६२

अथ त्रिषष्टितमः पटलः
मूर्तिस्थापनविधिः
अथ शैवानन्तरं स्यात् विष्णोस्तु स्थापने विधिः
नगरे पश्चिमे वापि मध्ये वा उत्तमोत्तमम् १
मत्स्यादिकल्क्यन्तकं वा अवतारं तु शंसितं
तत्पदे वास्तुदेवांश्च स्थापयेत् शिल्पिकोत्तमः २
खगं तु विष्णुपुरतः विष्णुकुञ्जमथापि वा
अञ्जलिहस्तसंयुक्तं पूर्वे वा अग्रतस्तथा ३
आलये रण्यके वापि तटाके पुण्यतीर्थके
ग्रामे वा वास्तुमध्ये वा भवेत्पूर्व उदङ्मुखे ४
वारुणे वैश्यभूमिं च यममिन्द्रं तु स्थापयेत्
पिशाचाग्नौ पदे स्थाप्य नैरृतिं वायुमर्चयेत् ५
अथ वक्ष्ये विशेषेण सकलस्थानमुत्तमम्
शाङ्करे नृत्तमूर्तिं तु आग्नेय्यां वृषवाहनम् ६
उमास्कन्दयुतं विप्र नैरृत्यां परिकल्पयेत्
कङ्काळं वायुदिग्भागे भिक्षाटनं जयान्तिके ७
सुखासनं तु सत्यांशे विध्यंशे त्रिपुरान्तकम्
सुग्रीवे हरिरर्धं स्याद्गन्धर्वे चन्द्र शेखरम् ८
शेषे चण्डानुग्रहं च मुख्ये कालारिमूर्तिकम्
उदिते त्वर्धनारीशं ऐन्द्रे कल्याणसुन्दरम् ९
क्षेत्रपालं तु पर्जन्ये याम्ये वा दक्षिणेश्वरम्
लिङ्गोद्भवं वारुणे च सौम्ये तु गजहारिणम् १०
इत्युर्ध्वमालयं प्रोक्तमन्तराळस्य कल्पयेत्
मूलमध्ये तु संवीक्ष्य सकलं स्थापनं कुरु ११
प्राकारेष्टचतुर्दिक्षु द्वारशोभादि कल्पयेत्
प्राकारान्तादिमध्ये च दीर्घमध्ये च वेशनम् १२
अथवा हर्म्यस्य मध्येन द्व्येकमंशकम्
प्रधानमारमेकं वा त्वग्नेवाचालकं द्विज १३
इति काश्यपशिल्पे सकलमूर्तिस्थापनविधिर्नाम त्रिषष्टितमः पटलस्समाप्तः