६७

अथाष्टषष्टितमः पटलः
नृत्तमूर्तिलक्षणम्
अथ वक्ष्ये विशेषेण नृत्तमूर्तेस्तु लक्षणम्
उत्साहवर्धनार्थाय उद्भूता चर्ममुण्डिका १
रुरुण्डा वदनं कृत्वा स्पिक्यात्वणनितं तथा
हिंसोत्सुकासना देवी तत्सुखासनवृद्धये २
अथानृत्तं करिष्यति सर्वलोकहिताय वै
देवानां मूर्तिनाथाय राजराष्ट्रविवर्धनात् ३
नृत्तमष्टादशं ह्येव तेष्वादौ नवमुच्यते
प्रकृतौ विधिना ग्राह्यं बिम्बमानं द्विजोत्तम ४
उत्तमदशतालेन सर्वाङ्गं परिकल्पयेत्
भानुरुद्र दशं चैव कुम्भं नृत्तोन्नतं भवेत् ५
उष्णीषमध्यमात्सव्ये ललाटमध्यदक्षिणे
नीत्वा शिवाङ्गुलं सव्ये नेत्रान्ते च पुटान्तके ६
हनोः सर्वं तु हिक्काया मध्ये नाभेश्च मध्यमे
वामोर्वभ्यन्तरे लम्ब्य स्थिताङ्घ्रिगुल्फमध्यमे ७
प्रभामण्डलमध्ये तु पूर्वसूत्रं तु लम्बयेत्
ललाटसूत्रनीप्रं तु युगार्धाङ्गुलमन्तरं ८
गुल्फसूत्रान्तरे चैव द्वादशांशं विधीयते
हिक्कामध्यं तु सूत्रात्तु सार्धसप्तनवाङ्गुलम् ९
मकुटोव्यकपक्षाग्रं सूत्रान्तरं तथैव च
ऊर्ध्वकुक्षिं स्पृशेत्पूर्वं सूत्रमेवं प्रलम्बयेत् १०
तत्सूत्रात् डोलबाह्वग्रमर्धाधिककलाङ्गुलम्
तस्मादपरबाह्वग्रं युगाङ्गुलमुदाहृतम् ११
तस्मादग्निकराग्रान्तं साष्टत्रिंशाङ्गुलं तु वा
चत्वारिंशति मात्रं वा तस्मादधिगुणाङ्गुलम् १२
हिक्कासूत्रं समोद्धृत्य मध्यमे मध्यमाग्रकम्
तद्धस्ततलमध्ये वा मध्याङ्गुल्यग्रपूर्वके १३
मध्यपर्वे यवाधिक्यं त्वनलं पात्रसंयुतम्
पात्रं विनाथवाधिक्यं पञ्चाङ्गुलं विशालकम् १४
कुम्भं सप्ताङ्गुलं वाष्टनवमात्रमथापि वा
त्रिपञ्चसप्तजिह्वा वा कल्पयेत्तु यथोचितम् १५
उक्तासु मध्यजिह्वायां कुर्यात् वह्निं तु दक्षिणम्
दक्षिणे पूर्वसूत्रात्तु बाह्वग्रं विशदं कुरु १६
तस्माड्डमरुके हस्ते मणिबन्धस्य बाह्यकम्
अष्टाविंशतिमात्रं वा त्रिंशदङ्गुलमेव वा १७
चत्वारिंशति मात्रं वा वामसङ्ख्या क्रमान्नयेत्
तद्धस्तमणिबन्धोर्ध्वं हिक्कासूत्रसमं भवेत् १८
डमरुमध्यमं पीड्य सूचीकर्णान्तमुद्धृतम्
तर्जन्यग्रं तु सूची स्यात् तर्जनी रजनी भवेत् १९
अथवा चर्मसूत्रं तु पिण्डीमध्याङ्गुलोपरि
तनामिकोपरिष्टात्तु डमरुं परिकल्पयेत् २०
डमरोर्दीर्घविस्तारं वसुपञ्चाङ्गुलं क्रमात्
मध्यं गुणाङ्गुलव्यासं पद्माकारं प्रकल्पयेत् २१
वलयद्वयसंयुक्तं चर्मसूत्रेण बन्धितम्
गव्येन कृतबिम्बं तं तत् द्र व्येण तु कारयेत् २२
सूच्यग्रात्कर्णसीमान्तं चत्वारिंशति मात्रकम्
सपञ्चचत्वारिंशद्वा पञ्चाशन्मात्रकं तु वा २३
पार्श्वसूत्रसमं सूची वन्यास्तौ मध्यमाङ्गुलम्
दक्षिणे पूर्वहस्तं तु अभयं परिकल्पयेत् २४
प्राक्सूत्रादभयहस्तमध्यं भानुद्वयाङ्गुलम्
तन्मध्यमाङ्गुलान्तं तु हिक्कासूत्रसमं भवेत् २५
सूत्रात्तत्कूर्परं नीप्रं चत्वारिंशत् द्विमात्रकम्
अभयप्रकोष्ठमध्ये भुजङ्गवलयं न्यसेत् २६
प्रकोष्ठमध्यनाहं स्यात् सपादं तस्य दैर्घ्यकम्
तत्सूत्रादुपरिख्यातं फणं भान्वङ्गुलं भवेत् २७
सप्ताङ्गुलं विशालं तु घनमेकाङ्गुलं भवेत्
पुरःस्थितान् समीक्षेत्तु जिह्वा नीप्रं समन्वितम् २८
भुजङ्गवलयं ह्येवं कल्पयेत्कल्पवित्तमः
सूत्रात्कक्षान्तरं सव्ये पार्श्वे द्वादश मात्रकम् २९
सूत्रान्मध्योदरं वामे नवाङ्गुलमुदाहृतम्
नवमात्पिण्डसूत्रं तु सूत्रादष्टादशाङ्गुलम् ३०
सूत्रात्कुञ्चितजानोस्तु अन्तरं तु दशाङ्गुलम्
नवाङ्गुलं चाष्टमात्रं जानुनीप्रं यथाक्रमम् ३१
भानुरुद्र दशाङ्गुल्यं नतमानं तु कल्पयेत्
स्थिताङ्घ्रिजानोर्वामाङ्घ्रि जानुनीप्रं यथाक्रमम् ३२
त्रिपञ्चमनुमात्रं वा जान्वोरभ्यन्तरं त्रिधा
स्थिताङ्घ्रिनळका मध्यात् वामपार्ष्ण्यन्तरं बुध ३३
सवेदचत्वारिंशच्च साङ्गुलं प्रविधीयते
सप्ताष्टषड्पञ्चचत्वारिंशांशं तु नतं भवेत् ३४
स्थितजानूद्धृतं पार्ष्णेश्चतुस्त्रिंशतिमात्रकम्
त्रयस्त्रिंशति मात्रं वा जानुपार्ष्ण्यन्तरं द्विज ३५
उद्धृताङ्घ्रेस्तु जानूर्ध्वं नाभिसूत्रसमं भवेत्
कूर्परं डोलहस्तं स्यात् नाळसूत्रं दशाङ्गुलम् ३६
एकादशाङ्गुलं वाथ कल्प्यं वा कूर्परान्तकम्
तद्धस्तमणिबन्धात्तु वामजान्वन्तमन्तरम् ३७
दशाङ्गुलं वा कर्तव्यं नवाङ्गुलमुदाहृतं
डोलहस्तं विनिर्मुक्तमङ्गुलाग्रं विशेषतः ३८
वामपादे तु जङ्घादि द्व्यन्तरं त्वङ्गुलं भवेत्
नवाङ्गुलान्तरं वापि रुद्रा गुं!लमथापि वा ३९
डोलहस्तादभयान्तमन्तरं तु दशाङ्गुलम्
अन्यान्यनुक्तनीप्राणि यथा सौन्दर्यमाचरेत् ४०
केशान्ताद्बकपक्षं स्यात्तुङ्गमष्टादशाङ्गुलम्
सप्तदशाङ्गुलं वाथ षोडशाङ्गुलमेव वा ४१
तदर्धं वा त्रिपादं वा तस्य विस्तारमेव हि
सुविकीर्णजटाभारं पञ्चषट्सप्तनन्दकं ४२
रुद्र सङ्ख्या तु वा विप्र उभयोः पार्श्वयोस्तथा
द्वात्रिंशाङ्गुलमारभ्य चैकषष्ट्यङ्गुलान्तकम् ४३
अङ्गुलाङ्गुलवृद्ध्या तु जटादीर्घमुदाहृतम्
अधोजटादीर्घमेवं तस्मादूर्ध्वं तु मूर्धके ४४
कनिष्ठाङ्गुलिपरीणाभं जटानाहमुदाहृतम्
जटान्तं पुष्पमालाभिरलङ्कृत्य विशेषतः ४५
नाभं चैवार्कपुष्पं च धुत्तूरकुसुमं तथा
हस्तिशिरीषकं चैव करोटीरत्नबन्धनम् ४६
भूषयित्वा तु मुकुटे दक्षिणे चन्द्र शेखरम्
सिन्दूरालङ्कृतो रत्नहारमालाविलम्बितम् ४७
भस्मोद्धूलितसर्वाङ्गं किञ्चित्प्रहसिताननम्
यज्ञोपवीतसंयुक्तं हारसूत्रसमन्वितम् ४८
देवाङ्गनोरुदेमध्ये बाहुधामेऽग्रमिर्गतिः
प्रभामण्डलमाश्रित्योदरबन्धाग्रको द्विज ४९
व्याघ्रचर्माम्बरोपेत ऊर्ध्वं गतिवसानकम्
डोलबाह्वोर्धृतो बन्धं व्याघ्रचर्मद्विजोत्तम ५०
लम्बनं बाहुमूले तु भानुत्रयोदशाङ्गुलम्
तदर्धं वा त्रिपादं वा विस्तारं चक्रमण्डलम् ५१
पादौ नूपुरसंयुक्तौ सर्वाभरणभूषितौ
हस्तपादाङ्गुल्यस्सर्वाः रत्नहेमाङ्गुलीयकाः ५२
मध्याङ्गुलिविरहिताश्शेषाः मुद्रि कयान्विताः
दक्षिणं कुञ्चितं वाममपस्मारोपरिस्थितम् ५३
तिर्यक् पादतलं न्यस्य नृत्तं कुर्यान्महेश्वरः
वामपादं ततोद्धृत्य सतिर्यक् दक्षिणान्वितम् ५४
डोलसस्तमथात्यन्तमपस्मारमिहोच्यते
त्रिचतुःपञ्चमात्रं वा अपस्मारस्य दैर्घ्यकम् ५५
उष्णीषं चैकभागेन केशान्तं च तथा भवेत्
वस्वंशं तु मुखायामं गळमर्धाङ्गुलं भवेत् ५६
अध्यर्धाङ्गुलविस्तारं कण्ठस्य तु विशेषतः
हिक्कायाहृदयान्तं तु नवाङ्गुलमुदाहृतम् ५७
हृदयान्नाभिपर्यन्तं तत्समं परिकीर्तितम्
नाभेस्तु मेढ्रमूलान्तं मानं षण्मात्रकं भवेत् ५८
सप्ताङ्गुलं चोरुदीर्घं जानुदीर्घं द्वयाङ्गुलम्
जङ्घादीर्घमूरुतुल्यं द्वयांशं चरणोदयम् ५९
मन्वंशं तु करं हिक्कामध्यमाङ्गुलिसीमकम्
शेषं युक्त्या प्रकर्तव्यं शाययेत्तु अधोमुखम् ६०
शम्भोस्सव्ये शिरःस्थाप्य वामे पादौ विधूनितौ
अपस्मारस्योदयं तु धर्मनन्दाष्टमात्रकम् ६१
तन्मुखं तु समुद्धृत्य व्याळलीलासमन्वितम्
व्याळं वै वामहस्तेन दक्षिणे तस्य चेन्द्रि यं ६२
सस्य श्यामनिभाकारमपस्मारं द्विजोत्तम
कलांशं पद्मपीठोच्चं विस्तारं च चतुर्गुणम् ६३
सपादं सार्धपादोनं द्विगुणं वा तदायतम्
ऊर्ध्वपद्ममधःपद्मं पिण्डिका चोक्तवत् भवेत् ६४
प्रभामण्डलसंयुक्तमनेन विधिना कुरु
गुणाङ्गुलं समारभ्य शतमात्रावसानकम् ६५
तावदेवाङ्गुलाख्या तु कालकोनशतोदयम्
एकाङ्गुलं समारभ्यैकैकावयववर्धनं ६६
पश्चात्सख्यासनं ख्याते दण्डः स्यात्प्रथमस्य तु
तत्तदष्टांशहीनं तु ऊर्ध्वोर्ध्वं तु क्रमात्कृशम् ६७
एकद्वित्रिचतुःपञ्चषट्सप्तवसुमात्रकम्
पुनःपुनस्तथासङ्ख्यमुपकुर्यात्प्रकल्पयेत् ६८
कर्तुरिच्छावशात्तेषु दण्डसङ्ख्यं तु तत्कुरु
नानादललताभिश्च नानापुष्पैश्च शोभितम् ६९
तस्योपरिष्टादनलं हस्तं वै शिखरं बुधः
कर्तव्यं परितो विप्र तालस्याभ्यन्तरान्वितम् ७०
भानुमण्डलं वा धीमन् प्रभामण्डलवर्तनम्
तस्य वामे उमादेवीं प्रागुक्तविधिना कुरु ७१
एतत्स्यात्प्रथमं नृत्तं सर्वलोकहितावहम्
तदेव दक्षिणे पार्श्वे जटाग्रे च विभाजिते ७२
शम्भोर्देहान्तरं चैव षोडशाङ्गुलसळितम्
स्त्रीमानोक्ताङ्गसंयुक्तं हृदयेञ्जलिसंयुतम् ७३
एवं जाह्नविसंयुक्तं नृत्तं यत्तत् द्वितीयकम्
तदेव वामपादं तु अपस्मारोपरिस्थितम् ७४
उद्धृतं दक्षिणं पादं वामपादोपरिस्थितम्
ललाटमध्यवामे तु वामनासापुटान्तके ७५
लम्बयेत् ब्रह्मसूत्रं तु स्थितपादस्य गुल्फके
शेषं प्रागिव कर्तव्यं एतन्नृत्तं तृतीयकम् ७६
अवकीर्णजटाभारं जटामकुटसंयुतम्
जटामकुटसंयुक्तं शेषं प्रथमनृत्तवत् ७७
चतुर्थं नृत्तमेतद्धि सर्वप्राणिहितावहम्
कर्णान्तमुद्धृतं सव्यपादं वामं तु कुञ्चितम् ७८
भुजाष्टकसमायुक्तमेतत्पञ्चममुच्यते
अभयं शूलं पाशं च डमरुं दक्षिणे करे ७९
कपालमग्निं पाशं च घण्टां वामे करे तथा
गजहस्तोपमं हस्तं प्रसार्यदक्षिणानुगम् ८०
यद्वत्प्रथमनृत्तस्य पूर्वसूत्रं प्रसारयेत्
चिह्नं पञ्चमनृत्तस्य एवमेवेति विद्यते ८१
दोर्भिः षोडशभिर्युक्तं वामे गौरी समायुतम्
हस्ताभ्यामुद्धृतं स्कन्धं स्तनं तस्य प्रसारितम् ८२
अभयं शूलं पाशं च खड्गं डमरुकं ध्वजम्
वेताळं सूचिहस्तं च दक्षमष्टकरं भवेत् ८३
अनलं गजहस्ताभं खेटकं विस्मयं तथा
घण्टां चैव कपालं च छुरिकां सूचिमेव च ८४
वाममष्टभुजं ख्यातं शेषं पञ्चमनृत्तवत्
एवं षष्ठं समाख्यातं राजराष्ट्रसुखावहम् ८५
त्रिणेत्रमष्टहस्तं च सुविकीर्णजटाधरम्
कुञ्चितं वामपादं तु अपस्मारोपरिस्थितम् ८६
वामपार्श्वे शिरस्तस्य विकीर्णाङ्घ्रिश्च दक्षिणे
सुस्थितं दक्षिणं पादमङ्गुष्ठाग्रं च भीमकम् ८७
पूर्वसूत्रात्तदङ्गुष्ठनीप्रं भान्वङ्गुलं भवेत्
अभयं शूलं पाशं च डमरुं दक्षिणे करे ८८
कपालमग्निपात्रं च तथा विस्मयहस्तकम्
गजहस्तोपमं वामे चतुर्थे चैवमेव हि ८९
गजहस्तोपमं सव्यं वामं व्याळसमं तु वा
ललाटस्य तु मध्ये तु वामे तु स्थानमध्यमे ९०
वामाङ्घ्रिनळकामध्ये लम्बयेत् ब्रह्मसूत्रकम्
तत्सूत्रात् वामजान्वन्तं नीप्रं चैव नवाङ्गुलम् ९१
नतमानं दशांशं स्यात् वामे गौरी समायुतम्
सप्तमं नृत्तमाख्यातं जगद्दुःखविनाशकम् ९२
तदेव षड् भुजोपेतमभयं डमरुं तथा
शूलं दक्षिणपार्श्वे तु कपालं विस्मयं तथा ९३
गजहस्तोपमं वामे सूत्रं प्राग्वत्तदष्टमम्
चतुर्भुजं त्रिणेत्रं च जटामकुटमण्डनम् ९४
अभयं डमरुं सव्ये वामेऽग्निर्गजहस्तवत्
अपस्मारं विना पीठे वामाङ्घ्रिकुञ्चितं स्थितम् ९५
तत्तत्पुरस्थितं पीठे सव्यपादकनिष्ठिकम्
तत्पादं कुञ्चितं युक्त्या सूत्रं युक्त्या तु लम्बयेत् ९६
नवमं नृत्तमाख्यातं गङ्गाधरमतः परम् ९७
इति काश्यपशिल्पे नृत्तमूर्तिलक्षणकथनं नामाष्टषष्टितमः
पटलः समाप्तः