७२

अथ त्रिसप्ततितमः पटलः
गजसंहारमूर्तिलक्षणम्
अथ वक्ष्ये विशेषेण गजहामूर्तिलक्षणम्
ललाटमध्ये नासाग्रे वामे तु स्तनमध्यमात् १
वामद्विपिण्डमध्यात्तु पूर्वसूत्रं प्रसारयेत्
तत्सूत्राद्दक्षिणे वामे पादपार्ष्ण्यन्तरं द्विज २
साष्टत्रिंशतिमात्रं वा षट्त्रिंशत्यङ्गुलं तु वा
तत्सूत्रात् वामतः सव्य पादाङ्गुष्ठान्तरं द्विज ३
एकविंशतिमात्रं वा एकोनविंशदेव वा
चतुर्हस्तं वाष्टहस्तं सर्वाभरणसंयुतम् ४
चतुर्भुजं चेत्पाशं च गजचर्म च दक्षिणे
गजशृङ्गं चर्म च स्यात् वामपार्श्वकरद्वये ५
चतुर्हस्तमेवमुक्तमष्टहस्तमथोच्यते
शूलं डमरुकं पाशं गजचर्म च दक्षिणे ६
गजशृङ्गं कपालं च गजचर्म च विस्मयम्
वामपार्श्वे चतुर्णां च हस्तानां सम्प्रकीर्तितम् ७
शम्भोर्वामाङ्घ्र्यधस्तात्तु गजस्येव तु मस्तकम्
मकुटस्योपरिष्टात्तु गजपुच्छं प्रकाशयेत् ८
पार्श्वयोः गजपादांस्तु यथा युक्त्या तु कारयेत्
प्रभामण्डलवत् शेषं गजचर्म प्रकल्पयेत् ९
शूलं खड्गं चर्मचापि गजशृङ्गं च दक्षिणे
कपालं खेटकं खड्गं गज चर्म च वामके १०
ललाटमध्ये नासाग्रं दक्षिणस्तनमध्यमात्
सव्यपीठस्य मध्यं तु लम्बयेत् ब्रह्मसूत्रकम् ११
सुस्थितं वामपादं तु गजस्य मस्तकोपरि
उद्धृतं दक्षिणं पादं वाममुत्कुटिकं भवेत् १२
तदङ्घ्रिपार्ष्ण्योः स्फिक्पिण्डात् द्व्यन्तरं चतुरङ्गुलम्
तज्जानुवामकक्षस्य अपि सूत्रसमं नयेत् १३
एवं तु द्विविधं नीत्वा गजहामूर्तिरुच्यते
स्कन्धोच्छ्रिता ह्युमादेवी शम्भोर्वामे भयान्विता १४
एवं हि कल्पितं बिम्बं धनधान्यसमृद्धिदम् १५
इति काश्यपशिल्पे गजहामूर्तिलक्षणं नाम
त्रिसप्ततितमः पटलः समाप्तः