अथ चतुःपञ्चाशत्तमः पटलः
तालभेदकथनम्
उत्तमं दशतालादिलक्षणं वक्ष्यतेऽधुना
मृण्मयं चेत्तुबिम्बं वै शूलस्थापनमाचरेत् १
शैलजं प्रतिमं चेति शिलाग्रहणलिङ्गवत्
लोहजं सकलं यत्तु मधूच्छिष्टेन निर्मितम् २
स्थण्डिलं शालिभिः कुर्यादालयाग्रे तु मण्डपे
कुशेशयं तु सङ्कल्प्य दर्भैः पुष्पैः परिस्तरेत् ३
तदूर्ध्वे फलकायादि दारुजं प्रागुदाहृतम्
आचार्यः शिल्पीकर्ता च शुभमानं परिग्रहेत् ४
तन्मास्योत्थिताङ्गानि सिकते नैव कारयेत्
प्राक् शिरश्चोर्ध्ववक्त्रं च फलकायां निधापयेत् ५
तस्य दक्षिणपार्श्वे तु शिवाग्निं तु प्रकल्पयेत्
समिदाज्य चरुद्र व्यं हुत्वा चाष्टशताहुतीः ६
द्र व्यान्ते व्याहृतीर्हुत्वा पूर्णाहुतिं समाचरेत्
ध्यात्वा बिम्बाकृतिं त्वग्निमध्ये मूलमुदाहरेत् ७
आत्मनि यथा धूपं आघ्राणं तु समर्पयेत्
अग्रात्क्रमात्सन्धानमाचरेत्तु यथाविधि ८
शिरस्सन्धानमीशेन मुकुटं कवचेन तु
अस्त्रेण हस्तसन्धानं पादौ सद्येन सन्धयेत् ९
आदौ पश्चात्तु सर्वाङ्गान्क्रमात्सम्पूर्णमाचरेत्
उपाङ्गांस्तु ततः कल्प्य प्रत्यङ्गांस्तु ततः कुरु १०
अष्टत्रिंशत्कलान्यासं तत्तदङ्गानि विन्यसेत्
वस्त्रमाभरणं यज्ञसूत्रं चोपाङ्गमिष्यते ११
अस्त्रं प्रतिकृतेश्चिह्नं प्रत्यङ्गमिति विद्यते
धर्मतालात्त्रितालान्तं श्रेष्ठान्तराधमं त्रयम् १२
उत्तमं दशतालाख्यं चतुर्विंशच्छताङ्गुलम्
मध्यमं दशतालं तु भानुपङ्क्त्यङ्गुलं भवेत् १३
कलाधिकशताङ्गुल्यमधमं दशतालकम्
सद्वादशशतं भागं नवतालोत्तमं भवेत् १४
अष्टोत्तरशतांशं तु मध्यमं नवतालकम्
कन्यसन्नवतालं तु वेदाधिकशतं भवेत् १५
तालं प्रत्येवमेवं तु क्रमाद्वेदाङ्गुलं हरं
उत्तमदशतालेन ब्रह्मविष्णुमहेश्वराः १६
मध्यमदशतालेन उमा सरस्वती तथा
उषा भूमिश्च दुर्गा च लक्ष्मीश्च मातरस्तथा १७
ज्येष्ठा चैव प्रकर्तव्या स्वस्वाङ्गानि समन्विताः
चन्द्रा दित्यावश्विनौ च ऋषयस्तु ग्रहास्तथा १८
अर्थं च षण्मुखं चैव चण्डेशं क्षेत्रपालकम्
कन्यसदशतालेन कारयेत् द्विजसत्तमः १९
वसुवर्गाष्टमूर्तींश्च विद्येशान्लोकपालकान्
अन्याश्च देवताश्चैव नवतालोत्तमेन तु २०
यक्षाप्सरोगणांश्चैव अस्त्रमूर्तिमरुद्गणान्
मध्यमनवतालेन विद्याधरगणांस्तथा २१
असुरान्सिद्धगन्धर्वान्पितरश्च तथैव च
कन्यसनवतालेन कारयेत्तु विचक्षणः २२
अष्टतालेन साध्यांस्तु पिशाचान्सप्तमेन तु
रसतालेन कुब्जांस्तु कारयेद्देशिकोत्तमः २३
पञ्चतालोक्तमानेन विद्येशं कारयेद्बुधः
तन्मध्यमाधमेनैव सर्वभूतगणान्कुरु २४
बालस्तु वेदतालेन त्रितालेनैव कारयेत्
द्वितालं किन्नरश्चैव एकतालं तु कूर्मकम्
एवं ताळक्रमं प्रोक्तं बेराणामनुकूलकम् २५
इति काश्यपीये शिल्पशास्त्रे तालभेदकथनं नाम चतुःपञ्चाशत्तमः पटलः