५२

अथ त्रिपञ्चाशत्तमः पटलः
प्रतिमालक्षणम्
प्रतिमालक्षणं वक्ष्ये शृणुष्वैकाग्रमानसः
अचलं च चलं चैव चलाचलमिति त्रयम् १
मृण्मयं शार्करं चैव सौधजं चाचलं स्मृतम्
शैलजं दारुजं चैव धातुजं रत्नजं तथा २
चलाचलमिति ख्यातं चलमेवं तु लोहजम्
अर्धचित्रं च चित्रं च चित्राभासमिति त्रिधा ३
अर्धाङ्गदर्शितं बिम्बमर्धचित्रमिति स्मृतम्
सर्वावयवदृष्टं यत्तच्चित्रमभिधीयते ४
निम्नोन्नते पटे भित्तौ बिम्बं त्वाभासमुच्यते
अर्धचित्रं तु सुधया अन्यच्चित्रमथार्धकम् ५
आभासं धातुभिः कुर्यात् चित्रकर्मविधानतः
चित्राभासं तु देवानां छलं श्रेष्ठान्तराधमम् ६
इष्टकाभिः वरं पीठं पीठादाभासकं वरम्
आभासादर्धचित्रं तु तस्माद्वै मृण्मयं वरम् ७
मृण्मयात् दारुजं श्रेष्ठं दारुजात् शैलजं वरम्
शैलजात् लोहजं श्रेष्ठं कर्तृणां च फलं तथा ८
लोहजेषूत्तमं स्वर्णं मध्यमं रजतं भवेत्
ताम्रजं कन्यसं ख्यातं तेषु तेषु फलं तथा ९
बिम्बमानं च द्र व्यं च श्रेष्ठमध्याधमं भवेत्
सर्वद्र व्येषु देवत्वं सममेव तु विद्यते १०
समं चेदेषु देवत्वं फलं श्रेष्ठादिकं कथम्
ऊषरे स्निग्धभूमौ च मार्दवे च महीतले ११
पृथग्वै जातिवृक्षाणां स्थापने तु विशेषतः
फलं स्थलानुरूपेण यथालाभं तथा भवेत् १२
स्थलभेदेन वृक्षं तु भेदमात्रं न विद्यते
तथा दिव्ये फले तुल्यं द्र व्यभेदं फलप्रदम् १३
तस्मादेषु यथालाभं द्र व्येण सकलं कुरु
योनरः कृतवान्भूमौ पुत्रमित्रकळत्रयुक् १४
यथेष्टविभवोपेतः इष्टादिविषयं सुखम्
भुङ्क्ते च क्रमतो विप्र सालाक्यादिफलाश्रितम् १५
मनसा कर्मणा वाचा यो नरः स्तम्भकारकः
सोपि कर्मानुसारेण सक्तकृत्स्नफलानुभाक् १६
तस्मादाढ्येन कर्तव्यं सकलं तु शिवात्मकम्
सुखासनस्थितं बिम्बमुमास्कन्दसमं द्विज १७
तृतीयं चन्द्र मूर्तिः स्यात् चतुर्थं वृषवाहनम्
पञ्चमं नृत्तमूर्तिस्तु गङ्गाधरमनन्तरम् १८
सप्तमं त्रिपुरारिश्चाष्टमं कल्याणसुन्दरम्
नवमं चार्धनारीशं दशमं गजहारिणम् १९
ततः पाशुपतं विद्यात्कङ्काळं द्वादशं स्मृतम्
त्रयोदशं हरार्धं स्यात् भिक्षाटनं चतुर्दशम् २०
चण्डेश्वरप्रसादं तु पञ्चदशमुदाहृतम्
षोडशं दक्षिणामूर्तं ततः कालारिसञ्ज्ञिकम् २१
लिङ्गोद्भवं च मूर्तानां भेदास्त्वष्टादश स्मृताः
सर्वेषां प्रतिमानां तु मानमादौ वदाम्यहम् २२
सर्वेषामपि लिङ्गानां शिरोमानं विनोदयम्
गृहीतो विद्यमाने तु नान्येषु शिरसा सह २३
स्थूलदेशे परीणाहं विस्तारं चैव तत्र वै
पूजांशं द्विगुणं ग्राह्यं द्वात्रिंशद्विभजेत्समम् २४
तेषु वै सप्तविंशांशं पञ्चविंशांशमेव वा
त्रिभागाधिकविंशांशमेकविंशतिरेव वा २५
एकोनविंशदंशं वा षोडशं वा त्रयोदशम्
रुद्रा शं! नन्दभागं वा सप्तांशं पञ्च एव वा २६
अथवा रुद्र भागान्त्यं नवभागविभाजिते
तेष्वेकांशं समारभ्य एकैकांशविवर्धनात् २७
यावच्च सप्तविंशांशं तावद्वै सप्तविंशतिः
पूजांशके तु बिम्बोच्चं साष्टत्रिंशति भेदकम् २८
तथैव लिङ्गतारे च लिङ्गनाभे च कल्पयेत्
लिङ्गात् बिम्बोच्चभेदं तु तत्वाधिकशतं भवेत् २९
गर्भगेहं तथा नन्दभागं नन्दविधं भवेत्
अथवा गर्भगेहं तु त्रिनवांशविभाजिते ३०
सप्तविंशतिमानं स्यात् एतदेकांशवर्धनात्
पञ्चांशमुत्तमोत्सेधं मध्यमं चतुरंशकम् ३१
अधमं तु गुणांशं स्यात्त्रिविधं द्वारमानकम्
अधमोत्तमयोर्मध्ये वसुभागविभाजिते ३२
नवधा सकलोत्तुङ्गं द्वारमानं विधीयते
अथवा द्वारतुङ्गं तु सप्तविंशतिभाजिते ३३
एकैकांश विहीनेन बिम्बोच्चं सप्तविंशतिः
एवं हि द्वारमाने तु षट् त्रिंशं कौतुकोदयम् ३४
तथाऽधिष्ठानमाने च स्तम्भमाने च कल्पयेत्
सद्मवद्बाह्य विस्तारे अथवैवं प्रकल्पयेत् ३५
एकादिनवहस्तान्तं नवधा हस्तमानकम्
तालादिनवतालान्तं तथा नवविधं भवेत् ३६
कर्तुश्चोदयतुल्यं वा यजमानवशादिदम्
अथवा कर्तृतुङ्गं तु नवभागविभाजिते ३७
एकैकांश विहीनेन यावत्तु सकलोदयम्
चतुर्विंशच्चतुर्भागं पूजांशोच्चं तु भाजिते ३८
एकांशमङ्गुलं ख्यातं मूललिङ्गाङ्गुलं विदुः
मानाङ्गुलं तु वा प्रोक्तं पुरप्रासादमानके ३९
कर्तुर्दक्षिणहस्ते तु मध्यमाङ्गुलिमध्यमे
पर्वदीर्घं तु तारं वा मानाङ्गुलं द्विधास्मृतम् ४०
सप्ताङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात्
त्रयोविंशाधिकं यावत् शतान्तं त्रिभिरङ्गुलैः ४१
बिम्बमानं तु कर्तव्यमादौ द्वाभ्यां परार्थकम्
गृहे वाऽऽत्मार्थबिम्बानां मानं मात्राङ्गुलेन तु ४२
कर्तव्यमन्यथा चेत्तु कर्तव्ये कर्तृनाशनम्
अङ्गुले निर्मितं बिम्बं सर्वजात्यर्हकं परम् ४३
अङ्गुलाङ्गुलवृद्ध्या हि आयादि षट् शुभेक्षणम्
त्रिष्वङ्गुलप्रमाणेषु जात्यायांशं न रोपयेत् ४४
अङ्गुलादन्यद्यन्मानं तद्वेदाशीतिधा भवेत्
एकांशं रोपयेत्तस्मात् जात्यंशं तत् द्विजार्हकम् ४५
द्विभागाधिकषष्ट्यंशं भागैकांशसमन्वितम्
नृपजात्यंशकं ज्ञेयं नृपाणां वृद्धिकारणम् ४६
चतुर्विंशतिभागं तु कृत्वा भागसमन्वितम्
वैश्यजात्यर्हकं ख्यातं वैश्यानामभिवृद्धिदम् ४७
षोडशांशं समारोप्य शूद्र वृद्धिकरांशकम्
एवं जात्यंशसंयुक्तमंशमष्टगुणी कृतम् ४८
सप्तविंशतिसङ्ख्याभिर्हृतं शेषं दिनं भवेत्
तद्दिनं जाति ऋक्षं स्यात्तद्दिनं सुखसम्पदे ४९
सुशोभनं तु युक्तं चेत्कर्तृवास्तु नृपादिनाम्
त्रिंशत् शतान्तभागान्तं बिम्बोच्चं तु विभाजिते ५०
शबरं योजयेद्यावत् शुभायादीनि सम्भवम्
तन्मानं कौतुकोच्चं तु पादादुष्णीषसीमकम् ५१
कर्तुर्वांशमिदं ख्यातमंशैरायादि कल्पयेत्
अष्टाभिर्वर्धयेदंशं भानुभिस्तु हृते द्विज ५२
शेषमायमिति ख्यातमंशमष्टगुणी कृते
सप्तविंशत् हृतं शेषमश्विन्यादि तु सम्भवेत् ५३
नवभिर्गुणिते त्वंशे राशिभिस्तु हृते ततः
शेषं व्ययमिति ख्यातं तदंशमनलेन तु ५४
अर्धितं वसुभिर्निघ्नं शेषं ध्वजादियोजना
नवभिर्गुणिते सप्त हृते रव्यादिवासरम् ५५
सम्भवं वर्धयेद्वेदसङ्ख्या तु ह्रसयेच्चेदसञ्ज्ञया
शेषमंशकमित्युक्तमेवमायादि षट् भवेत् ५६
आयाधिकं व्ययक्षीणं लाभदं चैव शोभनम्
ध्वजो धूमश्च सिंहश्च श्वाखरो वृषभो गजः ५७
काकश्च योनयश्चाष्टौ हरिध्वजवृषागजः
योनयश्शुभदा ज्ञेयाः इतरा विपरीतकाः ५८
विपदं प्रत्यरं चैव वधं वैनाशिकं तथा
षष्ठाष्टमं त्यज्य शेषरि नक्षत्रं शुभदायकम् ५९
वारं सौम्यादि शुभदं भौमवारं तु वर्जयेत्
सूर्यं वारं च सौरस्य मध्यं शेषं शुभावहम् ६०
भानुवारादि संयुक्तं विशाखादिचतुश्चतुः
वियोगं मरणं नाशममृतं च यथाक्रमम् ६१
तस्करो भुक्तिश्शक्तिश्च धन्यं राजा च षण्डकः
अभयं धनमृणं चैव नवांशकमुदाहृतम् ६२
तेषु षण्डं तस्करं च ऋणं चैव तु वर्जयेत्
गणे व्यस्मुरमानुषं योगमात्रं विवर्धयेत् ६३
एवं परीक्ष्य शोभाढ्यं माधुर्यं तु सुशोभयेत्
चतुर्णामभिवृद्ध्यर्थं जात्यंशकं प्रयोजयेत्
तस्मादुगायभागौ च प्रशस्तप्रवेशकाश्यपम् ६४
इति काश्यपीये शिल्पशास्त्रे प्रतिमालक्षणकथनं नाम त्रिपञ्चाशत्तमः पटलः