अथ षट्पञ्चाशत्तमः पटलः
मध्यमदशतालं स्त्रीमानम्
मध्यमं दशतालेन स्त्रीमानमथ वक्ष्यते
सरस्वती च दुर्गा च उमा भूमिश्च मातरः १
लक्ष्मीश्चैव तु ज्येष्ठा च अनेन विधिना कुरु
ईशो ब्रह्मा तथा विष्णुः शक्तिरित्यभिधीयते २
तेषामनुगुणं मानं तन्मध्ये तेस्तु मानकम्
शम्भुनासाग्रसीमान्तं शक्त्युच्चमुत्तमोत्तमम् ३
शम्भोर्वै स्तनसीमान्तमधमाधममुच्यते
तयोर्मध्येऽष्टभागे तु नवधाशक्तिमानकम् ४
शम्भोर्हिख्यातमुद्दिष्टं स्तनान्तमधमाधमं
तयोर्मधेऽष्टभागे तु नवधाशक्तिमानकम् ५
एवं द्विर्नवधोत्तुङ्गं पादादुष्णीषसीमकम्
तस्याजात्यंशमायामं योजयेत्सिद्धिरुच्यते ६
श्रीभङ्गासननृत्तानां चान्यमानवमूर्तिनाम्
देव्युच्चं समपादस्य स्थानकं ह्येव युक्तितः ७
दुर्गा ज्येष्ठा च लक्ष्मीश्च मातरश्च विशेषतः
मानकल्पे तु लिङ्गाद्यं मानैस्सङ्कल्प्यदेशिकः ८
जात्यं यांशं चैव तन्मानं रोपयोत्तुयथाविधि
मूललिङ्गस्य गौरीं तु लिङ्गमानेन कल्पयेत् ९
सविंशतिशतं भागं स्त्रीमाने तु विभाजिते
एकांशमङ्गुलं ख्यातं तदष्टांशं यवं भवेत् १०
तदङ्गुलैः यवैश्चैव अङ्गमानं प्रमीयते
उमादीनां तु देवीनामेतदेवाङ्गुलायतम् ११
उष्णीषोदयमेकांशं केशान्तं तु गुणाङ्गुलम्
केशान्तादक्षिसूत्रान्तं सत्रिपादं युगांशकम् १२
अक्षिसूत्रात्पुटान्तं तु सार्धवेदांशमिष्यते
नासापुटात्तु हन्वन्तं सत्रिपादं गुणांशकम् १३
तस्याधः ग्रीवामानं तु चतुर्भागमुदाहृतम्
कण्ठादाहृदयान्तं च हृदयान्नाभिसीमकम् १४
नाभेश्च योनिपर्यन्तं समं त्रयोदशाङ्गुलम्
ऊरुदीर्घं तु षड्विंशत् जानुदीर्घं युगांशकम् १५
ऊरुदीर्घसमं जङ्घादीर्घं पादतलं युगं
कलांशं तु तलायामं पार्ष्ण्यङ्गुष्ठाग्रसीमकम् १६
तर्जन्यङ्गुष्ठयोर्दीर्घं चतुर्भागार्धमुच्यते
सार्धत्रिभागं मध्यं स्यात्त्रिभागं तदनामिका १७
सार्धद्विभागमानं तु कनिष्ठाङ्गुलिदीर्घकम्
द्विरष्टसार्धपातालपातालरसभिर्यवैः १८
अङ्गुष्ठादिकनिष्ठान्तं चरणाङ्गुलिविस्तृतम्
त्रिद्व्यंशं तु नखव्यासं पादोनायतवर्तुळम् १९
अङ्गुलीनां मुखोच्चं तु नखव्याससमं भवेत्
पादतलाग्रविस्तारं षण्मात्रमिति कथ्यते २०
मध्यं पञ्चाङ्गुलं पार्ष्णिविस्तारं चतुरङ्गुलम्
अक्षिगुल्फान्तविस्तारं पञ्चभागं विधीयते २१
नळकात्रिवेदांशं जङ्घामध्यं रसाङ्गुलम्
जान्वोर्व्यासं तु सप्तांशं भान्वंशमूरुमूलकम् २२
भानुद्विगुणभागं तु विस्तारं कटिबन्धकम्
योनिपीठविशालं तु सप्ताङ्गुलमुदाहृतम् २३
योनिभागं चतुर्भागमधोगाश्वत्थपत्रवत्
विस्तारसदृशोत्सेधं योनिं कुर्यात्समालयं २४
श्रोणिस्थाने तु विस्तारं सयवं विंशदङ्गुलम्
नाभेस्तु नतविस्तारं षड्यवम्परिकीर्तितम् २५
मध्यमस्य विशालं तु रुद्रा गुं!लमुदाहृतम्
स्तनाधस्तात्तु विस्तारं सार्धत्रयोदशाङ्गुलम् २६
स्तनान्तरं नवांशं स्यात् द्विगुणं स्तनचूचुकम्
स्तनोच्चं सार्धवेदांशमक्षमर्धाङ्गुलोन्नतम् २७
स्तनाक्षं च स्तनं चैव वृत्तं कुर्यात्तु सुन्दरम्
स्तनान्तरं यवाष्टांशं चिन्तविरं च तत्र वै २८
अक्षयोरन्तरं विप्र सपतदशाङ्गुलं स्मृतम्
बाहुपर्यन्तविस्तारमेकत्रिंशाङ्गुलं भवेत् २९
हिक्काधो बाहुदीर्घं तु षड्विंशदङ्गुलं भवेत्
कूर्परोच्चं द्विभागं स्यात्प्रकोष्ठं द्विनवाङ्गुलम् ३०
मणिबन्धात्तलायामं सप्ताङ्गुलमुदाहृतम्
तन्मध्यमाङ्गुलिः षड्भिः पञ्चभिस्तर्जनी भवेत् ३१
अनामिका तर्जनीवत् युगाङ्गुष्ठकनिष्ठयोः
अङ्गुलीनां दीर्घमेवं हस्तयोरुभयोरपि ३२
नवसप्ताष्टसप्तर्तुयवाङ्गुष्ठादिविस्तृतं
तत्षडंशे च भागं तु नखतारमिहोच्यते ३३
यवद्वयाधिकं तारं नखायामं तु तीक्ष्णवत्
हस्तस्य तलविस्तारं पञ्चाङ्गुलं विधीयते ३४
मणिबन्धविशालोग्निः भूतांशं कूर्परस्य तु
षडंशं बाहुविस्तारं सप्तांशं बाहुमूलकम् ३५
तस्मादामणिबन्धान्तं तरुणवेणुवत्कृशम्
हस्तविस्तारमेवं स्यात् सप्तांशं ग्रीवविस्तृतम् ३६
अग्रेमूले तु विस्तारं वस्वंशं स्याद्यवाधिकम्
रुद्रा शं! मुखविस्तारं कुक्कुटाण्डसमाकृति ३७
भ्रुवः केशान्तस्य मध्यं सार्धं तु द्व्यङ्गुलं भवेत्
भ्रूमध्यान्नेत्रसूत्रान्तं सपादद्व्यङ्गुलं भवेत् ३८
पूटादास्यावसानं तु सयवैकाङ्गुलं भवेत्
तदर्धं गोजिदीर्घं तु तदर्धं तस्य विस्तृतम् ३९
त्रिभागं कर्णविस्तारं सपादचतुरंशकम्
कर्णदीर्घमिति ख्यातं तस्मान्नाळं प्रलम्बयेत् ४०
हस्तिहस्तोपमं पादं भान्वङ्गुलं भवेत्
शेषमुक्तं तु तालोक्तमार्गेणैव समाचरेत् ४१
स्त्रीणां सामान्यमेतद्धि विशेषमधुना शृणु
अथ गौरीलक्षणम्
गौरी वै द्विभुजा शान्ता द्विनेत्रा षट्प्रसारिता ४२
करण्डमुकुटा वाथ किरीटमुकुटान्विता
मुकुटं केशबन्धं वा तेषु वै सुन्दरं कुरु ४३
केशान्तमुकुटोत्सेधमष्टादशाङ्गुलाधमम्
एकविंशाङ्गुलं मध्यं श्रेष्ठं भानुद्वयाङ्गुलम् ४४
यवाधिकं शिरोनाहात् मुकुटमूलविस्तृतम्
मूलं सप्ताष्टधाभज्य भागोनाग्रविशालकम् ४५
कीरीटमकुटं चैवं केशबन्धैवमाचरेत्
मूलादाग्रं क्रमात्क्षीणं करण्डमकुटस्य तु ४६
पद्मस्य मुकुळाकारं मुकुटाग्रं प्रकल्पयेत्
त्रिपञ्चसप्तनान्दैर्वा करण्डैस्तु विराजितम् ४७
चतुष्पूरिमसंयुक्तं नानापुष्पैर्विराजितम्
हारोपग्रीवसंयुक्तं मुक्तादामैरलङ्कृतम् ४८
कर्णौ कुण्डलसंयुक्तौ चतुर्मात्रोन्नतायतौ
मुकुटं कुण्डलं वाथ वृत्तं कुण्डलमेव वा ४९
कटकैः कटिसूत्रं च हारोपग्रीवसंयुतम्
बाहुपूरिमसंयुक्तं छन्नवीरसमन्वितम् ५०
यज्ञोपवीतसंयुक्ता केयूराढ्या सुशोभना
दुकूलवसना देवी श्यामवर्णा च सुस्तनी ५१
उत्पलं दक्षिणे हस्ते वामहस्तं प्रलम्बितम्
आभङ्गं समभङ्गं वा कल्पयेदतिसुन्दरम् ५२
दक्षिणं सुस्थितं पादं वामपादं तु कुञ्चितम्
आभङ्गे तु गुणांशं तु पदांशं समभङ्गके ५३
नतमानं समाख्यातं सूत्रं वक्ष्ये यथाक्रमम्
ललाटमध्याद्वामे तु नेत्रान्ते च पुटान्तके ५४
हनोर्वामे समालम्ब्य स्तनयोरन्तरे तथा
नाभेर्दक्षिणपार्श्वे तु वामोरुदक्षिणं स्पृशन् ५५
अवामचरणे पार्ष्णिवामपार्श्वे तु लम्बयेत्
पादाङ्गुष्ठद्वयोश्चैवाप्यन्तरं षोडशाङ्गुलम् ५६
तत्र भागैकभागं तु पार्ष्ण्यन्तरमुदाहृतम्
एवमाभङ्गमाख्यातं समभङ्गमथ शृणु ५७
ललाटमध्ये नासाग्रे पादपार्ष्ण्योश्च मध्यमे
प्रसार्यं ब्रह्मसूत्रं तु द्व्यन्तरं तु प्रमीयते ५८
तत्सूत्रात्स्तनयोर्मध्यं दक्षिणे तु गुणाङ्गुलम्
तत्सूत्रात् वामतोनाभिनीप्रं द्व्यङ्गुलकं भवेत् ५९
तत्सूत्रात् वामतोयोनिमूलमध्यं युगाङ्गुलम्
तत्सूत्रात् दक्षिणे जानुनीप्रं गुणाङ्गुलं भवेत् ६०
शेषं पूर्ववदुद्दिष्टं गौरीलक्षणमेव हि
सरस्वत्यादिशक्तीनां प्रागेव प्रोच्यते तव ६१
इति काश्यपशिल्पे मध्यमदशताले स्त्रीमानकथनं नाम षट्पञ्चाशत्तमः पटलः
समाप्तः