५८

अथैकोनषष्टितमः पटलः
मध्यमनवतालम्
मध्यमं नवतालं तु वक्ष्ये सङ्क्षेपतः क्रमात्
यक्षाप्सरोगणाश्चैव अस्त्रमूर्तिर्मरुद्गणाः १
मध्यमनवतालेन कर्तव्या द्विजसत्तम
अष्टोत्तरशतांशे तु प्रतिमोच्चे विभाजिते २
उष्णीषं व्योमभागेन केशं पादोनकानलम्
केशान्तान्नेत्रसूत्रान्तं चतुर्भागं यवोनकम् ३
पुटान्तं चैव तत्तुल्यं हन्वन्तं च तथा भवेत्
पादोनचतुरंशं तु ग्रीवामानमुदाहृतम् ४
त्रियवोनं तु भान्वंशं हिक्कातो हृदयावधि
नाभ्यन्तं चैव तत्तुल्यं मेढ्रमूलान्तकं तथा ५
पादाधिकगुणांशं च विंशांशं चोरुदीर्घकम्
जानुग्रीवसमं तुङ्गं जङ्घा चोरुसमा भवेत् ६
जानुतुल्यं तलायामं बाहुश्चोरुसमो भवेत्
सप्तदशाङ्गुलं प्रोक्तं प्रकोष्ठस्य तु दीर्घकम् ७
षडंशं च यवोनं तु तलायामं करस्य तु
तत्समं मध्यमायामं शेषं युक्त्या समाचरेत् ८
इति काश्यपशिल्पे मध्यमनवतालकथनं नाम
एकोनषष्टितमः पटलस्समाप्तः