अथ षट्षष्टितमः पटलः
चन्द्र शेखरलक्षणम्
अथ वक्ष्ये विशेषेण चन्द्र शेखरलक्षणम्
केवलं गौरी सहितमालिङ्गनमिति त्रिधा १
केवलं गौरी रहितं सहितं गौरी संयुतम्
आलिङ्ग्य चैकहस्तेन देवीदेवौ परस्परम् २
कृतमालिङ्गमाख्यातमेवं त्रिविधमूह्यताम्
केवलं समपादं तु स्थानकं सहितं भवेत् ३
समभङ्गातिभङ्गं वा ह्यालिङ्गं चन्द्र शेखरम्
केवलमूर्तिदं ख्यातं सहितं त्वभयप्रदम् ४
तेष्वादौ समपादं तु स्थानकं सहितं तथा
बिम्बमानोदयं सर्वं प्रागेव परिकीर्तितम् ५
लम्बमानोपमानं च ह्यधुना वक्ष्यते क्रमात्
प्रलम्बफलकायामं चत्वारि चाष्टमात्रकम् ६
अष्टादशाङ्गुलं तारं सार्धद्वयाङ्गुलं घनम्
चतुष्पादसमायुक्तं पादोच्चं प्रतिमोदयं ७
ऋक्षाङ्गुलसमायुक्तं स्थापयेत्समभूतले
समसूत्रं विनिश्चित्य प्रलम्बफलकोपरि ८
पूर्वोपरि च पार्श्वे च मानसूत्रं प्रलम्बयेत्
अन्तरे सुषिरं कल्प्यं सूत्रान्त्यं लम्बयेत्ततः ९
तत्सूत्रं तु गुणं बिम्बं कारयेत् द्विजसत्तम
पूर्वे च पातयेत्पृष्ठे कायमध्ये च लम्बयेत् १०
एतानि पञ्चसूत्राणि ब्रह्मसूत्रमुदाहृतम्
कक्षान्तरे मुखान्ते च द्वे द्वे सूत्रे प्रलम्बयेत् ११
एवं हि नवसूत्राढ्यं स्थानकं चासनं तथा
मुकुटे मध्यमे चैव ललाटस्य तु मध्यमे १२
नासाग्रमध्यमे चैव हनोर्मध्ये तथैव च
हिक्कामध्ये च हृदयमध्ये नाभेश्च मध्यमे १३
लिङ्गमध्ये च मध्ये तु पादयोश्च तलान्तरे
लम्बयेत्पूर्वसूत्रं स्यादपरस्थमथोच्यते १४
मुकुटमध्यमाद्विप्र कृकाट्याश्चैव मध्यमे
ककुन्मध्याद्विशन् मध्यात् स्फिक्पिण्डान्तरके तथा १५
ऊरुजानुजङ्घयोश्च पार्ष्ण्योश्चाभ्यन्तरे तथा
एवं स्याल्लम्बयेत् सूत्रमपरं सूत्रमेव हि १६
पार्श्वयोः कर्णबाह्ये च ग्रीवामध्ये तथैव च
बाह्वोश्च मध्यमालम्ब्य गुल्फमध्ये तु लम्बयेत् १७
देहमध्यगतेनैव पञ्चसूत्रं प्रकल्पयेत्
श्रोत्राभ्यन्तर्गतं सूत्रं स्तनचूचुकमध्यमे १८
पादोरुमध्य देशेन्त्ये मध्यमे तु प्रलम्बयेत्
पूर्वसूत्रं तु मौळ्यग्रं निम्नं द्वादशमात्रकम् १९
पूर्वसूत्रात्तु मौळ्यग्रमध्यं षण्मात्रमुच्यते
पूर्वसूत्रात् ललाटान्तमन्तरं द्व्यङ्गुलं भवेत् २०
अपरसूत्रं शिरःपृष्ठं पादोनं तु युगाङ्गुलम्
पूर्वसूत्रात्तु हन्वन्तं सयवं द्व्यंशमिष्यते २१
कृकाट्याः परसूत्रं तु यवोनं द्व्यन्तरान्तरे
पूर्वसूत्रात्तु हिक्कान्तमन्तरं तु रसाङ्गुलम् २२
ककुदः पृष्ठसूत्रं तु षोडशं तु यवान्तरम्
उरसः पूर्वसूत्रं तु द्व्यन्तरं तु द्विमात्रकम् २३
ककुन्मध्यात्परं सूत्रं द्व्यन्तरं वसुमात्रकम्
मध्योदरं न्यसेत्पूर्वसूत्रं वै तत्समं परे २४
वंशनिम्नात्परं सूत्रं पादोनाष्टार्धकं परं
प्राक्सूत्रान्नाभिसूत्रान्तमन्तरं सार्धमात्रकम् २५
नाभिसूत्रसमे पृष्ठे सार्धपक्षाङ्गुलं भवेत्
प्राक्सूत्रान्मेढ्रमूलान्तं गुणाङ्गुलमुदाहृतम् २६
तत्समे त्वपरे सूत्रादन्तरं तु द्विमात्रकम्
ऊरुमध्ये तु पुरतो जानुमध्ये तथैव च २७
जङ्घा मध्ये च नळका मध्ये चैव पुरोगतम्
तिर्यक्सूत्रं तु सङ्कल्प्य द्व्यन्तरं तु प्रमीयते २८
तत्तत्स्थाने परे चैव तिर्यक्सूत्रं प्रकल्पयेत्
ऊरुमध्याङ्गसूत्रात्तु पूर्वसूत्रात्तु द्व्यङ्गुलम् २९
तत्रैवापरसूत्रं तु षड्विंशति यवं भवेत्
जानुमध्याङ्गसूत्रान्तं पूर्वसूत्राद्र साङ्गुलम् ३०
तत्रैवापरसूत्रं तु पादोनं पञ्चमात्रकम्
जङ्घामध्यं तु प्राक्सूत्रात् वस्वङ्गुलमुदाहृतम् ३१
तत्रैव परसूत्रान्तं षड्विंशतियवं भवेत्
प्राक्सूत्रान्नळकामध्यं सार्धं वस्वङ्गुलं भवेत् ३२
नळकापरसूत्रान्तं पादोनं पञ्चमात्रकम्
द्व्यर्धमङ्गुष्ठयोरग्रं पूर्वसूत्राद्विशेषतः ३३
तत्सूत्रात्पार्ष्णिपर्यन्तं सार्धमन्वंशमिष्यते
प्राक्सूत्रात्कायमध्यस्थं सूत्रं सार्धनवाङ्गुलम् ३४
तत्कायमध्यसूत्रात्तु शिरः पृष्ठं युगांशकम्
तत्कायमध्यसूत्रात्तु ककुत्पञ्चाङ्गुलार्धकम् ३५
उरोमध्यप्रदेशे तु पृष्ठं सार्धषडङ्गुलम्
सूत्रमध्योदरे पृष्ठे सार्धवेदाङ्गुलं भवेत् ३६
नाभिप्रदेशे पृष्ठे तु सार्धभूताङ्गुलं भवेत्
कटिनीप्रं षडंशं स्यात्सार्धाष्टांशं स्फिगग्रकम् ३७
ऊरुमध्यपरं वेदो जानुपृष्ठं तथैव च
जङ्घामध्ये गुणांशं तु नळका द्व्यङ्गुलं भवेत् ३८
गुल्फयोर्हि युगाङ्गुल्यं परसूत्रे बहिर्घनम्
पार्श्वसूत्रौ च मध्यस्थसमसूत्रे तु संस्थितौ ३९
पार्श्वसूत्रात्पुरो बाहु पर्यन्तं चतुरङ्गुलम्
तत्सूत्रादपरे बाहु पर्यन्तं वसुमात्रकम् ४०
पूर्वापरकरौ मध्ये कूर्परान्तं तु लग्नकौ
तत्करौ बाह्यविवृतौ चतुरङ्गुलमिष्यते ४१
कर्तरीपरहस्ताग्रौ हिक्कासूत्रसमं भवेत्
मध्याङ्गुल्यग्रमुभयोः स्तनचूचुकसमं भवेत् ४२
अभयं दक्षिणं हस्तं वरदं वामहस्तकम्
प्राक्सूत्रादभये हस्ते मध्यं पञ्चदशाङ्गुलम् ४३
वरदं वामहस्तं तु अधोमुखं प्रकल्पयेत्
तलमूलं कटिं स्पृष्ट्वा मेढ्राग्रं तत्कराग्रकम् ४४
मध्याङ्गुल्यग्रमालम्ब्य ऊरुनीप्रं युगाङ्गुलम्
ऊर्ध्ववक्त्रं तु वरदं पृष्ठं नाभिसमोद्धृतम् ४५
वरदं हस्ततलमध्ये पूर्वसूत्रं तलाङ्गुलम्
कर्तरीमणिबन्धं तु बाहुबाह्यं मुखं भवेत् ४६
अथवा रुद्र भागं तु दशाङ्गुलमथापि वा
कूर्परात्पूर्वसूत्रान्तं नीप्रं सप्तदशाङ्गुलम् ४७
अष्टादशाङ्गुलं वाथ एकोनविंश एव वा
जङ्घयोरेकोनविंशमूरुमूलं द्वयोन्नतं ४८
गुल्फयोरन्तरं चैव एकाङ्गुलमुदाहृतम्
ऊरोर्मध्यान्तरङ्गुल्यं विंशाद्यं वा उदाहृतम् ४९
जान्वन्तरं चतुर्मात्रं जङ्घयोः पञ्चमात्रकम्
नळकान्तं रसांशं तु वेदांशं गुल्फयोर्भवेत् ५०
पादाङ्गुष्ठद्वयोरन्तं द्व्यन्तरं वसुमात्रकम्
आर्जवं राजसं भावं कल्पयेद्वा द्विजोत्तम ५१
कर्तरी परहस्तौ द्वौ टङ्कं वै दक्षिणे करे
हरिणी वामहस्ते तु टङ्कं कृत्वा बहिर्मुखम् ५२
हरिणी बाह्यमूलं वा द्व्यन्तराननमेव च
जटामकुटसंयुक्तं दक्षिणे चन्द्र शेखरम् ५३
वामेन्दुशेखरं वाथ प्रवाळसदृशप्रभम्
त्रिणेत्रं सौम्यवदनं सर्वाभरणभूषितम् ५४
पीताम्बरधरं देवं वस्त्राग्रं नळकान्तकम्
उभयोः पार्श्वयोरेवमम्बरं चोरुमध्यमम् ५५
केवलं चैवमाख्यातं वामे गौरी समायुतम्
भिन्नपीठैकपीठं वा भवेद्वाभङ्गसंयुतम् ५६
तद्गौरी संयुतं चोरुभिन्नपीठैकमेव वा
तदेव भङ्गसंयुक्तं देवदेव्यौ परस्परम् ५७
देवो वरदहस्तेन देवीं वै त्वपराश्रिताम्
स्थानमध्यान्तरे वामपार्श्वमालिङ्गनं कुरु ५८
पार्श्वसूत्रात्परो वाथ बाहुमालिङ्गनं तु वा
देवी दक्षिणहस्तेन शम्भोर्दक्षिणपार्श्वतः ५९
कटिसूत्रोपरिष्टात्तु पुष्पं वामकरे धृतः
अथवा पार्श्वदेवेशो व्योम्नस्तु दक्षिणे करे ६०
करोत्पलं वहन्त्याश्च वामहस्तं प्रलम्बयेत्
एवमालिङ्गमूर्तिश्च त्रिधा मानेन कल्पयेत् ६१
सर्वाभरणसंयुक्तं प्रभामण्डलसंयुतम्
चन्द्र शेखरमाख्यातं वृषारूढमथ शृणु ६२
इति काश्यपशिल्पे चन्द्र शेखरमूर्ति लक्षणकथनं नाम षट्षष्टितमः पटलः
समाप्तः