अथ पञ्चषष्टितमः पटलः
सोमास्कन्दलक्षणम्
अथ वक्ष्ये विशेषेण सोमास्कन्देश्वरं द्विज
सुखासनं यथा प्रोक्तं तथेदं च विधीयते १
देवस्य वामपार्श्वे तु पार्वतीं च सुखासनां
शाययेत् दक्षिणं पादं वामपादं प्रलम्बयेत् २
आसनस्योपरिष्टात्तु स्फिक्पिण्डं चतुरङ्गुलम्
ऊर्ध्वकायसमायुक्तमासनोपरिकल्पयेत् ३
किञ्चिद्देव्याश्रितं वक्त्रं लक्षणं भागसंयुतम्
वरदं वामहस्ते तु उत्पलं दक्षिणे करे ४
किञ्चित् वक्राङ्गुलाः सर्वे वामहस्तं तदूर्ध्वगम्
वरदं चाभयं ख्यातं पुष्पधृक्सिंहकर्णकम् ५
सस्य श्यामनिभां देवीं सर्वाभरणभूषिताम्
रक्ताम्बरधरां देवीं छन्नवीरसमन्विताम् ६
अथवान्यप्रकारेण देवी भङ्गं वदामिते
वामोरुबाह्यपीठे तु वामहस्ततलं न्यसेत् ७
प्राग्वदुत्पलसंयुक्तं दक्षिणं हस्तमुच्यते
पीठात्तु दक्षिणं हस्तं किञ्चिदुच्चायतं स्मृतम् ८
त्रिचतुःपञ्चमात्रं वा पीठजान्वन्तरं भवेत्
षट्सप्ताष्टाङ्गुलं वाथ पीठं जान्वन्तरं भवेत् ९
एवं द्विविधमित्याहुः देवीभङ्गं विधीयते
स्त्रीमाने तूक्तमार्गेण देवीमानं तु गृह्यताम् १०
आसने चासनं ख्यातं विपरीतं विपत्करम्
देवीलक्षणमेवं वा स्कन्दलक्षणमुच्यते ११
देविदेवेशयोर्मध्ये स्थापयेत्स्कन्दमूर्तिकाम्
देव्या हिक्कावसानं तु स्कन्दमानं तदुत्तमम् १२
स्तनाक्षान्तं कनिष्ठं स्यात्तयोर्मध्येष्टभाजिते
नवधा स्कन्दमानं तु उत्तमादित्रयं त्रयम् १३
जात्याव्यासयुतं वापि हीनं वापि प्रकल्पयेत्
सवेदरसधर्मांशं तन्मानं तु विभाजिते १४
एकांशमङ्गुलं ख्यातं तदष्टांशं यवं भवेत्
एकाङ्गुलं शिरोमानं केशान्तं चैव तत्समम् १५
द्विभागं नेत्रसूत्रान्तं पुटान्तं चैव तत्समम्
गुणांशं हनुसीमान्तं ग्रीवोच्चं तु गुणाङ्गुलम् १६
हिक्कासूत्रात्स्तनान्तं तु नवभागमुदाहृतम्
तस्मान्नाभ्यवसानं तु वस्वङ्गुलमुदाहृतम् १७
नाभेस्तु मेढ्रमूलान्तं सप्तमात्रमिति स्मृतम्
भान्वंशमूरुदीर्घं स्यात् जानुद्व्यङ्गुलकं भवेत् १८
जङ्घाचोरुसमायामा द्व्यंशं पादतलोन्नतम्
दशांशं तु तलायामं बाहुदीर्घं चतुर्दश १९
प्रकोष्ठं तु दशांशं तु तलं वेदाङ्गुलायतम्
गुणांशं मध्यमाङ्गुल्यं सार्धद्व्यंशमनामिका २०
तत्समं तर्जनीदीर्घं कनिष्ठायागुणाङ्गुलम्
अङ्गुष्ठायाममग्न्यंशं युगांशं तलविस्तृतम् २१
प्रकोष्ठाग्रं गुणांशं तु तन्मूलं चतुरङ्गुलम्
भूतांशं बाहुमूलस्य विस्तारं द्विजसत्तम २२
सार्धाष्टांशं मुखव्यासं सप्तांशं कण्ठविस्तृतम्
कक्षयोरन्तरव्यासं त्रयोदशाङ्गुलं भवेत् २३
पञ्चांशं हृदयं तारं रुद्रा शं! मध्यविस्तृतम्
श्रोणिस्थाने तु भान्वंशं कटिस्थाने त्रयोदश २४
ऊरुमूलविशालं तु वस्वङ्गुलमुदाहृतम्
षडंशं जानुविस्तारं जङ्घामूलं युगाङ्गुलम् २५
गुणांशं नळकातारं षडंशं तलविस्तृतम्
पार्ष्णिव्यासं गुणांशं वा शेषं युक्त्या तु कल्पयेत् २६
केशान्ते नासिकोपेतं करण्डमकुटान्वितम्
उभयोर्हस्तयोः पुष्पं वामो वरद एव वा २७
कटकं वाथ तद्धस्तं सिंहकर्णमथापि वा
दक्षिणं पुष्पहस्तं वा कपित्थाम्रफलं तु वा २८
कटिसूत्रधृतं नग्नं छन्नवीरसमन्वितम्
मृदुकचमुपग्रीवं बालभूषणभूषितम् २९
आसीनं वा स्थितं वाथ नृत्तं वा स्कन्दमाचरेत्
आसीनौ चरणौ द्वौ तु विष्टरोपरिशाययेत् ३०
स्थिते पादतलौ द्वौ तु समभङ्गमिव स्थितौ
चरणौ कुञ्चिताभौ तु युक्त्या जान्वोश्च नीप्रकम् ३१
द्विपादौ कुञ्चितौ किञ्चित्किञ्चित् गमन एव वा
नृत्तं चेत्सुस्थितं सव्यपादं वक्रसमन्वितम् ३२
उद्धृतं वामपादं तु पीठोत्सेधं कलावधि
षण्मात्रं पञ्चमात्रं वा पादमुद्धारयेत् द्विज ३३
फलेन वरदं वामं हस्तमन्यं तु सूचिकम्
अथवा वामहस्तं तु फलं न्यस्य प्रसाधयेत् ३४
हिक्कासूत्रे समे धृत्वा कर्णबन्धोर्ध्वसीमकम्
द्व्यन्तरं लम्बसूत्रं तु नृत्तमूर्तिवदाचरेत्
उमास्कन्दयुतं प्रोक्तं शृणु चन्द्र कलाधरम् ३५
इति काश्यपशिल्पे सोमास्कन्दमूर्तिलक्षणं नाम पञ्चषष्टितमः पटलः समाप्तः