अथ चतुष्षष्टितमः पटलः
सुखासनमूर्तिलक्षणम्
अथ वक्ष्ये विशेषेण सुखासनविधिं परम्
आसनं राजसं भावं भद्र पीठोक्तमासनम् १
वामाङ्घ्रिं शाययेत्पीठे दक्षिणाङ्घ्रिं तु लम्बयेत्
ऊर्ध्वभागोपरिष्ठात्तु सार्धवेदाङ्गुलाधिकम् २
स्फिक्पिण्डमानमेतद्धि आसीनोर्ध्वे विशेषतः
आसने पूर्वकेशान्तं जान्वोर्बाह्यावसानकम् ३
जानूर्ध्वं पूर्वकेशान्तं जानुबाह्याग्रबाह्यकम्
परहस्तमणिबन्धमध्यमं च समं भवेत् ४
आसने नवसूत्राणि पूर्वसूत्रे धुना शृणु
मौळिमध्यं तु नासाग्रे स्तनान्ते नाभिमध्यमे ५
वामाङ्घ्रिगुल्फमध्ये तु ब्रह्मसूत्रं प्रलम्बयेत्
सूत्राद्दक्षिणजान्वन्तमेकत्रिंशाङ्गुलं भवेत् ६
अथवा त्रिंशदङ्गुल्यमेकोनत्रिंशतं तु वा
सूत्रात्तदङ्घ्रिनळका द्वान्तरं द्वादशाङ्गुलम् ७
त्रयोदशाङ्गुलं वाथ दशाङ्गुलमथापि वा
पीठात्तदङ्घ्रिपार्ष्णेस्तु नीप्रं द्वित्र्! यङ्गुलं तु वा ८
तत्सूत्रादुभयोः हस्ते मध्यरेखावसानकम्
चतुर्दशाङ्गुलं प्रोक्तमन्तरं तु द्विजोत्तम ९
भानुमध्याङ्गुलाग्रं तु –कोर्ध्वसमं भवेत्
तत्सूत्रात्कटके हस्ते मणिबन्धस्य मध्यमात् १०
पञ्चदशाङ्गुलं प्रोक्तमन्तरं द्विजसत्तम
ऊरोस्तु मणिबन्धान्तं नीप्रं द्वित्र्! यङ्गुलं तु वा ११
कटकं सिंहकर्णं वा तद्धस्तं प्रतिधीयते
तर्जन्यादिकनिष्ठान्तं तत्राङ्गुल्यस्तु वक्रगाः १२
ईषद्वक्रं तदङ्गुष्ठमेवं स्यात्कटकाकृतिः
मध्यामध्यतलान्तं तु अर्धमर्धं त्वनामिका १३
वक्रं शेषाङ्गुलं प्राग्वत्सिंहकर्णमिदं परम्
हिक्कासूत्रसमं कुर्यात्कर्तर्यग्रौ परे करे १४
वक्रावनामिकाङ्गुष्ठौ तलमध्यावसानकौ
किञ्चिद्वक्रा कनिष्ठापि शेषौ द्वौ तु ऋजुक्रियौ १५
कर्तव्या कृतिरेवं स्यात् लक्षणाञ्चितसुन्दरम्
कूर्परं श्रोणिपार्श्वे तु पञ्चषट्सप्तमात्रया १६
कुक्षिमध्ये च नासाग्रे पूर्वसूत्रं तु संस्पृशेत्
मेढ्रमूलात्तु वामाङ्घ्रि गुल्फमध्यं रसाङ्गुलम् १७
अथवा सप्तमात्रं तु पञ्चमात्रमथापि वा
नाभिमध्यात्तु वामाङ्घ्रि नळकाग्रं चतुर्दश १८
त्रयोदशाङ्गुलं वाथ भान्वङ्गुलमथापि वा
मौल्यग्रात् मध्यसूत्रान्तमन्तरं मनुमात्रकम् १९
सार्धत्रयोदशांशं वा त्रयोदशांशमेव वा
ऋज्वागतं सुखासीनं प्रवाळसदृशप्रभम् २०
त्रिणेत्रं सुष्ठुवदनं सम्पन्नं राजसं गुणम्
व्याघ्राजिनाम्बरोपेतं दुकूलवसनान्वितम् २१
कर्तरीपरहस्तौ द्वौ बाह्ये वाभ्यन्तराननं
दक्षिणे परशुः वामे कृष्णश्चान्यकरद्वये २२
अभयं दक्षिणं वामं कटकं सिंहकर्णवत्
वामे कर्णविशेषेण शङ्खपत्रं निधापयेत् २३
त्रिचतुः पञ्चमात्रं वा पत्रमण्डलविस्तृतम्
कर्णनाळघनं चैव त्रिगुणं पत्रविस्तृतम् २४
एवं पत्रघनं प्रोक्तं श्वेतभान्वादिमार्दवत्
दक्षणे कर्णमेवं तु कुण्डलं सिंह एव वा २५
कुण्डलव्यासतुङ्गं तु त्रिचतुः पञ्चमात्रकम्
युक्त्या तत्कुण्डलं कृत्वा कर्णात्स्कन्धोपरिन्यसेत् २६
अथवा कर्णयोर्विप्र वृत्तकुण्डलकं न्यसेत्
वृत्तकुण्डलविस्तारमष्टादशयवं भवेत् २७
वेदाङ्गुलं तु तत्तुङ्गं कुम्भाब्जमुकुळोदयम्
अन्यद्वा सुन्दरोपेतं कल्पयेत् वृत्तकुण्डलम् २८
जटामुकुटसंयुक्तं युग्मसङ्ख्याजटान्वितम्
मुकुटस्योदयं विप्र चतुर्विंशाङ्गुलं भवेत् २९
त्रिसप्ताङ्गुलतुङ्गं वा द्विर्नवाङ्गुलमेव वा
केशान्तमकुटोच्चं तु ललाटपट्टसंयुतम् ३०
मुखान्तसदृशं विप्र मकुटमूलविशालकम्
तत्सप्ताष्टनवांशेन हीनमग्रविशालकम् ३१
चतुष्पूरिमसंयुक्तं भान्वंशं पूरिमोदयम्
सव्ये नागार्कपुष्पं च वामे त्वर्धशशिं न्यसेत् ३२
दक्षिणेर्धशशिर्वाथ वामे नागार्कपुष्पभृत्
कटिसूत्रं त्रिसङ्ख्यादिसूत्रं प्रतियवं घनम् ३३
कटिसन्ध्युपरिष्टात्तु कटिसूत्रं तु बन्धयेत्
पञ्चषट्सप्तमात्रं वा कीर्तिमाननविस्तृतम् ३४
तद्विस्तारसमोत्तुङ्गं मेढ्रोर्ध्वं परिकल्पयेत्
कटिसूत्रादूरुदाममूरुत्र्! यंशावसानकम् ३५
मुक्तादामोरुदामस्यादन्तरे रत्नसंयुतम्
कटिसूत्रं समाख्यातं कटक वलयान्वितम् ३६
कटकवलयोपेतं प्रकोष्ठं द्विजसत्तम
कनिष्ठाङ्गुलिपरीणाहं वलयं मार्दवं हि तत् ३७
अथवा वलयस्यैव घनं द्वित्रियवं तु वा
पराजितं तु वलयं युग्मं प्रकोष्ठनिधापयेत् ३८
मार्दवं रत्नबन्धं वा कृत्वा तु वलये द्विज
केयूरं कूर्परे न्यस्य वलयस्य घनान्वितम् ३९
एकाकारं तु केयूरं वाष्टपत्राब्जसंयुतम्
नानारत्नसमायुक्तं शैलवाहमथापि वा ४०
पत्रपूरिमसंयुक्तं बाहुमध्ये द्विजोत्तम
पत्रपूरिमनाळं तु केयूरसदृशं घनम् ४१
तत्पूरिमादधोनाळं बाहुद्वित्रिपरं तु वा
त्रिचतुःपञ्चमात्रं वा पत्रपूरिमविस्तृतम् ४२
तद्व्यासार्धतुङ्गं पादोनं द्विगुणं तु वा
द्विगुणं वापि तुङ्गं तु तद्बाहुवलयं भवेत् ४३
मध्याङ्गुल्या विना शेषास्त्वङ्गुल्यः मुद्रि कान्विताः
मुद्रि कामूलपर्वस्था वृत्तायावसनान्वितं ४४
उदरबन्धविशालं चैकद्वित्रियुगं तु वा
यवं वा द्वियवं वाथ उदरं बन्धनं भवेत् ४५
नानालङ्कारसंयुक्तं नानारत्नैर्विचित्रितम्
नाभेरूर्ध्वे गुणांशं तु नीत्वा दारुविवर्धयेत् ४६
पादयोः मध्यमान्याश्चाप्यङ्गुल्यो वलयान्विताः
कालयवद्वयघनमङ्गुलानां तुलीयकमध्यमम् ४७
पादौ जालकसंयुक्तौ गुल्फाधस्तात् द्विजोत्तम
पादका बन्धसूत्रं तु यवद्वयघनान्वितम् ४८
तत्सूत्रजालनाळं स्यात्त्रिपञ्चयवमानकम्
त्रियवं जालकानाळं शेषं वै जालकोदयम् ४९
तदुन्नतसमं व्यासं यवमानं च तत्समम्
शेषं हीनं घनं गाढं यस्य यच्च यथोचितम् ५०
गाढावृतं तु युक्तं स्यादन्तः पाषाणसंयुतम्
घनं पाषाणहीनं तु गाढनीप्रं तदोच्यते ५१
परशुहरिणीदीर्घं भान्वङ्गुलमुदाहृतम्
परशुं हरिणीं चैव युक्त्या सौन्दर्यमाचरेत् ५२
यज्ञोपवीतसंयुक्तं यवाष्टांशघनान्वितम्
उपवीतं द्विसूत्रं स्यात् उपवीतसमं घनं ५३
वासः स्कन्धोपरि न्यस्य नाभ्यधस्तात्तदङ्गुलम्
यज्ञोपरीतसूत्रं स्यात् नाभेर्दक्षिणपार्श्वके ५४
अपरे वाममाश्रित्य यज्ञसूत्रं निधापयेत्
ऊरुसूत्रं समालम्ब्य स्तनादष्टाङ्गुलोत्तरम् ५५
यज्ञोपरीतमेवं स्यात् छन्नवीरमथ शृणु
यज्ञोपवीतवत् विप्र स्कन्धयोरुभयोरपि ५६
पार्श्वयोश्चैव श्रेण्यूर्ध्वे सप्तानां च तथैव च
ग्रीवाहारं विजानीयात् हिक्काधस्तात् षडङ्गुलम् ५७
लम्ब्ये वेदाङ्गुलं तारं यवत्रयघनान्वितम्
नानारत्नैर्हिरण्यैश्च हारं कृत्वातिसुन्दरम् ५८
हिक्कासूत्रोपरिष्टात्तु उपग्रीवं च बन्धयेत्
रुद्रा क्षं वाथ रत्नं वा हेमसूत्रमथापि वा ५९
उपग्रीवं समाख्यातं नानापुष्पविराजितम्
कर्णादुदरबन्धं वा ह्यक्षमालां तु लम्बयेत् ६०
एतत् हृदयमाला स्यात्स्कन्धमाला तथोच्यते
स्कन्धे तु स्कन्धमाला स्यात् नानावृक्षैर्विराजितं ६१
सर्वाङ्गसुन्दरं देवं शेषं युक्त्या समाचरेत्
एवं सुखासनं प्रोक्तमुमास्कन्दयुतं शृणु ६२
इति काश्यपशिल्पे सुखासनमूर्तिलक्षणं नाम चतुष्षष्टितमः पटलः समाप्तः