४९

अथ पञ्चाशत्तमः पटलः
पीठलक्षणम्
अथातो नागरादीनां लिङ्गानां पीठलक्षणम्
आदौ तु वक्ष्यते विप्र सकलानां ततो विदुः १
शैलजे शिलया पीठं सुधयेष्टकयापि वा
दारुजे दारुजं वाथ इष्टकामयमेव वा २
रत्नलोहजलिङ्गानां सयोनिर्लोहजं तु वा
लिङ्गोदयसमं पीठं विस्तारेणोत्तमं भवेत् ३
पूजांशोच्चसमं पीठतारं कन्यसमुच्यते
तयोर्मध्येष्टभागे तु उत्तमादित्रयं त्रयम् ४
पीठव्यासं त्रिधाभज्य द्विभागं चोत्तमोत्तमम्
व्यासार्धमधमोत्सेधं तयोर्मध्येष्टभाजिते ५
नवधा पीठतुङ्गं च उत्तमादित्रयं त्रयम्
क्रमेण कथितं विप्र नागरं चैवमुच्यते ६
लिङ्गस्योच्चसमं व्यासं श्रेष्ठं तन्नवभाजिते
नवधा विस्तृतं ख्यातं ब्रह्मविष्ण्वंशयोरपि ७
उदयं नवधाभज्य द्विभागं वा तलांशकम्
एकांशं वा विशेषेण स्थलांशे तु निवेशयेत् ८
शेषं पीठोदयं ख्यातमेवं द्रा विडमाचरेत्
पूजांशस्य परीणाहसमं श्रेष्ठं विशालकम् ९
परीणाहे कलांशे तु भान्वंशं मधमं ततम्
तयोर्मध्येष्टभागे तु नवधा पीठविस्तृतम् १०
विष्णुभागसमोच्चं तु पीठं कन्यसमुच्यते
सपादं श्रेष्ठमानं तु तयोर्मध्येष्टभाजिते ११
नवधा पिण्डिकातुङ्गं वेसरं ह्येवमाचरेत्
अथवा लिङ्गविष्कम्भं त्रिगुणं पीठविस्तृतम् १२
अथवा लिङ्गविष्कम्भं चतुरश्री कृते सति
तत्कर्णद्विगुणं पादं सार्धं द्विगुणमेव वा १३
त्रिगुणं वा विशालं तु पीठानां तु विशेषतः
गर्भगेहद्विभागैकं चतुर्भागैकमेव वा १४
पीठव्यासं समाख्यातं विष्णुभागसमोन्नतम्
सामान्यं नागरादीनां लिङ्गानां पिण्डिकास्त्विमे १५
उपानबाह्ये विस्तारं सर्वेषां तु विशेषतः
तदष्टनवदशांशसीनं वाग्रविशालकम् १६
विष्णुभागसमोत्तुङ्गं सपादं सार्धमेव वा
सामान्यं पिण्डिकानां तु नागरादिसमुन्नतम् १७
लिङ्गानां सकलानां तु सामान्यं पीठलक्षणम्
सुधाया नवांशे तु व्योमांशं कन्यसोदयम् १८
युगांशं श्रेष्ठमानं तु तयोर्मध्येष्टभाजिते
नवधा पीठतुङ्गं तु तस्य विस्तारमुच्यते १९
पीठतुङ्गसमं व्यासमधमं पीठमुच्यते
द्विगुणं चोत्तमं व्यासं तयोर्मध्येष्टभाजिते २०
नवधा विस्तृतं ख्यातं सकलानां विशेषतः
पिण्डिका गोमुखोपेता लिङ्गानां तु विधीयते २१
गोमुखरहितं पीठं सकलानां विशेषतः
समाश्रं समपृष्ठं वा लिङ्गानां तु विधीयते २२
सायुताश्रमवृत्तानां प्रतिमानं समं तु वा
चतुरश्राप्यवृत्ता च प्रतिमानां विधीयते
पद्मपीठं भद्र पीठं वेदिकापरिमण्डलम् २३
पीठं चतुर्विधं ख्यातमलङ्कारं द्विजोत्तम
कलांशं विभजेत्तुङ्गमुपानोच्चं द्विभागकम् २४
भूतांशोच्चमधःपद्मं कर्णं पादुकसादृशं
ऊर्ध्वपद्मं तु वेदांशं द्विभागं पट्टिकोदयम् २५
शिवांशं घृतवार्युच्चं षोडश दळसंयुतम्
दळमध्ये क्षुद्र दळं व्यग्रपादमहादळम् २६
अर्धाङ्गुलदळोच्चाग्रं मानाङ्गुलेन सुव्रत
लिङ्गदेहाङ्गुलार्धं वा दळाग्राणां समुच्छ्रयम् २७
पीठतारत्रिभागैकं गोमुखं दीर्घमुच्यते
तद्दीर्घसदृशं तस्य मूलतारमुदाहृतम् २८
मूलतारत्रिभागैकं तदग्रविपुलं भवेत्
मूलादाग्रं क्रमात्क्षीणं तत्पुनर्व्याससादृशं २९
त्रिपादं वा तदर्धं वा त्रिभागैकांशमेव वा
व्यासत्रिभागभागं तु जलमार्गविशालकम् ३०
पट्टिकार्धसमं निम्नं तस्मादेवसमं तु वा
उपानाद्यङ्गवेशं च नीप्रं सौन्दर्यमानयेत् ३१
अधिष्ठानां गवद्वेशं नीप्रं वा परिकल्पयेत्
पद्मपीठं समाख्यातं भद्र पीठमिहोच्यते ३२
कृत्वा षोडशधोत्सेधं भागेनोपानमुच्यते
जगत्युच्चं तु वेदांशं गुणांशं कुमुदोदयम् ३३
शिवांशं पट्टिकामानं गुणांशं कण्ठमानकम्
तदूर्ध्वं कम्पमेकांशं भागं तु पट्टिकोदयम् ३४
शश्यंशं घृतवारि स्यात् भद्र पीठमिदं परम्
पीठोच्चे तु कलांशे तु द्विभागं पादुकोदयम् ३५
गुणांशं जगतीमानं कुमुदोच्चं तु तत्समम्
व्योमांशं कम्पमानं तु कण्ठमानं त्रिभागकम् ३६
तस्योर्ध्वं कम्पमेकांशं गुणांशं पट्टिका भवेत्
एकांशं घृतवारि स्यात् वेदिभद्रं तथोच्यते ३७
भद्र मेवं समाख्यातं वेदपीठमथोच्यते
त्रयोदशांशं पीठाच्चं त्रिभागं पादुकोदयम् ३८
तदूर्ध्वं पद्मकं तुल्यं कम्पमंशेन कारयेत्
द्विभागं कम्पमानं तु ऊर्ध्वकम्पं शिवांशकम् ३९
तदूर्ध्वपद्मं पक्षांशं पट्टकं चैव तत्समम्
घृतवार्युदयं व्योमभागेन परिकल्पयेत् ४०
अथोदये तु वस्वंशे उपानोच्चं शिवांशकम्
एकांशं घृतवारि स्यात् शेषं वेदिगुणाश्रयम् ४१
वेदिका पीठमाख्यातं तदेवाक्षांशपट्टिका
कर्तव्यं तु त्रिधैवं हि वेदिकापीठमुच्यते ४२
पद्मं वा भद्र पीठं वा वृत्तं तु परिमण्डितम्
अधिष्ठानाङ्गवत्पादं पीठाङ्गं परिकल्पयेत् ४३
उपपीठाङ्गवत् भागं तत्तस्मान्माप्रकीर्तितम्
जयदं चतुरश्राभं योन्याकारं प्रजाकरम् ४४
शान्तिकं धनुराकारं गुणाश्रं रिपुनाशनम्
वृद्धिहेतुश्च वृत्तं स्यात्पञ्चाश्रं पुष्टितुष्टिदम् ४५
षट् कोणं रोगनाशं स्यादेवमेव क्रमाद्विदुः
एष्वाकारेषु पीठाङ्गान्प्रागुक्तविधिना कुरु ४६
द्र व्ये तुष्टेष्टपीठं तु जीर्णधारे द्विजोत्तम
पूर्वाकृतिर्यथा कार्यं तथा कुर्यात्पुनः पुनः ४७
पश्चादन्याकृतातीत कर्तव्ये कर्तृ नाशनम्
तस्मात्सर्वप्रयत्नेन पूर्वाकारं प्रकल्पयेत् ४८
सापेक्षं यत्तु तत्तारात्सपादं सार्धमेव वा
आजयं मुखभद्रं वा भद्रं चोपसभद्र वत् ४९
लिङ्गानां सायतं पीठं न कुर्यात्तु कदाचन
समाश्रं समवृत्तं च सायतं वा तदन्यकम् ५०
सर्वं च सक्रमोपेतं कर्तव्यं सम्पदां पदम्
पिण्डिकालक्षणं प्रोक्तं पादशैलोदयं शृणु ५१
इति काश्यपीये शिल्पशास्त्रे लिङ्गपीठलक्षणं नाम पञ्चाशत्तमः पटलः