अथ चतुस्सप्ततितमः पटलः
पाशुपतमूर्तिलक्षणम्
अथ वक्ष्ये विशेषेण पाशुपतस्य लक्षणम्
समवत्स्थानकं प्रोक्तं चन्द्र शेखरमूर्तिवत् १
त्रिणेत्रं च चतुर्बाहुमूर्ध्वेकेशं महातनुम्
अभयं शूलहस्तं च दक्षिणे तु करद्वये २
वरदं चाक्षमाला च वामपार्श्वकरद्वये
प्रवाळसदृशप्रख्यं सौम्यनेत्रं तु शीतलम् ३
सर्वाभरणसंयुक्तं किञ्चित्प्रहसिताननम्
नित्योत्सवार्थबिम्बार्थं स्थानकं वासनं तु वा ४
तदेवाग्निसमं वर्णं रक्ताक्षं कुटिलभ्रुवम्
तीक्ष्णनेत्रत्रयैर्युक्तं व्याळयज्ञोपवीतिनम् ५
ज्वालानलशिखाकारमतिरत्ननिवासधृक्
शूलं त्वधोमुखं धृत्वा कपालं वरदोद्धृतम् ६
अथाभयं विना शूलमूलं धृत्वा तु तत्करे
शूलाग्रं वरदेनैव सङ्गृह्य तु तलोद्धृतम् ७
दक्षिणे तु परे हस्ते टङ्कं खड्गं तु वामके
रौद्रं पाशुपतं ह्येतत् बलिलिङ्गे तु पूज्यते ८
ध्यानपूजा निमित्तायां एतन्मूर्तिं वदाम्यहम्
एतन्मूर्तिं सकृत् ध्यायेत्सर्वशत्रुविनाशनम् ९
एवं तु रौद्र मूर्तिस्स्यात् प्रतिमां नैव कारयेत् १०
इति काश्यपशिल्पे पाशुपतमूर्तिलक्षणं नाम
चतुस्सप्ततितमः पटलः समाप्तः