अथ द्विषष्टितमः पटलः
सप्तताललक्षणम्
अथ वक्ष्ये विशेषेण सप्ततालविधिं परम्
पिशाचप्रतिमोत्सेधं साष्टाशीत्यंशकं भवेत् १
उष्णीषमर्धभागेन केशान्तं शशिभागतः
सार्धद्व्यंशं तु नेत्रान्तं सार्धाग्न्यंशं पुटान्तकम् २
चिबुकान्तं च तत्तुल्यं वेदांशं च गळोदयम्
स्तनान्तं सप्तभागं तु रुद्रा शं! नाभिसीमकम् ३
तथा वै योनिमूलान्तं विंशांशं चोरुदीर्घकम्
जानुमानं द्विभागेन जङ्घा चोरुसमाभवेत् ४
चरणोच्चं द्विभागेन मन्वंशं तु तलोन्नतम्
ऊरुदीर्घसमं बाहुः प्रकोष्ठान्तं त्रिपञ्चकम् ५
तलायामं तु भूतांशं वेदांशं तस्य विस्तरम्
तलायामस्य सदृशं मध्यमाङ्गुलिदीर्घकम् ६
शेषं प्रागुदिते देशे ह्रासं कुर्यादतीन्द्रि यम्
सप्ततालं समाख्यातं शेषं प्रागिव चोदितम् ७
इति काश्यपशिल्पे सप्तताललक्षणं नाम द्विषष्टितमः पटलस्समाप्तः