अथाष्टपञ्चाशत्तमः पटलः
उत्तमनवतालम्
नवतालोत्तमं वक्ष्ये शृणुष्वैकाग्रमानसः
वसवोष्टमूर्तयश्च विद्येशा लोकपालकाः १
अन्याश्च देवताश्चैव नवतालोत्तमेन तु
सद्वादशशतं भागं बेरमाने विभाजिते २
उष्णीषमेकभागं तु केशान्तं तु गुणाङ्गुलम्
केशान्तादक्षिसूत्रान्तं वेदमात्रं विधीयते ३
तस्मादापुटसीमान्तं हन्वन्तं वेदमात्रकम्
कण्ठमानं तु वेदांशं भान्वंशं हृदयावधि ४
हृदयान्नाभिसीमान्तं तथा द्वादशमात्रकम्
नाभ्यादिमेढ्रमूलान्तं भानुमात्रं विधीयते ५
ऊरुदीर्घं चतुर्विंशदंशं जानुयुगांशकम्
जङ्घादीर्घं चोरुतुल्यं वेदांशं तु पदोदयम् ६
हिक्काधो बाहुदीर्घं स्यात् चतुर्विंशति भागकम्
द्विर्नवांशं प्रकोष्ठं स्यात् द्वादशांशं तलायतम् ७
तस्मान्मध्याङ्गुलायामं षडङ्गुलमुदाहृतम्
कन्यसदशतालोक्तमार्गेण शेषमाचरेत् ८
तस्मादवयवार्थं च प्रत्येकमेवमाचरेत्
मानमेवं समाख्यातं लक्षणं कथितं पुरा ९
इति काश्यपशिल्पे उत्तमनवतालकथनं नाम अष्टपञ्चाशत्तमः पटलः समाप्तः