६६

अथ सप्तषष्टितमः पटलः
वृषवाहनमूर्ति लक्षणम्
वृषवाहनमूर्तेस्तु लक्षणं वक्ष्यतेऽधुना
समभङ्गं त्रिभङ्गं वा कल्पयेत्कल्पवित्तमः १
दक्षिणं सुस्थितं वामं वामपादं तु कुञ्चितम्
उष्णीषान्मध्यमाद्वामे ललाटं मध्यवामके २
वामनेत्रावसाने तु वामनासापुटान्तके
दक्षिणे स्तनपीठं स्यात् वामनाभिश्च मध्यमे ३
वामोरुमध्यपार्ष्ण्योश्च मध्यसूत्रं प्रलम्बयेत्
एवं तु समभङ्गं स्यात् नतमानं युगाङ्गुलम् ४
मुखे पूर्ववदुद्दिष्टं दक्षिणे तु स्तने तथा
नाभेर्वामे गुणांशं तु वामोरुमध्यमे तथा ५
सुस्थिताङ्घ्रेस्तु गुल्फस्य मध्ये सूत्रं प्रलम्बयेत्
अतिभङ्गमिति ख्यातं नतं पञ्चाङ्गुलं भवेत् ६
वृषस्य मस्तकोर्ध्वे तु न्यस्तं स्याद्वामकूर्परम्
हिक्कासूत्रं तथाविप्र कलांशं वा नवाङ्गुलम् ७
लम्बं वामकूर्परं स्यात्तस्मादासनसीमकम्
वृषभस्योच्च्रयं ख्यातं पादस्थानाहिताङ्गुलम् ८
वृषभोदयमाख्यातं वृषं लक्षणवत्कुरु
वृषमूर्ध्नि तु हस्ते तु मध्याङ्गुल्यग्रसीमकम् ९
नाभिसूत्रसमं कुर्यात् अङ्गुलं वा नताङ्गुलं
अधस्तात्तलमध्ये तु पूर्वसूत्रं यवद्वयम् १०
अधोमुखं प्रकर्तव्यं तदर्धं तु प्रसारयेत्
दक्षिणे पूर्वहस्ते तु पार्ष्णिनाभेरधो बुधः ११
पक्षे षोडशमात्रं वा नतं तत्सिंहकर्णवत्
वक्त्रदण्डोत्थितं तस्मिन् कल्पयेत्तु चलाचलम् १२
स्थिताङ्घ्रिजानुरूर्ध्वासु हिक्कासूत्रं समुन्नतम्
कनिष्ठाङ्गुलिपरीणाहमग्रं वक्त्रत्रयान्वितम् १३
लोहजं दारुजं वाथ वक्रदण्डैवमाचरेत्
अधस्तान्मणिबन्धस्तु ऊरुमूलं तदुत्तरम् १४
पञ्चषट्सप्तमात्रं वा वसुनन्दाङ्गुलं तु वा
एकहस्तद्वयं चैव हिक्कासीमान्तमुन्नतम् १५
टङ्कं दक्षिणहस्ते तु वामहस्ते मृगं भवेत्
परहस्तद्वयाग्रं च हिक्कासूत्रसमं भवेत् १६
एकद्वित्रिचतुःपञ्च मात्रमुन्नतमेव वा
जटामकुटसंयुक्तं जटाभारस्तु लम्बितः १७
जयबन्धशिरो वापि कर्तुरिच्छावशान्नयेत्
सर्वाभरणसंयुक्तं रक्ताभं रक्तवाससम् १८
वामपार्श्वे उमादेवी दक्षिणे वा विशेषतः
स्वस्तिकं दक्षिणं वामं वामपादं तु कुञ्चितम् १९
उत्पलं दक्षिणे हस्ते वामहस्तं प्रसारितम्
स्त्रीमानोक्तविधानेन उमादेवीं च कारयेत् २०
वृषवाहनमाख्यातं नृत्तमूर्तिरथोपरि २१
इति काश्यपशिल्पे वृषवाहनमूर्तिलक्षणं नाम
सप्तषष्टितमः पटलः समाप्तः