अथ सप्ततितमः पटलः
त्रिपुरान्तकमूर्तिलक्षणम्
त्रिपुरान्तकमूर्तेस्तु लक्षणं वक्ष्यतेऽधुना
त्रिचतुःपञ्चमात्रं वा नतमानं यथाक्रमम् १
आभङ्गं समभङ्गं चाप्यतिभङ्गमिति त्रिधा
प्रतिमोच्च नतं भागं मानमेवं हि कल्पयेत् २
पादाङ्गुष्ठद्वयोश्चैव द्व्यन्तरं षोडशाङ्गुलम्
आभङ्गं तद्विजानीयात् अष्टादशाङ्गुलं समम् ३
विंशत्यङ्गुलमाख्यातमतिभङ्गमिति स्मृतम्
तत्त्रिभागैकभागं तु पार्ष्ण्योस्तु द्व्यन्तरं भवेत् ४
उष्णीषात् वामपार्श्वे तु नेत्रान्ते तत्पुटान्तके
हनोर्वामे समालम्ब्य दक्षिणस्तनयामके ५
नाभेर्दक्षिणपार्श्वे तु वामोरुसमपार्श्वके
दक्षिणाङ्घ्रेस्तु पार्ष्णेस्तु वामपार्श्वे तु लम्बयेत् ६
आभङ्गं सूत्रमाख्यातं समभङ्गमथ शृणु
ललाटमध्ये नासाग्रे पादयोः पार्ष्णिमध्यमे ७
लम्बयेत्पूर्वसूत्रं तु द्व्यन्तरं तु वदाम्यहम्
तत्सूत्रात् वामपार्श्वे तु हिक्कासूत्रं शिवाङ्गुलम् ८
अर्धाङ्गुलं तु तत्सूत्रात् वामे हृदयमध्यमम्
तत्सूत्राद्दक्षिणे नाभिमध्यमं तु द्वयाङ्गुलम् ९
तत्सूत्राद्दक्षिणे मेढ्रमूलमध्यं युगाङ्गुलम्
तत्सूत्राद्वावतो जानोरन्तरं द्वादशं यवम् १०
समभङ्गमिति ख्यातमतिभङ्गमथो शृणु
उष्णीषात् वामपार्श्वे तु नेत्रान्ते च पुटान्तके ११
दक्षिणे स्तनमध्यान्तं तत्सूत्रं तु गुणाङ्गुलम्
नाभिमध्ये तु वामे तु सूत्रनीप्रं गुणाङ्गुलम् १२
तत्सूत्रं वामजान्वन्तमर्धमात्रं विधीयते
वामाङ्घ्रिपार्ष्णिसव्ये तु पार्श्वसूत्रं प्रलम्बयेत् १३
स्पर्शनं वेशनं नीप्रं सपादं स्थानकोक्तवत्
एवं त्रिभङ्गसूत्रेषु सम्मिश्रं तु न कारयेत् १४
उत्तमं चातिभङ्गं स्यात्समभङ्गं तु मध्यमम्
आभङ्गमधमं ख्यातं त्रिपुरान्तकमूर्तिकम् १५
दक्षिणं स्वस्तिकं पादं वामपादं तु कुञ्चितम्
दक्षिणे पूर्वहस्तं तु नाभिसूत्रसमं मतम् १६
सिंहकर्णं तु तद्धस्तं बाणमध्यं तु पीडितम्
बाणायामं तु तत्सप्तत्र्! यङ्गुलं तु विधीयते १७
कनिष्ठाङ्गुलिपरीणाहं देवेशस्य करे तु तत्
आस्यं पञ्चाङ्गुलव्यासमास्योच्चं व्यासतस्समम् १८
आस्य तुङ्गसमं पुच्छं विस्तारे त्रियवं भवेत्
वामहस्ते धनुर्धृत्वा कक्षान्तन्तत्करोर्ध्वकम् १९
एकद्वित्र्! यङ्गुलं वापि तस्माद्धृत्यानतं तु वा
शताङ्गुलं तु तुङ्गं वा पञ्चसप्तनवाङ्गुलम् २०
हीनं वाप्यधिकं वापि नवधाधनुषान्वितम्
पूर्णमुष्टिस्तु नाहं स्यात् मध्यमाग्रौ कृशौ कुरु २१
अग्रं मध्याङ्गुलं व्यासं वृत्तवर्णे विचित्रितम्
बाणनाहत्रिभागैकं रज्जुनाहं तु तन्तुना २२
धनुर्दीर्घाष्टभागे तु सप्तांशं रज्जुदीर्घकम्
तद्दीर्घस्यानुकूलं तु धनुर्वक्रमुदाहृतम् २३
त्रिवक्रसहितं वाथ बालचन्द्रा भमेव वा
धनुराकृतिरेवं स्यात् लोहजं दारुजं तु वा २४
कर्तरीपरहस्तौ द्वौ टङ्ककृष्णमृगान्वितौ
टङ्कं दक्षिणहस्ते तु वामहस्ते मृगो धृतः २५
जटामकुटसंयुक्तं सर्वाभरणभूषितम्
प्रवाळसदृशप्रख्यं वामे गौरी समायुतम् २६
त्रिपुरान्तकमूर्तेस्तु प्रथमं लक्षणं त्विदम्
देवस्य वामपादं तु अपस्मारोपरिस्थितम् २७
शेषं प्रागिव कर्तव्यं द्वितीयं लक्षणं भवेत्
सुस्थितं वामपादं तु दक्षिणं कुञ्चितं भवेत् २८
शेषं प्रागिव कर्तव्यं सूत्रादितरपार्श्वकम्
तृतीयं लक्षणं प्रोक्तं चतुर्थं लक्षणं शृणु २९
तदेव वामपादं तु अपस्मारोपरिस्थितम्
शेषं प्रागिव कर्तव्यं चतुर्थं लक्षणं हि तत् ३०
कटौ बाणधरे हस्ते मध्यरेखा कलाङ्गुलम्
तुर्यांशं मनुमात्रं वा त्रयोदशाङ्गुलं तु वा ३१
भानुरुद्रा गुं!लं वाथ द्व्यन्तरं षड्विधं भवेत्
कक्षाद्धनुर्धनुर्हस्ते मणिबन्धान्तरं तथा ३२
तत्करे कूर्परोद्धारं हृदयान्तमुदाहृतम्
एकद्वित्रिचतुःपञ्चमात्रं तस्मान्नतं तु वा ३३
सर्वेषामपि सामान्यं द्व्यन्तरं कथितं मतम्
तदेव पूर्वहस्तौ द्वौ कटकौ हृदयस्थितौ ३४
वामं दक्षिणहस्तं च क्रमादूर्ध्वमधोमुखम्
बाणमूलधृतं सव्यं वामं बाणाग्रकं मतम् ३५
परहस्ते दक्षिणे टङ्कं धनूंषि वामहस्तके
सव्ये पार्श्वे भृगुर्वाथ वामे गौरी समायुतम् ३६
अपस्मारं विना पादं नतसूत्रं च पूर्ववत्
एवं चतुर्भुजोपेता मूर्तिः पञ्चविधा भवेत् ३७
अतिभङ्गं नतोपेतमष्टहस्तसमन्वितम्
बाणं च परशुं खड्गं वज्रं वै दक्षिणे करे ३८
धनुश्च विस्मयं खेटं मृगं हस्तं तथैव च
वामहस्तमिदं ख्यातं पूर्वहस्तात् करान्तकम् ३९
यथा शोभं तथा तुङ्गं कल्पयेत् गौरिसंयुतम्
षष्ठमप्येवमाख्यातं सप्तमं चाप्यथोच्यते ४०
बाणं चक्रं तथा शूलं टङ्कं वज्रं च दक्षिणे
धनुः खड्गं तथा सूचिं विस्मयं खेटकं तथा ४१
वामे पञ्चकरं ख्यातमतिभङ्गमथोपरि
तथैव दक्षिणं जानु वामोपरि निधापयेत् ४२
तत्पूर्वे वामपादं तु तले न्यस्य रथोपरि
रथं तु मुकुळोपेतं मुकुळं रज्जुना वृतम् ४३
मुकुळाभ्यन्तरे ब्रह्मा चतुर्वक्त्रं चतुर्भुजम्
तस्य दक्षिणहस्तौ द्वौ वेणुदण्डकमण्डलुम् ४४
कुण्डिकापद्मपाशं च वामहस्तद्वयोर्धृतम्
रथस्य मुकुळाधस्तात् वृषभं श्वेतवर्णकम् ४५
रथं पूर्वेण मार्गेण कल्पयेत्कल्पवित्तमः
त्रिपुरान्तकमाख्यातं अष्टभेदं द्विजोत्तम ४६
प्रवाळसदृशप्रख्यं सत्वराजससंयुतम्
सर्वाभरणसंयुक्तमेकवक्त्रं त्रिणेत्रकम् ४७
तस्य वामे स्थितां देवीं प्रागुक्तविधिना कुरु
सामान्यलक्षणं कार्यं त्रिपुरान्तकमूर्तिनः ४८
इति काश्यपशिल्पे त्रिपुरान्तकमूर्तिलक्षणं नाम सप्ततितमः
पटलः समाप्तः