७०

अथैकसप्ततितमः पटलः
कल्याणसुन्दरमूर्तिलक्षणम्
अथ कल्याणमूर्तेस्तु लक्षणं वक्ष्यतेऽधुना
ललाटमध्यवामे तु वामनेत्रावसानके १
वामनासा पुटान्ते च हिक्कामध्ये च लम्बयेत्
दक्षिणं नाभिमध्ये तु देवहत्वाङ्गुलं भवेत् २
नीत्वा स्थिताङ्घ्रिगुल्फस्य मध्ये सूत्रं प्रलम्बयेत्
द्व्यन्तरं नतमानं च समभङ्गं यथा तथा ३
सुस्थितं वामपादं तु दक्षिणं कुञ्चितं भवेत्
दक्षिणं पूर्वहस्तं तु गौरीदक्षिणहस्तधृत् ४
वरदं वामहस्तं तु परहस्तद्वयोस्तथा
दक्षिणे परशुश्चापि वामे कृष्णमृगस्तथा ५
जटामकुटसंयुक्तः सर्वाभरणभूषितः
देवः प्रवाळवर्णाभः पार्श्वे तस्य विशेषतः ६
सव्य श्यामनिभादेवी प्राग्वन्मानादिसंयुता
उत्पलं वामहस्ते तु तथा दक्षिणहस्तकम् ७
शम्भोर्हस्तेन सङ्गृह्य लज्जालम्बसमन्वितम्
पूर्वस्यानुगुणं शीघ्रं सर्वाभरणभूषितम् ८
हस्ताभ्यां संस्पृशेद्वेदौ तौ गौर्यास्तु कटिं द्विजः
देवाग्रे कारयेत्कुण्डे होमकर्मप्रजापतिः ९
शम्भोर्वैस्तनसीमान्तं प्रजेशस्योदयं भवेत्
चतुर्भुजं चतुर्वक्त्रं सर्वाभरणभूषितम् १०
कुण्डिका चाक्षमाला च वामदक्षकरे परे
स्रुक् स्रुवौ पूर्वहस्तौ तु धृते वामे तरे क्रमात् ११
उत्तराभिमुखासीनः पद्मपीठे प्रजापतिः
प्रगग्रौ देवी देवेशौ देवी देवस्य दक्षिणे १२
दक्षिणाभिमुखो विष्णुः होमस्योत्तरदिक्स्थितः
शम्भोर्वै नासासीमान्तं श्रेष्ठायामं स्तनान्तकम् १३
तयोर्मध्येऽष्टधाभक्ते नवधा केशवोदयम्
श्यामवर्णं भवेद्गात्रं शङ्खं चक्रं परे करे १४
हिरण्यकरणैव पूर्वहस्तद्वयोपरि
सङ्गृह्य वरदे हस्ते सुतीर्थोदकपूर्वकम् १५
अनादिगोत्रसम्भूत श्रीशम्भो परमेश्वर
आदिगोत्रामुमां गौरीं तवैवाद्यद दाम्यहम् १६
इत्युक्त्वा वरदे हस्ते दद्यात्तीर्थोदकं हरिः
अष्टलोकेशविद्येशसिद्धयक्षगणादयः १७
ऋषयश्चैव गन्धर्वाः अप्सराश्च सदैवताः
तत्तत् भक्तिसमोपेता हृदयेञ्जलिभिर्युताः १८
सम्भूतमासनोपेताः समीक्ष्य परितः स्थिताः
एवं कल्याणमूर्तिः स्यात् अर्धनारीश्वरं ततः १९
इति काश्यपशिल्पे कल्याणसुन्दरमूर्तिलक्षणं नाम
एकसप्ततितमः पटलः समाप्तः