५०

अथैकपञ्चाशत्तमः पटलः
पादशैलादिलक्षणम्
अथ वक्ष्ये विशेषेण पादशैलादिलक्षणम्
लिङ्गतारत्रयं व्यासं तत्त्रिपादसमुन्नतम् १
तत्समानायतं चापि तन्मध्ये भाजिते
तङ्गं तु नवधा प्रोक्तं पादाश्रं नागरं विदुः २
गर्भगेहविशालार्धं श्रेष्ठं व्यासमुदाहृतम्
तदर्धं कन्यसम्प्रोक्तं तयोर्मध्येऽष्टभाजिते ३
नवधा तद्विशालं स्यात् नागरं तु विधीयते
लिङ्गव्यासद्वयाधिक्यं व्यासं तद्वसुभाजिते ४
एकांशमवटे निम्नं लिङ्गमूलवदा कृति
नवरत्नप्रमाणेन नवकोष्ठं प्रकल्पयेत् ५
अन्यतः समतां कुर्यात् आधाराख्यशिला सह
तदस्मात्पीठसीमान्तं नन्द्यावर्तशिलोदयम् ६
लिङ्गपीठसमानं वा एकद्वित्र्! यङ्गुलाधिकम्
तान्यवृत्तशिलाव्यासं नागरेषु विधीयते ७
पीठव्यासान्यते वाथ द्रा विडाक्षाग्निकाधिकम्
लिङ्गव्यासे नवांशे तु पीठादेकैकवर्धनात् ८
नन्द्यावर्तशिलाव्यासं नवधा वेसरं हि तत्
लिङ्गस्य परितः कल्प्यं चत्वारि चतुरश्रकम् ९
चतुरश्चोच्चतायामं तेषां दीर्घमुदाहृतम्
उत्तराग्रं तु प्राग्भागे प्रागग्रं दक्षिणे न्यसेत् १०
पश्चिमे चोत्तराग्रं च प्रागग्रं चोत्तरे न्यसेत्
शाङ्करे प्रथमस्याग्रमनलाग्रं द्वितीयकम् ११
तृतीयं मरुतोदग्रं स्यात् वायुमूलं चतुर्थकम्
नन्द्यावर्तशिलास्त्वेवं योज्यं कल्पदलोदके १२
तदूर्ध्वेष्टबन्धनं कुर्यात्स्थापयेत्पिण्डिकां बुधः
सुधया वज्रबन्धं वा लिप्यपीठं प्रयोजयेत् १३
एकांशं चोत्तमं पीठं द्वाभ्यां वै मध्यविष्टरम्
त्रिचतुः पञ्चभिर्वाथ कन्यसं पीठमुच्यते १४
पीठानां तु तदूर्ध्वे तु मश्मैकेन समाचरेत्
बहुवस्तुगळाधस्तात्पीठसन्धैर्गळैर्गुरुः १५
गळाधस्तात् वृषौ द्व्यश्रौ तत्पूर्वे वा परे न्यसेत्
त्रयश्चेदाश्रयं त्वेकं वामेऽवामे परे द्वयम् १६
चत्वारि चेद्रो णयुगं चतुरश्रं प्रकल्पयेत्
षट् पञ्च चैव कर्तव्यं पिण्डिकालक्षणान्वितम् १७
सुधयाष्टबन्धनैर्वापि निश्छद्रं सुदृढं कुरु
इष्टकाभिश्शिलाभिर्वा दृढं स्यात्सुधयान्वितम् १८
लोहजं रत्नजं वापि दारुजं चैक एव वा
सर्वेषां बन्धनं चाष्टबन्धमित्यभिधीयते १९
विष्णुभागोर्ध्वसीमान्तं पिण्डिकोर्ध्वं समुन्नयेत्
नतोन्नतं न कर्तव्यं कृतं चेत्कर्तृनाशनम् २०
नपंसकशिलाभिस्तु पीठाधस्ताच्छिलां नयेत्
एवं ब्रह्मशिलादीनि प्रोक्तान्येव विशेषतः २१
इति काश्यपीये शिल्पशास्त्रे पादशैलादि लक्षणं नाम एकपञ्चाशत्तमः पटलः