अथ सप्तपञ्चाशत्तमः पटलः
अधमदशतालम्
कनिष्ठं दशतालेन शृणु वक्ष्ये द्विजोत्तम
चन्द्रा दित्यावश्विनौ च ऋषींश्चैव गुहं तथा १
आर्यं शतमखं चैव चण्डेशं क्षेत्रपालकम्
कनिष्ठदशतालेन कारयेत्तु विचक्षणः २
कलाधिकशतांशं स्यात् अधमं दशतालकम्
उष्णीषमङ्गुलं प्रोक्तं केशान्तं तु गुणाङ्गुलम् ३
केशान्तात् हनुपर्यन्तं सार्धभान्वङ्गुलं भवेत्
युगाङ्गुलं समाख्यातं कण्ठमानं द्विजोत्तम ४
हिक्कातस्स्तनमूलान्तं सार्धद्व्यङ्गुलकं भवेत्
स्तनादानाभिपर्यन्तं तत्समं चेति कीर्तितम् ५
नाभेस्तु मेढ्रमूलान्तं सार्धद्वादशमात्रकम्
मेढ्रमूलात्तु जान्वन्तं पञ्चविंशतिमात्रकम् ६
वेदभागं तु जानु स्यात् जङ्घा चोरु समा भवेत्
वेदांशं चरणोत्सेधं तुङ्गमेवं विधीयते ७
उष्णीषात् पृष्ठकेशान्तं सार्धभान्वङ्गुलं भवेत्
उष्णीषपार्श्वकेशान्तं पञ्चाङ्गुलमुदाहृतम् ८
केशान्ताद्धनुपर्यन्तं मानं तु गुणभाजिते
केशान्तादक्षिसूत्रान्तं पुटान्तं हनुमानकम् ९
यवोपेतद्विमात्रं तु नेत्रयोरन्तरं द्विज
तत्समं नयनायामं भूतमात्रं तु वाऽऽयतम् १०
भ्रूमध्यादूर्ध्वकेशान्तं सप्तदश यवाः स्मृताः
यवं भ्रूमध्यविस्तारमानुपूर्व्यात्तदग्रकम् ११
षड्यवं नेत्रविस्तारमूर्ध्ववर्मयवार्धकम्
अधोवर्म तु तत्तुल्यं करवीरयवं भवेत् १२
नेत्रायामं त्रिधा कृत्वा एकांशं कृष्णमण्डलं
कृष्णमण्डलमध्ये तु ज्योतिर्यवप्रमाणकम् १३
यवमानेन दृष्टिः स्यात् ज्योतिर्मण्डलमध्यमे
अधो वर्मणि तन्नेत्रसूत्रं कुर्याद्विशेषतः १४
तस्य केशान्तयोर्मध्ये भ्रूस्थितिर्बालचन्द्र वत्
कर्णस्थानं च कर्णं च उत्तमदशतालवत् १५
घ्राणमूलस्य विस्तारं उत्तमदशतालवत्
नासिकाग्रविशालं तु व्योमाङ्गुलमुदाहृतम् १६
अधरोष्ठस्य चायामं पक्षाङ्गुलमुदाहृतम्
तदर्धं तस्य विस्तारं चिबुकं च द्वयाङ्गुलम् १७
विस्तारं तत्समं विद्यात् निम्नमर्धयवं भवेत्
तस्मादधरनिष्क्रान्तं यवो न व्योममात्रकम् १८
ग्रीवामूलविशालं तु वस्वङ्गुलमुदाहृतम्
ग्रीवाग्रस्य तु विस्तारं सार्धसप्ताङ्गुलं भवेत् १९
वक्षस्स्थलस्य विस्तारं सप्तत्रिंशतिमात्रकम्
पञ्चविंशतिमात्रं तु बाहुदीर्घमुदाहृतम् २०
आयामं तु प्रकोष्ठस्य एकोनविंशदङ्गुलम्
तस्मादामध्यमाग्रान्तं सार्धद्वादशमात्रकम् २१
तदर्धं तु तलायामं शेषं मध्याङ्गुलायतम्
अङ्गुष्ठस्य तु दीर्घं तु अष्टादशयवाः स्मृताः २२
सार्धवेदाङ्गुलं प्रोक्तमनामायास्तु दीर्घकम्
तदेव तर्जनी दीर्घं कनिष्ठाया युगांशकम् २३
धर्माब्धिवसुभूतमङ्गुष्ठादिततं यवम्
तन्मूलेऽष्टांशहीनं तु शेषमग्रविशालकम् २४
अग्रव्यासे तु भूतांशे वेदांशं नखविस्तृतम्
विस्तारात्पादमधिकं नखायाममुदाहृतम् २५
अङ्गुष्ठे तु द्विपर्व स्यादन्येषां तु त्रिपर्वकं
तलमध्यमरेखाभिः शूलाभं पार्श्ववत्तले २६
तलमूलप्रदेशस्य घनं कोलकमुच्यते
अष्टांशहीनमग्रं तु घनमित्यभिधीयते २७
तलायामसमं ज्ञेयं तलस्यैव तु विस्तृतम्
मणिबन्धस्य विस्तारं त्रिमात्रं द्वियवाधिकम् २८
प्रकोष्ठमूलविस्तारं सार्धभूतांशमुच्यते
बाह्वग्रस्य तु विस्तारं सार्धषण्मात्रमुच्यते २९
बाहुमध्यविशालं तु सप्ताङ्गुलमुदाहृतम्
हिक्कासूत्रं तु कक्षान्तं वस्वङ्गुलमुदाहृतम् ३०
द्वाविंशदङ्गुलं प्रोक्तं कक्षयोरन्तरं बुध
हृदयावधिविस्तारमष्टादशाङ्गुलं भवेत् ३१
उदरस्य विशालं तु सप्तदशाङ्गुलं भवेत्
श्रोणिप्रदेशविस्तारं दशाङ्गुलमुदाहृतम् ३२
षड्यवं नाभिविस्तारं निम्नमर्धयवं भवेत्
उभयोस्तनयोरन्तः सार्धद्वादशमात्रकम् ३३
चूचुकाग्रस्य विस्तारमुत्सेधं तत्समं भवेत्
मुष्कायामं तु वेदांशं विस्तारं चैव तत्समम् ३४
लिङ्गं पञ्चाङ्गुलायामं तदग्रं मुकुळोपमम्
कटिप्रदेशविस्तारं षड्यवाष्टादशाङ्गुलम् ३५
ऊरुमूलविशालं तु सार्धाष्टमात्रमुच्यते
जानुमध्यविशालं तु सार्धषण्मात्रमुच्यते ३६
नळकायास्तु विस्तारं सार्धवेदाङ्गुलं भवेत्
अङ्घ्रितलाग्रविस्तारं कौशिकाङ्गुलमुच्यते ३७
तलमध्यविशालं तु भूताङ्गुलमुदाहृतम्
पादाङ्गुष्ठसमायामं चतुर्मात्रमुदाहृतम् ३८
तस्याग्रात् गुल्फमण्यन्तं सार्धद्वादशमात्रकम्
अनामिकाया दीर्घं तु त्रयस्त्रिंशद्यवं भवेत् ३९
मध्याङ्गुलिस्तु तत्तुल्यं वेदांशं तदनामिका
कनिष्ठिकाया दीर्घं तु सार्धोनं द्व्यङ्गुलं भवेत् ४०
सप्ताष्टनवधर्माख्यत्रयोदशयवं क्रमात्
कनिष्ठाद्यङ्गुलीनां तु विस्तारः प्रविधीयते ४१
अग्रमूलसमं प्रोक्तं विस्तारं तु त्रिभाजिते
द्विभागं नखविस्तारं तत्तुल्यायतवर्तुलम् ४२
तलाग्राङ्गुष्ठमूले तु द्विमात्रं तु घनं भवेत्
कनिष्ठायास्तु मूले तु घनं नवयवं भवेत् ४३
अक्षात्पार्ष्ण्यन्तरं भागं पार्ष्ण्युत्सेधं च तत्समम्
पृष्ठमण्डलविस्तारं पादोनं नवमात्रकम् ४४
वक्षस्स्थले परे व्यासं पञ्चविंशतिमात्रकम्
अक्षयोरन्तरं प्रोक्तं चतुर्विंशतिमात्रकम् ४५
अत्रानुक्तं तु यत्सर्वमुत्तमदशतालवत्
येषां लक्षणमाख्यातं तेषां पूर्ववदाकृतिः ४६
इति काश्यपशिल्पे अधमदशतालकथनं नाम सप्तपञ्चाशत्तमः पटलः