६८

अथैकोनसप्ततितमः पटलः
गङ्गाधरमूर्तिलक्षणम्
गङ्गाधरमहं वक्ष्ये सङ्क्षेपादधुना शृणु
सुस्थितं दक्षिणं पादं वामपादं तु कुञ्चितम् १
ललाटमध्यमात्सव्ये नीत्वा नवयवान्तकम्
दक्षिणे चाक्षिसीमान्ते सव्यनासापुटान्तरे २
हिक्कामध्ये च नाभेस्तु सव्ये द्व्यङ्गुलकं भवेत्
दक्षिणे मेढ्रमूलस्य मध्ये वेदाङ्गुलान्तरे ३
पार्ष्ण्योश्च मध्यमे चैव हिक्कासूत्रं प्रलम्बयेत्
गुणांशं नतमानं तु पादाङ्गुष्ठद्वयान्तरम् ४
अष्टादशाङ्गुलं प्रोक्तं तत्त्र्! यंशं पार्ष्णिकान्तरम्
वसिष्ठस्य जटाबन्धं वामे त्वीषन्नताननम् ५
दक्षिणे पूर्वहस्तं तु कुरुदेवीस्तनाश्रितम्
वामेन पूर्वहस्तेन देवीमालिङ्गनं कुरु ६
दक्षिणे परहस्ते तु जटाजाह्नविसंयुतम्
उष्णीषान्तं समुद्धृत्य वामे कृष्णयुगं ध्रुवम् ७
देवस्य वामपार्श्वे तु देवीवहितकाननम्
स्वस्तिकं वामपादं तु दक्षिणं कुञ्चितं भवेत् ८
समजङ्गनतं सूत्रं कल्पयेत्कल्पवित्तमः
प्रसार्य दक्षिणं हस्तं वामहस्तं तु पुष्पकम् ९
अथवा दक्षिणे हस्ते प्रकोष्ठस्य त्रिवर्गकम्
श्रोणिहस्ततलं लम्ब्य स्वप्नस्थितमिव क्रमात् १०
सर्वाहङ्कारसंयुक्तं सर्वालङ्कारसंयुतम्
भागीरथी दक्षपार्श्वे मुनिभिः संस्तुतो हरः ११
गङ्गाधरं हरमिति ततो वै त्रिपुरान्तकम् १२
इति काश्यपशिल्पे गङ्गाधरमूर्तिलक्षणं नाम एकोनसप्ततितमः पटलः समाप्तः