अथैकषष्टितमः पटलः
अष्टताललक्षणम्
अथ वक्ष्ये विशेषेण अष्टतालविधिं परम्
शतांशं मध्यबिम्बोच्चमुष्णीषं तु शिवांशकम् १
सार्धद्व्यंशं तु केशान्तं केशान्ताद्धनुसीमकम्
पादोनदशभागं स्यात्तत्त्रिभागविभाजिते २
शिवांशं त्वक्षिसूत्रान्तं पुटान्तं चैव तत्समम्
पुटाद्धन्वन्तकं शेषं सार्धत्र्! यंशं गळोदयम् ३
हिक्कादिहृदयान्तं तु रुद्रा शं! द्वियवोनकम्
नाभ्यन्तं चैव तत्तुल्यं मेढ्रमूलान्तकं तथा ४
सार्धत्रिसप्तभागं तु ऊरुदीर्घमुदाहृतम्
जानुकण्ठसमं तुङ्गं जङ्घा चोरुसमा भवेत् ५
जानु तुल्यं तलोत्सेधं बाहुश्चोरुसमायतः
प्रकोष्ठं तु षोडशांशं सार्धभूताङ्गुलं तलम् ६
तत्समं मध्यमाङ्गुल्यं शेषं प्राग्वदिहोदितम्
अत्रानुक्तं तु यत्सर्वं कन्यसदशतालवत् ७
इति काश्यपशिल्पे अष्टतालकथनं नाम एकषष्टितमः पटलस्समाप्तः