अथ द्विसप्ततितमः पटलः
अर्धनारीश्वरमूर्तिलक्षणम्
अर्धनारीशमूर्तेस्तु लक्षणं वक्ष्यतेऽधुना
चतुर्भुजं षड्भुजं च द्विभुजं परिकीर्तितम् १
समभङ्गस्थानकोक्तमार्गेणैव नतादयः
सुस्थितं दक्षिणं पादं वामं तु कुञ्चितं भवेत् २
वामार्धं पार्वती रूपं दक्षिणार्धं महेश्वरम्
अभयं परशुं सव्ये हस्ते वह्निं शिवांशके ३
वृषमूर्धनिविन्यस्तं कूर्परं वामहस्तकम्
तदन्यद्वामहस्तं तु कटकं पुष्पसंयुतम् ४
द्विभुजे वरदं सव्यं वामहस्तं तु पुष्पधृत्
शिवस्याभरणं सव्ये वामे स्त्रीभूषणाञ्चितम् ५
पुस्तकं दक्षिणे पार्श्वे वामे स्त्रीणां पयोधरम्
अथवा कुञ्चितं सव्यं पादं वामं तु सुस्थितम् ६
सव्यं शूलधरं हस्तं वामं पुष्पकरं मतम्
वरदं दक्षिणं हस्तमन्यद्वृषशिरस्स्थितम् ७
कपालं दक्षिणे हस्ते वामहस्तं प्रसारितम्
दक्षिणे रौद्र दृष्टिः स्यात् वामे पार्श्वे तु शीतलम् ८
दुकूलं चोरुमध्यान्तं सव्यं गुल्फान्तमन्यकम्
एवं सङ्क्षेपतः प्रोक्तमर्धनारीश्वरं परम् ९
इति काश्यपशिल्पे अर्धनारीश्वरलक्षणं नाम
द्विसप्ततितमः पटलः समाप्तः