अथ द्विपञ्चाशत्तमः पटलः
लक्षणोद्धारलक्षणम्
अथ वक्ष्ये विशेषेण लक्षणोद्धारलक्षणम्
लिङ्गस्य मुखनिर्माणं लक्षणोद्धारमुच्यते १
प्रासादस्याग्रतो वापि शाङ्करे दक्षिणेपि वा
नवाष्टसप्तहस्तं वा मण्डपं चतुरश्रकम् २
षोडशस्तम्भसर्वालङ्कारसंयुतं
मण्डपस्य त्रिभागैकं तन्मध्ये वेदिका ततम् ३
हस्तमात्रं तदुत्सेधं दर्पणोदरसन्निभम्
गोमयालेपनं कृत्वा पिष्टचूर्णैरलङ्कृतम् ४
नानाधूपैश्च दीपैश्च नानापुष्पैरलङ्कृतम्
शालिभिः स्थण्डिलं कुर्यात् वेदिकायां विशेषतः ५
तण्डुलैश्च तिलैर्दर्भैः लाजैः पुष्पैरलङ्कृतम्
अधमत्रयलिङ्गानामेवं मण्डपमाचरेत् ६
शेषाणां लिङ्गदीर्घं स्यात् वेदिकाविस्तृतं यथा
तस्यैव त्रिगुणव्यासं मण्डपस्य विशालकम् ७
अन्यत्सर्वमलङ्कारं प्रागिवैव समाचरेत्
वेद्यूर्ध्वं शाययेल्लिङ्गं प्राक् शिरश्चोर्ध्ववक्त्रकम् ८
परितोष्टौ घटान्न्यस्य सकूर्चान्सापिधानकान्
ससूत्रान्नववस्त्राढ्यान् गन्धतोयेन पूरितान् ९
सापिधानान्सशोभाढ्यान्लोकपालादिदैवतान्
गन्धपुष्पैश्च धूपाद्यैरर्चयेत्तस्य मानतः १०
लिङ्गमानस्य वामे तु पिण्डिकाण्डं विभावयेत्
रक्तवस्त्रादि नावेष्ट्य लिङ्गपीठं समर्चयेत् ११
वेदिकायां स्वतन्त्रे तु कुण्डं वा स्थण्डिलं कुरु
अग्न्याधानादिकं सर्वमग्निकार्योत्तमाचरेत् १२
लिङ्गपीठं भवेद्वामे अग्निं कृत्वा तु सव्यतः
आवोराजादिमन्त्रेण प्रत्येकाष्टशताहुतीः १३
ब्रह्मवृक्षसमिद्भिश्च होमं कृत्वा विधानतः
आपो हिष्ठेतिमन्त्रेण इदं विष्णुश्च मन्त्रतः १४
ब्रह्मजज्ञानमन्त्रेण आज्यतन्त्रं समाचरेत्
चरुहोममघोरेण प्रत्यगष्टादशाहुतीः १५
एवं जागरणं रात्रौ प्रभाते सन्मुहूर्तके
देशिकस्तु शुचिर्भूत्वा सकली कृतविग्रहः १६
सितवस्त्रोत्तरीयाढ्य सितामल्यानुलेपनः
सर्वलक्षणसंयुक्तः शिवद्विजकुलोद्भवः १७
स्थपतिश्च शुचिर्भूत्वा यज्ञसूत्रोत्तरान्वितः
प्राग्वदग्निं समभ्यर्च्य स्विष्ट्वा पूर्णाहुतिं चरेत् १८
प्रतिसम्बन्धयेद्रा त्रौ लिङ्गपीठं द्विजोत्तमः
स्वर्णरजतकार्पाससूत्रैर्वा हृदयेन तु १९
प्रभाते सुमुहूर्ते तु लक्षणोद्धारमाचरेत्
पायसं घृतसंयुक्तं शिरस्स्थाने बलिं हरेत् २०
रक्तशालिं परित्यजय गन्धाद्यैरर्चयेत् हृदा
रक्तेन धातुना लिङ्गमध्ये सूत्रं तु पातयेत् २१
मुखभागेस्य मध्ये तु नाळं कुर्यात्सलक्षणम्
लिङ्गमानेन मतिमान्सूत्रविस्तारकं नयेत् २२
रुद्र भागोदयं गृह्य शिरसो वर्तनान्वितम्
सवेदविंशतं भागं कृत्वैकांशे तु विस्तृतम् २३
अङ्गुलं वसुधाभज्य एकांशं यवमुच्यते
उत्तमोत्तमलिङ्गस्य सूत्रं पञ्चयवं ततम् २४
सर्वेषामपि लिङ्गानां यवार्धं प्रति ह्रासयेत्
अधमाधमलिङ्गस्य सूत्रतारं यवं भवेत् २५
सूत्रविस्तारमेवं स्यात्खातं चैव तु तत्समम्
एकांशमूर्ध्वतो वर्ज्यं स्तनादूर्ध्वं तदंशके २६
अधस्तादंशयोर्विप्र लक्षणोद्धारमाचरेत्
लक्षणं शिरसि व्याधिः ललाटे मरणं भवेत् २७
नेत्रसूत्रे त्वपस्मारमास्ये धान्यविनाशनं
चिबुके बन्धुनाशः स्यात्कण्ठे स्कन्धविनाशनम् २८
स्तनदेशे सुतं हन्ति तस्मादेतानि वर्जयेत्
शिरसा सहरुद्रा शं! गुणांशं विभजेत्समम् २९
पद्मस्य मुकुळाकारं लिङ्गाकारं यथाकृति
द्विजानामतिवृद्ध्यर्थं नृपाणां च जयावहम् ३०
खड्गौ प्रत्यक् द्विकाकारौ कुञ्जराक्षमिवाकृतिः
शङ्खाभछत्रयोर्भेदात् नृपाणामभिवृद्धये ३१
कराञ्जलिसमाकारं गोकर्णाकृतिवत् भवेत्
वैश्यानां तत्त्रिकोणं च शूलवृत्तायतं तथा ३२
शूद्र वृद्धिकरं त्रीणि सूत्रं गृह्य तु लक्षणम्
लक्षणोद्धारणोक्तांशं रुद्र भागविभाजितम् ३३
मुकुळोदयमेकांशं तद्व्यासं चापि तत्समम्
तन्मूलान्नाळदीर्घं तु नवभागमुदाहृतम् ३४
तन्नाळमेक सूत्रं वा सूत्रद्वित्रियुतं तु वा
सूत्रद्वययुतं चेत्तु सूत्रान्तरं यवत्रयम् ३५
यवद्वयान्तरं वाथ नाळतारं द्विजोत्तम
नाळमूर्ध्वे च तस्याग्रे सीमासूत्रं समालिखेत् ३६
तन्नाळञ्चैकसूत्रं चेत् लिङ्गमध्ये विशेषतः
सूत्रोक्तव्यासखातं च नाळायामे तु कल्पयेत् ३७
नाळाधस्तात्तु व्योमांशं दृश्यं विष्ण्वंशकोपरि
मणिरेखा ततः कार्या मुकुळं स्पुल्लिङ्गमन्तगौ ३८
मणिरेखयोन्तर्विप्र पद्ममूलं समं तु वा
पद्मतारं त्रिधैकं वा वेदांशे त्र्! यंश एव वा ३९
पञ्चांशे तु युगांशं वा पद्मतारार्धमेव वा
मुकुळमूलान्तरं ह्येवं नाळमूलान्तरं शृणु ४०
नाळायामसमं वार्धपादं पादयुगांशकम्
त्रिभागं पञ्चभागं तु वेदभागमथापि वा ४१
नाळमूलसमं त्वेवं मणिरेखा द्वयोत्तरम्
मूलादाग्रं क्रमात्क्षीणं मणिरेखान्तरं कुरु ४२
नाळमूले समे तिर्यग्गते पृष्ठे तु बन्धयेत्
मणिरेखा व्यासखातं लिङ्गस्योच्छ्रितं सूत्रयेत् ४३
तत्पादमूलपर्यन्तं वसुभागविभाजिते
मणिरेखालम्बनं तु नवधा परिकीर्तितम् ४४
सर्वेषु लक्षणोद्धारेष्वष्टमं मणिरेखके
प्रथमं लक्षणं प्रोक्तं द्वितीयं लक्षणं शृणु ४५
लक्षणोद्धरणोर्ध्वांशं दशभागविभाजिते
मुकुळोदयमेकांशं नवांशं नाळदीर्घकम् ४६
नाळाधस्तात्तु व्योमांशं नीत्वा शेषं तु पूर्ववत्
द्वितीयं लक्षणं ख्यातं तृतीयं लक्षणं शृणु ४७
लक्षणोद्धारभागं तु धर्मभागविभाजिते
एकांशं मुकुळोच्चं तु नवांशं नाळदीर्घकम् ४८
शेषं पूर्ववदुद्दिष्टं चतुर्थं लक्षणं शृणु
लक्षणांशं तु नवधाऽऽभज्यैकांशं तु कुड्मलम् ४९
सप्तांशं नाळदीर्घं तु शेषं पूर्ववदेव हि
चतुर्थं लक्षणं प्रोक्तं पञ्चमं लक्षणं शृणु ५०
लक्षांशं वसुधाभज्य व्योमांशं मुकुळोदयम्
षडंशं नाळदीर्घं तु नाळाधस्तात् शिवांशकम् ५१
तदेव सप्तभागं तु नाळदीर्घमुदाहृतम्
शेषं प्रागिव कर्तव्यं सप्तमं लक्षणं शृणु ५२
लक्षणांशे तु सप्तांशे शश्यंशं मुकुळोदयम्
व्योमांशं नाळदीर्घं तु शेषं पूर्ववदेव हि ५३
षडंशं वाथ तन्नाळदीर्घं शेषं तु पूर्ववत्
एवमष्टविधं ख्यातमायामं तु द्विजोत्तम ५४
अग्राकारेऽब्जमुकुळं भानुसङ्ख्या तु सुव्रत
यथेष्टनाळं कर्तव्यं नवसङ्ख्या तु देशिक ५५
दृढसूत्रं प्रकर्तव्यं लिङ्गेषूक्तप्रमाणतः
स्थापयेत्तु ततो लिङ्गं प्रागग्रं दारुविष्टरे ५६
लक्षयेत्पिण्डिकावक्त्रं लिङ्गं सौम्ये निधापयेत्
स्थापनैः कलशैस्सार्धं लिङ्गपीठो ह्युदाहृतः ५७
गव्यैः गन्धोदकैः स्नाप्य गन्धपुष्पादिभिर्यजेत्
लम्बकूर्चसमायुक्तं सर्वालङ्कारसंयुतम् ५८
रथे तु शिबिकायां वा ग्रामं कृत्वा प्रदक्षिणम्
ततो जलाशयं प्राप्य जलाधिवासनं कुरु
लक्षणोद्धारमाख्यातं प्रतिमालक्षणं शृणु ५९
इति काश्यपीये शिल्पशास्त्रे लिङ्गलक्षणोद्धारलक्षणं नाम द्विपञ्चाशत्तमः
पटलः