अथ षष्टितमः पटलः
अधमनवतालम्
अधमनवतालस्य लक्षणं वक्ष्यतेऽधुना
विद्याधरगणाश्चैव असुराश्च तथैव च १
पितरस्सिद्धगन्धर्वाः नवतालाधमेन तु
सवेदशतभागं तु कौतुकोच्चे विभाजिते २
उष्णीषोच्चं त्रिपादं स्यात् केशं सार्धत्रिभागकम्
केशान्तान्नेत्रसूत्रान्तं पादोनचतुरंशकम् ३
तस्मान्नेत्राद्धि हन्वन्तमाननं स्यात्तथोदितम्
भवेद्वेदाङ्गुलं ग्रीवामानमित्यभिधीयते ४
सपादं रुद्र भागं तु हिक्कादाहृदयान्तकम्
तस्मान्नाभ्यन्तरं तद्वत् मेढ्रमूलान्तरं तथा ५
ऊरुदीर्घं तु द्वाविंशन्मात्रमेव विधीयते
ग्रीवायतं तलं जानु जङ्घोरुसदृशायता ६
बाहुदीर्घं चोरुसमं प्रकोष्ठं षोडशाङ्गुलम्
तलदीर्घं तु भूतांशं तत्समं मध्यमाङ्गुलिः
शेषं युक्त्या तु कर्तव्यं सर्वाङ्गं तु विधीयते ७
इति काश्यपशिल्पे अधमनवतालकथनं नाम षष्टितमः पटलस्समाप्तः