अथ पञ्चपञ्चाशत्तमः पटलः
उत्तमदशताललक्षणम्
उत्तमं दशतालं तु शृणु वक्ष्ये द्विजोत्तम
सवेदविंशदंशं च शतं बिम्बोदयं कुरु १
तेष्वेव तालमात्रं स्यात्तन्मात्रं वसुभाजिते
उष्णीषात्पादपर्यन्तमङ्गमानं प्रमीयते २
त्रियवाधिकचन्द्रा शं!मुष्णीषोच्चमुदाहृतम्
तस्मादापूर्वकेशान्तमङ्गं भागमुदाहृतम् ३
केशान्तादक्षिसूत्रान्तं युगांशं त्रियवाधिकम्
अक्षिसूत्रात्पुटान्तं च पुटात् हन्वन्तमानकम् ४
प्रत्येकं त्रियवाधिक्यं युगांशोदयमिष्यते
हन्वादिगळमानं तु चतुर्यवमुदाहृतम् ५
यवैकोनमुदांशं तु कण्ठोच्चमिति कथ्यते
कण्ठमूलाद्धनुस्सूत्रं हिक्कासूत्रमुदाहृतम् ६
हिक्कायाहृदयान्तं च हृदयं नाभिसीमकम्
नाभेस्तु मेढ्रमूलं तु समं गुणयवाधिकम् ७
अग्रमूलात्सूत्रमध्यं अर्धसूत्रं तदुच्यते
अर्धसूत्रादयश्चोरुदीर्घं नक्षत्रमायतं ८
तस्माद्वेदाङ्गुलं जानुजङ्घोरुसदृशायतम्
युगं वादतलोत्सेधमेवमुत्सेधमुच्यते ९
अङ्गुष्ठाग्रात्तु पार्ष्ण्यन्तं तलं सप्तदशाङ्गुलम्
हिक्कासूत्रादयो बाहुदीर्घमृक्षाङ्गुलं भवेत् १०
कूर्परोच्चं द्विभागं स्यादेकविंशत्प्रकोष्ठकं
सार्धत्रयोदशाङ्गुल्यं मध्यमाङ्गुलिसीमकम् ११
अग्रतो मुखविस्तारं सार्धभाराङ्गुलं भवेत्
मुखात्कर्णान्तविस्तृतं त्रयोदशाङ्गुलं मतम् १२
ग्रीवाग्रं सार्धनन्दांशं ग्रीवामूलं दशाङ्गुलम्
हृदयाद्बाहुसीमान्तं चत्वारिंशच्च सार्धकम् १३
सार्धद्वाविंशदङ्गुल्यं कक्षयोरन्तरस्तनं
नवांशं चतुर्यवोपेतं बाहुमूलविशालकम् १४
एकविंशतिबाहुः स्यात्स्तनदेशस्य विस्तरम्
हृदयावधिविस्तारमेकोनविंशदङ्गुलम् १५
कलांशं चतुर्यवोपेतं मध्यव्यासमुदाहृतम्
एकोनविंशदंशं तु श्रोणितारमुदाहृतम् १६
कटेरग्रविशालं तु द्विनवाङ्गुलमुच्यते
तदधः कटिपार्श्वान्तं विस्तारस्सार्धविंशतिः १७
पादोनमनुभागं तु ऊरुमूलविशालकम्
सपादद्वादशांशं तु ऊरुमध्यविशालकम् १८
पादोनधर्मभागं तु जानुव्यासमुदाहृतम्
सपादवसुभागं तु जङ्घामूलविशालकम् १९
पादोनपञ्चभागं तु नळकाविस्तृतं भवेत्
त्रियवाधिकपञ्चांशं गुल्फाक्षव्यासमुच्यते २०
अक्षादातलतुङ्गं तु तस्य विस्तारमुच्यते
पार्ष्णितारं च तत्तुल्यं पार्ष्ण्योरुच्चं तथैव हि २१
तलमध्यं षडंशं स्यात् यवद्वयसमायुतम्
तलाग्रविस्तृतं सप्तभागमित्यभिधीयते २२
द्वियवोपेतवेदांशं पादाङ्गुष्ठायतं भवेत्
त्रियवोपेतवेदांशं तर्जन्यायाममुच्यते २३
पादोनवेदभागं तु मध्याङ्गुल्यायतं भवेत्
यवोपेताग्निभागं त्वनामिकायाममिष्यते २४
सार्धपक्षांशमानं तु कनिष्ठाङ्गुलिदीर्घकम्
प्रदेशिन्यादितन्नवसप्तर्धाश्च –२५
नवतारं स्वतारार्धं नखं पूर्वोक्तवद्विदुः
तत्तदङ्गुलिविस्तारं वेदांशं विभजेद्बुधः २६
त्रिभागमङ्गुलाग्रोच्चं शेषं स्यात्तु नखान्तरम्
त्रियवाधिकवस्वंशं बाहुमध्यविशालकम् २७
सपादसप्तभागं तु कूर्परव्यासमुच्यते
पादोनरसभागं तु प्रकोष्ठमध्यविस्तरं २८
पादोनचतुरंशं तु मणिबन्धविशालकम्
सप्तांशं तु तलायामं सार्धषण्मध्यमाङ्गुलं २९
सपादभूतभागं त्वनामिकायाममुच्यते
यवाधिकं तु पञ्चांशं तर्जन्यायाममुच्यते ३०
सपादवेदभागं तु कनिष्ठाङ्गुष्ठदैर्घ्यकम्
अङ्गुष्ठमूलविस्तारं सपादांशमुदाहृतम् ३१
तर्जन्यष्टयवाख्याता नवसङ्ख्या तु मध्यमा
अनामिका चाष्टयवा सप्तसङ्ख्या कनीयसी ३२
अङ्गुष्ठाद्यङ्गुलीनां तु मूलविस्तारमेव हि
तत्तन्मूलकलांशेंशसीनमग्रविशालकम् ३३
अग्रताररसांशे तु पञ्चांशं नखविस्तृतम्
पार्श्वयोर्मांसळं शेषं वृत्तायतं नखाकृति ३४
सपादं नखतारं तु नखायाममुदाहृतम्
नखायामद्वयं चाधः पर्वदीर्घं प्रशस्यते ३५
मूलाग्रपर्वयोर्मध्यपर्वदीर्घं तु पूर्ववत्
अङ्गुष्ठं तु द्विपर्व स्यात् शेषास्त्रिपर्वसंयुताः ३६
अङ्गुष्ठमूलपर्वस्य दीर्घं सप्तदशयवाः
तर्जनीमूलपर्वं तु अनामिका द्वयाङ्गुलम् ३७
मध्यमामूलपर्वस्य दैर्घ्यमष्टादशयवाः
कनिष्ठामूलपर्वं तु त्रयोदशयवाः स्मृताः ३८
मूलाग्रपर्वयोर्मध्ये दीर्घमध्यस्थपर्वसु
सार्धभूताङ्गुलं विप्र तलाग्रविपुलं भवेत् ३९
रसांशं मध्यविस्तारं हस्तस्यैव तलस्य तु
तलमूलविशालं तु सार्धषड्भागमुच्यते ४०
अङ्गुष्ठमूलमारभ्य तर्जनीमूलमात्रकम्
सार्धं तु द्व्यङ्गुलं प्रोक्तं शुकोदरमथोच्यते ४१
अङ्गुष्ठमूलमारभ्य मणिबन्धावसानकम्
दीर्घं वेदाङ्गुलं प्रोक्तं द्व्यर्धांशं तु घनं भवेत् ४२
पार्ष्णिहस्तघनाग्न्यंशमग्रमङ्गुष्ठवक्षयम्
अङ्गुलीनामधस्तात्तु द्व्यर्धांशं मांसलं ततः ४३
द्विभागं पार्ष्णिहस्तस्थशुकोदरविशालकम्
शेषं मध्यतलं निम्नं भूतवेदग्निवायवम् ४४
सूक्ष्मरेखां लिखेत्तस्मिन् शङ्खं वा चक्रशूलवत्
पद्माभं वा कुशाभं वा तलरेखां प्रकल्पयेत् ४५
यवाष्टांशनतं निम्नं रेखाणां तु द्विजोत्तम
वृत्ताभेऽपेक्षितं गेषु व्यासं पञ्चविभाजिते ४६
एकांशं तु परिग्राह्यं विस्तारं त्रिगुणान्वितम्
यत्तन्नाहमिति ख्यातं नाहतो तारकल्पितम् ४७
कर्णोर्ध्वे शिरसोनाहं साष्टत्रिंशाङ्गुलं भवेत्
कर्णोर्ध्वे तु शिरस्तारं यवोनद्वादशाङ्गुलम् ४८
कर्णयोः पूर्वनाळं तु द्वाविंशदङ्गुलं भवेत्
कर्णयोः पूर्वनाहं तु भान्वङ्गुलमुदाहृतम् ४९
तयोर्मध्यस्थभागं तु कर्णस्थितिरुदाहृतम्
शिरसो मध्यमामूर्धमण्डलं चतुरङ्गुलम् ५०
तस्मात्तदग्रकेशान्तं नवाङ्गुलमुदाहृतम्
ततो वै मण्डलात्कर्णकेशान्तं च नवाङ्गुलम् ५१
मण्डलात्पृष्ठकेशान्तं सार्धमध्याङ्गुलं भवेत्
ललाटे तु तिरश्चीनं नवाङ्गुलमुदाहृतम् ५२
केशान्तादक्षिसूत्रस्य द्वयोर्मध्ये भ्रुवोस्स्थितिः
भ्रुवाश्रौ तु नवाङ्गुल्यं चापाकारं यथा कुरु ५३
द्व्यन्तरं तु भ्रुवोर्विप्र सार्धवेदयवं भवेत्
पञ्चाङ्गुलं भ्रुवायामं मध्यतारं यवद्वयम् ५४
बालचन्द्रा र्धवत्क्षीणं भ्रुवाग्रौ तस्य मध्यमात्
कनीनिकायाविस्तारं यवमानमुदाहृतम् ५५
कृष्णमण्डलविस्तारं चोत्सेधं षड्यवं भवेत्
सितांशं तत्समव्यासं कृष्णमण्डलपार्श्वयोः ५६
शफराकृतिकं वापि धनुराकृतिरेव वा
अर्धचन्द्रा कृतिर्वाथ नेत्राकारं प्रकल्पयेत् ५७
तदाकारानुकूलेन सितमण्डलयोर्द्विज
नेत्रान्तेर्धयवं रक्तमण्डलं तु सितांशके ५८
कृष्णमण्डलमध्ये तु ज्योतिर्मण्डलकं यवम्
तदष्टांशैकभागं तु तन्मध्ये दृष्टिमण्डलम् ५९
सार्धांशयवमानं तु ऊर्ध्ववर्मततं भवेत्
अधोवर्म च तत्तुल्यं दीर्घमष्टादशं यवम् ६०
ऊर्ध्ववर्मभ्रुवोरन्तः सार्धषट्कयवं भवेत्
अधोवर्मस्थितौ विप्र नेत्रसूत्रं विधीयते ६१
कर्तृनाशमधोदृष्टिरूर्ध्वदृष्टिर्विपत्करम्
बहुनाशं भवेत्पार्श्वदृष्टिश्चेत् ग्रामवासिनाम् ६२
तस्मात्सर्वप्रयत्नेन सममेव निरीक्षणम्
नेत्रमेवं समाख्यातं नासिकालक्षणं ततः ६३
नासिकापुटबाह्यं तु तारमष्टादशं यवम्
तदर्धं मध्यविस्तारं तस्यार्धं मूलविस्तृतम् ६४
द्वारस्यान्तर्गतं व्यासं सार्धसप्तयवं भवेत्
पुटतारं पञ्चयवं पुटं निष्पावबीजवत् ६५
तिलपुष्पवदाकारं नासिकाकारमेव हि
एकांशं नासिकोत्सेधं तद्घनं तु यवं भवेत् ६६
पुटयोर्मध्यभित्तिस्तु पुष्करं चेति कथ्यते
सार्धवेदयवं गोजिदीर्घं तस्यार्धविस्तृतम् ६७
ऊर्ध्वोष्ठस्योर्ध्वनिम्नं तु गोजिनाम्ना प्रकीर्तितम्
यवमाननतं गोजी तदूर्ध्वं नासिकास्थितिः ६८
सपादं चतुरंशं त्वास्य दीर्घं तिर्यग्विदुः
उत्तरोष्ठायतं चास्य दीर्घतुल्यमुदाहृतम् ६९
उत्तरोष्ठस्य मध्ये तु तारं सार्धत्रयं यवम्
आनुपूर्व्या कृशं तारमास्य सीमावसानकम् ७०
यवमानघनं पाली उत्तरोष्ठस्य चोपरि
त्रिवक्रोपनतापाली तदोष्ठसदृशायता ७१
अष्टादशयवं प्रोक्तमधरोष्ठस्य दीर्घकम्
यवाधिकाङ्गुलं तस्य विस्तारं द्विजसत्तम ७२
अधरपालिकासार्धयवतारमधोगतम्
चिबुकादयरोच्चं तु सार्धषड्यवमुच्यते ७३
किञ्चित्प्रहसिताकारमास्यं युक्त्या तु कारयेत्
अधरात् चिबुकालम्बं सार्धपक्षाङ्गुलं भवेत्
चिबुकात्तुङ्गशर्वेशं सार्धाष्टयवमुच्यते ७४
सार्धद्वयङ्गुलं तस्य तारमायतवर्तुलम्
हनोस्सन्धौ कर्णबन्धान्तरं तु द्वादशाङ्गुलम् ७५
हनोर्बाह्यं समारभ्य पादोनगुणमात्रकम्
कण्ठवेशमिति ख्यातं ततः कर्णं वदामि ते ७६
नेत्रात्तत्कर्णबन्धान्तं द्व्यन्तरं सप्तमात्रकम्
कर्णस्य तु विशालं तु अष्टादशयवाः स्मृताः ७७
अक्षिसूत्रोर्ध्वतः कर्णतुङ्गं चाष्टयवं स्मृतम्
तदूर्ध्वं चोर्ध्वबन्धं तु शेषं वृत्तं तु मूर्धतः ७८
नेत्रसूत्रादधः कर्णस्रोतः कर्णस्य मध्यतः
नेत्रसूत्रादधः कर्णबन्धं सप्तदशं यवम् ७९
सार्धवेदाङ्गुलं तस्मात्तस्य नाळं प्रलम्बयेत्
पूर्वनाळायतं व्योमभागं सार्धाङ्गुलं परम् ८०
नाळयोर्व्यासमाख्यातं गळमर्धाङ्गुलं नतम्
नाळान्तरं त्रिपादं च वेदांशं विस्तृतायतम् ८१
कर्णतुङ्गमशेषं तु यवैकोननवाङ्गुलम्
पिप्पलीघनमर्धांशं द्विगुणं हि तदायतम् ८२
उत्सेधं चार्धमात्रं स्यात् मूलादाग्रक्षयानुगम्
द्विभागं पिञ्चूषीदीर्घं द्वियवार्धांशतत्ततिः ८३
अक्षिसूत्रादधः कर्णद्वारमर्धाङ्गुलं भवेत्
कर्णद्वारोत्तरं निम्नं सममेव हि लक्षितं ८४
कर्णपाळी घनं सार्धयवं नीप्रं चतुर्यवम्
पृष्ठकर्णस्य विस्तारमध्यर्धांशमुदाहृतम् ८५
केशान्तात् पृष्ठकर्णान्तमन्तरं सार्धमात्रकम्
पृष्ठकेशावसाने तु नाड्यर्धांशं तु तत्ततं ८६
तस्याधः पृष्ठग्रीवोच्चं युगांशं त्रियवाधिकम्
कृकाटिकायाः पृष्ठाग्रं ग्रीवाग्रं तु नवाङ्गुलम् ८७
पृष्ठग्रीवस्य मूलस्य तारं सार्धदशाङ्गुलम्
मूलादाग्रं क्रमात्क्षीणं ग्रीवं वृत्ताभमुच्यते ८८
हिक्कासूत्रोपरिस्कन्धतुङ्गं तु चतुरङ्गुलम्
स्कन्धसन्धेरधस्सार्धषण्मात्रं स्कन्धसीमकम् ८९
सप्ताङ्गुलघनं स्निग्धं हिक्कावधिक्रमात् द्वयम्
पृष्ठग्रीवादधस्तात्तु ककुन्मानं दशाङ्गुलम् ९०
तस्मादाकटिसीमान्तं वंशमृक्षांशमायतम्
तद्वंशनतविस्तारं सार्धषोडशकं यवम् ९१
वंशमानादधस्तात्तु वंशमूलं गुणाङ्गुलम्
परे तु तुङ्गमेवं स्यात्तस्मिन् व्यासं वदामि ते ९२
सार्धमष्टाङ्गुलं प्रोक्तं कक्षयोरन्तरं द्विज
कक्षयोरंसफलकतुङ्गं सप्ताङ्गुलं भवेत् ९३
कक्षोर्ध्वबाहुसीमान्तं सप्ताङ्गुलमुदाहृतम्
सार्धषोडशमात्रं तु मध्यव्यासमुदाहृतम् ९४
कक्षस्याग्रविशालं तु सप्तमात्रमुदाहृतम्
नाभिसूत्रे तु विस्तारं सार्धविंशाङ्गुलं भवेत् ९५
कटिसन्धेस्तु विस्तारं त्रिषडंशमुदाहृतम्
पादोनकर्मभागं तु स्फिक्पिण्डस्य तु विस्तृतम् ९६
सुवृत्तौ तौ समाख्यातौ तयोर्मध्यं चतुर्यवं
अपरे तारमेवोक्तं पार्श्वव्यासमथोच्यते ९७
कक्षस्याग्रविशालं तु सप्तमात्रमुदाहृतम्
सपादषोडशं मात्रं स्तनसूत्रे तु विस्तृतम् ९८
सपादद्वादशांशं तु मध्यपार्श्वघनं भवेत्
श्रोणिमध्ये घनं पार्श्वे सप्तदशाङ्गुलं भवेत् ९९
ततः श्रोण्युदयं विप्र सप्तमात्रमुदाहृतम्
नाभिसूत्रादधश्चोर्ध्वे चतुर्विंशाङ्गुलं भवेत् १००
श्रोण्यधस्तात्कटेरुच्चं सार्धभूताङ्गुलं भवेत्
तत्कटेस्तु घनं धीमन्सार्धभान्वङ्गुलं भवेत् १०१
स्फिक्पिण्डं चोरुमूलात्तु नीप्रं सार्धयुगाङ्गुलम्
तत्पिण्डलं घनं त्वर्धसूत्रादर्धाङ्गुलं भवेत् १०२
कक्षाग्रधरनिम्नं तु सार्धद्व्यङ्गुलकं भवेत्
कण्ठमूले नतं तारं तुङ्गं चैव चतुर्यवम् १०३
हिक्कायास्त्वक्षमात्रं च जत्रुसूत्रमुदाहृतम्
हिक्कामध्यात्तु कक्षान्तमग्न्यंशं पादहीनकम् १०४
हृदयं स्तनयोर्मध्ये निम्नमध्यर्धमात्रकम्
नीलं वै कण्ठमूले तु यवत्रयमुदाहृतम् १०५
अत्यर्धायामसंयुक्तं कल्पयेत्तु त्रिपुण्ड्रवत्
कण्ठमूले नतं हिक्का सूत्राधस्तात्प्रकल्पयेत् १०६
हिक्कासूत्रोपरिष्टात्तु नीलवर्णं प्रकल्पयेत्
हृदयस्तनपीठोच्चं द्वयाङ्गुलमुदाहृतम् १०७
सप्तदशयवं ख्यातं स्तनमानीलविस्तृतम्
तन्मध्ये चूचुकोच्चं तु व्यासं चैव यवद्वयम् १०८
नाभेस्तु नतविस्तारं व्योमांशं द्वियवाधिकम्
नाभिः प्रदक्षिणावर्तं मूलतारं यवद्वयम् १०९
तन्नाभिवृत्तमध्यस्थं नाभिसूत्रं द्विजोत्तम
नाभेरधस्तात्पादोनं शृण्वुच्चं पञ्चमात्रकम् ११०
तदधस्तात्कटिश्रोणी सार्धद्व्यङ्गुलमुच्यते
तस्मादामेढ्रमूलान्तं मेढ्रपीठं युगाङ्गुलम् १११
सपादपञ्चभागं तु लिङ्गदीर्घमुदाहृतम्
लिङ्गमूलविशालं तु सप्तदशयवाः स्मृतम् ११२
लिङ्गायामत्रिभागैकमग्रगण्यायतं भवेत्
तदग्रग्रन्धिमूलं तु यवमानं बृहत्तरम् ११३
रक्तोत्पलस्य मुकुळाकारं लिङ्गाग्रमुच्यते
मुष्कायामं विशालं च सार्धवेदाङ्गुलं भवेत् ११४
घनं सार्धगुणांशं तु तन्मूलोत्थोरुवर्धनम्
मेढ्रपीठस्य मूलस्य व्यासं सप्तार्धमात्रकम् ११५
मेढ्रपीठस्य मूलान्तमूरुमूलस्य मांसलम्
जानुमण्डलविस्तारं सपादं चतुरङ्गुलम् ११६
सार्धद्व्यङ्गुलकं प्रोक्तं जानुमण्डलनीप्रकम्
सार्धद्वियवकं प्रोक्तं पृष्ठजानून्नतं भवेत्
मध्ये तु पार्श्वयोः शेषं यथासौन्दर्यमाचरेत् ११७
इति काश्यपशिल्पे उत्तमदशतालपुरुषमानं नाम पञ्चपञ्चाशत्तमः पटलः समाप्तः