ्काळमूर्तिलक्षणं नाम
पञ्चसप्ततितमः पटलः समाप्तः