अथैकोनपञ्चाशत्तमः पटलः
शिवलिङ्गलक्षणम्
अथ वक्ष्ये विशेषेण शिवलिङ्गस्य लक्षणम्
संसारविलये भूताः लयं गच्छन्त्यशेषतः १
यथा सृष्टिस्तथा तस्मात्स्रष्टृत्वाल्लिङ्गमुच्यते
संसारे निष्कलं शान्तं मनोवाचामगोचरम् २
मुक्तिदं सर्वभूतानां स्वात्मनः परमं विना
सर्वाभिव्यापि तद्गुह्यं सर्वलोकैकनायकम् ३
तस्माद्वै सृष्टिकाले तु शान्तितत्वसमुद्भवः
तच्छान्तेः शक्तिस्सम्भूता तस्यानादस्य सम्भवः ४
तस्माद्बिन्दुस्समुत्पन्नः नादं सादाख्यमुच्यते
बिन्दुर्मनोन्मनी ख्याता तस्मादीश्वरसम्भवः ५
ईश्वरात्तु महेशस्य सृष्टिस्तस्मात्तु वैष्णवम्
तस्मात्प्रजेशसम्भूतिः प्रजेशात्तु विशेषतः ६
त्रीणि चैवाथ त्रिंशच्च त्रिशतं त्रिसहस्रकम्
देवता ऋषयश्चैव दानवासुरयोनयः ७
सम्भवो ह्युदितो विप्र तेष्वादौ त्रीणि निष्कळम्
शिवं तत्सकलं ख्यातं मिश्रं नादं च बिन्दुकम् ८
नादं लिङ्गाकृति ज्ञेयं बिन्दुः पीठमुदाहृतम्
लिङ्गं शिवमयं ख्यातं पीठं शक्त्यात्मकं मतम् ९
तस्मात् शिवात्मिका चैव साभिन्ना चानलोष्णवत्
जगदार्तिविनाशार्थं सर्वप्राणिहिताय वै १०
देवादीनां हितार्थाय ध्यानपूजा निमित्तकम्
लिङ्गयोनिप्रभेदेन सादाख्यं तत्वमुद्बभौ ११
सर्वेषामुद्भवार्थं तु प्रोच्यते लिङ्गलक्षणम्
तल्लिङ्गं त्रिविधं ख्यातं चलं चैवाचलं तथा १२
चलाचलं च विख्यातं क्रमेणैव विशेषतः
रत्नजं लोहजं वाथ लिङ्गं कृत्वा सयोनिकम् १३
लिङ्गद्र व्येतरं वाथ योनिं कृत्वा सलक्षणम्
शिरसोवर्तनोपेतं लक्षणाद्धारवर्जितं १४
लिङ्गाकारमशेषं तु कृत्वा लिङ्गोदयार्धकम्
उदये लोकभागं वा वेदांशांशमथापि वा १५
पीठे निवेशयेत् शेषं दृश्यमानसमन्वितम्
गमागमक्षमं चेष्टदेशे न्यस्योद्धृतेः क्षमम् १६
यत्तल्लिङ्गं चलं ख्यातं वेशदृश्यमथाचलम्
स्थापितं चैव यत्पीठं वेशदृश्यं चलाचलम् १७
आत्मजं सूत्रसंयुक्तं बाणलिङ्गं तु तद्विदुः
तेष्वादावचलं लिङ्गलक्षणं वक्ष्यतेऽधुना १८
सुमासतिथिनक्षत्रलग्नवारे शिलाग्रहः
आचार्यः शिल्पिसंयुक्तः शिलाग्रहणमाचरेत् १९
दिव्यान्तरिक्षभौमानि निमित्तान्युपलक्षयेत्
वायसो दक्षिणं वामादागतश्च तथैव च २०
श्येनो वै दक्षिणा द्वामः गृध्रो मांसेन संयुतः
कन्यागोदर्शनं चैव गवामागमनं तथा २१
दधिसम्पूर्णकुम्भश्च क्षीरकुम्भस्तथैव च
पुष्पाणि पुष्पस्रक् चापि सुतवत्यस्तथा स्त्रियः २२
अन्नं मांसस्तथाहारः शिवभक्तिपरायणः
ज्वालानलश्च दीपश्च जलपूर्णो घटस्तथा २३
सालङ्कारो गजश्चैव वेश्या चात्यन्तसुन्दरी
शुभान्येतानि भौमानि अशुभं विपरी ततम् २४
उल्कापातो दिशां दाहः महावातप्रवर्तनम्
अशुभान्यन्तरिक्षाणी भौमाशोभनमुच्यते २५
मुक्तकेशा नरा नार्यः कीर्णकेशास्तथैव च
तैलाभ्यक्ताश्च नग्नाश्च काषायवसनान्विताः २६
शून्यं चैवाथ मृद्भाण्डं तैलपात्रं तथैव च
छिन्ननासिककर्णाश्च हीनाङ्गाश्चाधिकाङ्गकाः २७
पुत्रसीनास्तथा नार्यः विधवा च तथैव च
बहुभक्ष्याश्च भौमानि एकानि वर्जयेत् शुभे २८
शुभं चेत् गमनं कुर्यादशुभं चेद्विवर्जयेत्
अशुभेत्वग्निमास्तीर्य शिवेनैव शताहुतीः २९
समिदाज्यौदनैः कुर्यान्नागान्नं नागभूषणम्
दत्वा शिवं नमस्कृत्या चार्यो गच्छेत्तु शिल्पिना ३०
पर्वते सागरे तीर्थे क्षेत्रे चैव वने पुनः
क्षीरवृक्षसमीपे च देवहर्म्यसमीपके ३१
नदी तटाकतीरे वा शिल्पी सङ्ग्राहयेत् शिलाम्
अन्यस्थाने न गृह्णीयात् गृहीते स्याद्विनाशनम् ३२
श्वेता रक्ता च पीता च कृष्णा चैव चतुर्विधा
गोक्षीरशङ्खकुन्देन्दुमुक्तास्फटिकसन्निभा ३३
मल्लिकाकुसुमप्रख्या श्वेता सप्तविधा स्मृता
जपा किंशुकपुष्पाभा इन्द्र गोपसमप्रभा ३४
जातिलिङ्गनिभाकारा शशरक्तसमप्रभा
दाडिमीपुष्पसङ्काशा बन्धूककुसुमप्रभा ३५
रक्ता सप्तविधा ख्याता एवमेव द्विजोत्तम
सुवर्णसदृशाकारा चम्पकप्रसवोपमा ३६
आरग्वधसुमप्रख्या हरिद्रा सदृशा तथा
कोरण्डपुष्पसङ्काशा जम्बीरफलसन्निभा ३७
हरिताळसमाभासा शिला पीता च सप्तधा
महिषाक्षाञ्जनाभासा नीलोत्पलसमप्रभा ३८
भृङ्गमायूरकण्ठाभा मषीपत्रसमा तथा
राजा वर्तनिभा कारा कृष्णमुद्गसमप्रभा ३९
ह्रस्वमुद्गसमाकारा कृष्णा दश विधा शिला
श्वेतरक्तपीतकृष्णाः विप्रादीनां क्रमात्स्मृताः ४०
धर्मार्थकाममोक्षांश्च दद्युस्सततमेव च
परेषामवरं श्रेष्ठं परेषामवरं विना ४१
प्रतिलोमानुलोमाभ्यां हीनयोगं न गृह्यताम्
आचार्यशिल्पिनौ चैव सितवस्त्रधरावुभौ ४२
शुल्कमाल्यानुलिप्ताङ्गौ पञ्चाङ्गभूषणान्वितौ
कुठारादीनि सङ्गृह्य शिलां गत्वा समाहितौ ४३
यस्मिन्देशे शिला शेते तां कृत्वा तु प्रदक्षिणम्
दोषवर्ज्यां शिलां दृष्ट्वा परिच्छेद्य विशेषतः ४४
वर्षा तपाग्निगन्धां च सुकीर्णां क्षारवारिणा
दुर्देशस्थां तटस्थां च कर्मान्तरे तु योजिताम् ४५
शर्कराढ्यां सपङ्कां च झर्झरां रूक्षसंयुताम्
रेखाबिन्दुकळङ्कादि संयुक्तां परिवर्जयेत् ४६
सूत्रवद्वा तदाकारा रविरश्मिसमायुता
वर्षपा तवदाकारा रेखा वै त्रिविधा स्मृता ४७
जम्बूफलसमाकारा द्रा क्षायास्सदृशाथवा
अन्यद्वा वृत्तसङ्काशा त्रिविधा बिन्दुसञ्ज्ञिता ४८
कृष्णलोहनिभाकारा कृष्णभ्रमरसन्निभा
शिखिपिञ्छसमाकारा सकळङ्का चतुर्विधा ४९
खर्जूरपत्रसङ्काशा दूर्वास्तम्भनिभा तथा
वैणवाङ्कुरसङ्काशा लूतापादवदायता ५०
अन्याश्मसु सिता रेखा सर्वसम्पत्समृद्धिदा
कृष्णकृष्णा विनाशाय श्वेतकृष्णा तथैव हि ५१
तस्मात्सर्वप्रयत्नेन परिग्राह्यास्तथेतराः
कृष्णा च हरिता ग्राह्या सितवर्णा विशेषतः ५२
खर्जूरपत्रसदृशा दूर्वास्तम्भाकृतिश्शुभा
अतिकृष्णाऽशुभा ख्याता गोधान्यधननाशदा ५३
सकळङ्कारो गदा स्यात् राजराष्टृविनाशनं
सबिन्दुका पुत्रनाशदारिद्र य्! श्रीविनाशदा ५४
एवं परीक्ष्य बहुधा गृह्णीयात् लक्षणान्विताम्
बाला च युवतिर्वृद्धा पुंस्त्रीनपुंसकं तथा ५५
स्वरैकाकृतिभेदैश्च परिच्छेदविधिं शृणु
खनने सध्वनिर्ह्रस्वा शिला बाला इति स्मृता ५६
घण्टाध्वनिसमा दीर्घा युवतिः सा प्रकीर्तिता
विवृतध्वनिसंयुक्ता या सा वृद्धा च कीर्तिता ५७
घण्टाध्वनिसमोन्नादा दीर्घा सा पुंशिलोदिता
ताळशब्दसमाकारा दीर्घा या स्त्री शिला तु सा ५८
अस्निग्धा झर्झरा रूक्षा स्वरहीना नपुंसका
स्वरैरेवं समाख्याता आकृत्या भेद उच्यते ५९
चतुरश्रा च वस्वश्रा स्त्री शिलेति प्रकीर्तिता
आयताश्रा च वृत्ता च दशद्वादशकोणका ६०
पुंशिला सा समाख्याता सुवृत्ता सा नपुंसका
दशाग्रां द्वादशाग्रां च बालां वृद्धां च वर्जयेत् ६१
लिङ्गं कुर्यात् पुंशिलाभिः स्त्री शिलाभिश्च पिण्डिकाम्
नपुंसकशिलाभिस्तु पादाधारं समाचरेत् ६२
कृतं च विपरीतं यत् तत्सदा कर्तृनाशनम्
प्रागग्रां वोदगग्रां वा शिलां सङ्गृह्य देशिकः ६३
प्रागग्रे पश्चिमं मूलमुदगग्रे तु दक्षिणे
प्राच्यसौम्य गतं यत्तत् लिङ्गाग्रं तत्प्रकीर्तितम् ६४
अधोभागं मुखं ख्यातं पृष्ठमूर्ध्वगतं भवेत्
एवं परीक्ष्य सङ्ग्राह्य गव्यैः क्षाळ्य हृदा बुधः ६५
सत्य मन्त्रेण संस्थाप्य गन्धपुष्पादिभिर्यजेत्
तस्यास्तु शाङ्करे देशे शान्तिहोमं तु कारयेत् ६६
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत्
समिधो हृदयेनैव मूलेनाज्यं तु होमयेत् ६७
चरुहोममघोरेण पुरुषेणैव तण्डुलम्
तिलमीशानमन्त्रेण सर्षपं कवचेन तु ६८
शतं तदर्धं पादं वा प्रत्येकं जुहुयात्क्रमात्
स्विष्टकृतं चाप्यग्नेति पूर्णाहुतिमथाचरेत् ६९
ततो वह्निं समुद्वास्य पूजापर्युषितं त्यजेत्
शिलाच्छेदकरं शस्त्रमस्त्रमन्त्रेण पूजयेत् ७०
अपसर्पणमुच्चार्य शिलाच्छेदनमाचरेत्
तदूर्ध्वं शिल्पिकार्यं तु स्थपत्यादिः समाचरेत् ७१
गर्भगेहप्रमाणं च द्वारमानं तथैव च
स्तम्भमानं तलमानं हस्ततालाङ्गुलं तथा ७२
लिङ्गमानं ध्रुवं सप्तभेदास्ते प्रत्यनेकधा
गर्भगेहे तु पञ्चांशे गुणांशं श्रेष्ठमुच्यते ७३
गर्भार्धं मध्यमं ख्यातं तयोर्मध्येष्टभाजिते
श्रेष्ठमध्याधमं लिङ्गं प्रत्येकं त्रिविधं भवेत् ७४
अथवा गर्भगेहं तु नवभागविभाजिते
गर्भगेहसमुत्थानमुत्तमादित्रयं त्रयम् ७५
शुद्धद्वारसमं श्रेष्ठं त्रिद्व्यंशं तु कनीयसम्
तयोर्मध्येऽष्टभागे तु नन्दभेदं द्विजोत्तम ७६
स्तम्भायामसमासे तु नवभागविभाजिते
श्रेष्ठमध्याधमान्येवं नवधा प्रोच्यते द्विज ७७
प्रासादे त्वादिभूमौ तु स्तम्भभागसमं हि तत्
अधिष्ठानोदये विप्र स्तम्भमानवदाचरेत् ७८
एकहस्तं समारभ्य स्वाष्टांशांश विवर्धनात्
नवहस्तावधिर्यावत्सङ्ख्या षष्टिः सपञ्चका ७९
पञ्चहस्तविमानादि हर्म्ये हस्तवशं नयेत्
पञ्चहस्तादधो हर्म्ये लिङ्गं हस्तवशं विना ८०
हस्तादि गुणहस्तान्तं विकल्पाभासहर्म्ययोः
त्रिहस्तात् षट् करान्तं तु लिङ्गं छन्दविमानके ८१
षट् करादि नवान्तं तु लिङ्गं भूतिगृहान्वितम्
एवं हस्तवशात्ख्यातं तालमानमथोच्यते ८२
एकादि नवतालान्तमेकैकतालवर्धनात्
लिङ्गे हि नवसङ्ख्याः स्युः कल्प्यं जाती तरालये ८३
त्रयोदशाङ्गुलं ग्राह्यं यावन्नवशताङ्गुलम्
तावदेकोनपञ्चाशल्लिङ्गं मानाङ्गुलेन तु ८४
त्रिभागसहितं लिङ्गं हस्तक्षीणं न कारयेत्
हस्तमानाक्षयं लिङ्गं वृत्ताकारमशेषकम् ८५
वेदं नवांशेत्वुदये विष्टरे योजयेत् बुधः
शेषं तु दृश्यमानं स्याद्विकल्पाभासहर्म्ययोः ८६
विष्टरे वेशयेल्लिङ्गं विकल्पाभासकं विना
त्रयोदशाङ्गुलं लिङ्गं शैलजं तु न कारयेत् ८७
एवं त्वनेकभेदेन प्रोच्यते लिङ्गमानकम्
नागरं द्रा विडं लिङ्गं वेसरं च वदाम्यहम् ८८
लिङ्गोदये तु वेदांशे एकांशं कन्यसस्तमम्
तुङ्गत्र्! यंशे शिवांशं तु विस्तारं श्रेष्ठमुच्यते ८९
तयोर्मध्येष्टभागे तु नवधा तारमुच्यते
अथोदये कलांशे तु पञ्चांशं शान्तिकं भवेत् ९०
वेदांशं पौष्टिकं ख्यातं गुणांशं जयदं भवेत्
आभिचारे द्विभागं स्यात् व्यासमेवं चतुर्विधम् ९१
एवं त्रयोदशव्यासं नागरे तु विधीयते
लिङ्गोच्च द्विनवांशे तु रसभूतयुगांशकम् ९२
गुणांशं शान्तिकादिः स्यात् द्रा विडे च चतुर्विधम्
वेसरे लिङ्गतुङ्गे तु विंशत्यंशविभाजिते ९३
अष्ट वा सप्त षट् पञ्च भागैर्व्यासं प्रकल्पितम्
शान्तिकं पौष्टिकं चैव जयदं च क्रमेण तु ९४
वेसरं च चतुर्भेदं हर्म्यलिङ्गं च पिण्डिका
पादाधारशिला चैव एकजातिस्वसङ्करम् ९५
यत्रैवं कल्पितं लिङ्गं वृद्धिहेतुरुदाहृतम्
अन्योन्यसङ्करश्चेत्तु राज्ञो दुःखभयावहम् ९६
तस्मात्सर्वप्रयत्नेन सङ्करं न समाचरेत्
लिङ्गानां नागराद्येवं ख्यातमायादिकं शृणु ९७
लिङ्गस्योत्सेधमानं तु मानाङ्गुलेन भाजयेत्
मात्राच्छेदं प्रवृद्ध्या वा हान्या वा परिहारयेत् ९८
श्रेष्ठान्तराधमैः पूर्णैः मात्रापूर्णं परिग्रहेत्
उत्सेधमात्रमष्टाभिर्वर्धिते ऋक्षसङ्ख्यया ९९
हृते चाप्यवशिष्टं स्यादश्विन्यादि द्विजोत्तम
नवभिर्गुणिते सप्त हृते त्वेकादि वारकम् १००
अनलैर्गुणिते चाष्टहृते योनिरुदाहृतम्
अष्टभिर्वर्धिते भानुहृते त्वायमुदाहृतम् १०१
नवभिर्गुणिते नाडी हृते शेषमृणं भवेत्
युगवृद्धे नवहृते त्वंशकं तस्करादयः १०२
आयाधिकं क्षयक्षीणं सम्पदामास्पदं सदा
ध्वजस्सिह्मो वृषो हस्ती शुभयोनिरुदाहृता १०३
नृपस्य कर्तुर्जन्मर्क्षात् लिङ्गऋक्षावसानकम्
तथैव वास्तुऋक्षादि गणयेत्तु शुभावहम् १०४
जन्मत्रयं च युग्मं च वेदाष्टऋतुनन्दकाः
शुभावहास्तु विहिताः शेषकास्त्वशुभावहाः १०५
लग्नाष्टमं च वैनाशं तथैव नरराक्षसम्
वर्जितास्त्वशुभा ह्येते यत्नतः परिवर्जयेत् १०६
भानुवारादिसंयुक्ता सूर्यर्क्षादि चतुश्चतुः
रिपुत्वं मरणं नाशममृतं च यथाक्रमम् १०७
तस्करं च मणिं षण्डमंशकं परिवर्जयेत्
शेषांशकं परिग्राह्यं शुभमानं तु सङ्ग्रहेत् १०८
समलिङ्गं वर्धमानं शैवाधिकं च स्वस्तिकम्
सर्वतो भद्र लिङ्गं च सार्वदेशिकमेव च १०९
धारालिङ्गं मुखलिङ्गं लिङ्गमष्टविधं भवेत्
समलिङ्गं तु विप्राणां नृपाणां वर्धमानकम् ११०
शैवाधिकं तु वैश्यानां शूद्रा णां स्वस्तिकं भवेत्
सर्वेषामितरत् लिङ्गं सर्वकामफलप्रदम् १११
एक एव महादेवः लिङ्गभेदात् नृणां हितः
इष्टायामविशालेन चतुरश्रीकृतं पुरा ११२
पश्चाद्भागत्रयं कल्प्यं अनेन विधिना बुधः
चतुरश्रमधो भागं ब्रह्मभागमथोच्यते ११३
मध्ये तु वसुकोणं स्याद्विष्ण्वंशं तत्प्रकीर्तितम्
ऊर्ध्वभागं तु वृत्तं स्यात्तच्छैवांशं निगद्यते ११४
अंशं प्रत्यभिधानात्तु अशेषं तु शिवांशकम्
शिवात्मा चेद्विशिष्टं चाप्यंशभेदाख्यकं कथम् ११५
वृक्षस्य मूलं मूर्धाग्रं शाखापत्रं फलं त्विति
शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च ११६
यथेन्द्रि य गुणैरेव एकैकांशं प्रकीर्तितम्
यथांशभेदो युक्त्यैव प्राणिभेदो न विद्यते ११७
तथैव शिवलिङ्गस्य भागं प्रत्यभिधानकम्
लिङ्गतारं युगाश्रं तु कृत्वा कर्णार्धकं ग्रहेत् ११८
कोणात्कोणं तु सङ्कल्प्य तेन मानेन देशिकः
बहिर्भागं तु सन्तक्षेत् अष्टाश्रं तद्भवेदिति ११९
अथवा लिङ्गतारं तु सप्तभागं विभाजिते
युगांशं मध्यपट्टं स्यात् छेदयेत्तद्बहिर्बुधः १२०
अथवा वसुभागे तु मध्यपट्टं रसांशकम्
छेदयेत्तद्बहिर्भागं वस्वश्रं तु त्रिधैव हि १२१
अष्टाश्रे वसुविस्तारं चतुरश्री कृते सति
तत्कोणार्धं तु वस्वश्रं कोणात्कोणं तु लाशयेत् १२२
यद्बाह्ये तु परिच्छेद्य कलाश्रं तद्भवेदिह
कलाश्रेऽश्रं तु सञ्च्छेद्य वृत्ताकारं तु तद्भवेत् १२३
अष्टाश्रादीनि विन्यासं एवमेव हि तन्यते
लिङ्गवामे युगांशे तु एकांशं चतुरश्रकम् १२४
मध्ये व्योमं तु वस्वश्रमग्रे वृत्तं शिवांशकम्
समलिङ्गमिति ख्यातं विप्रादीनां तु वृद्धिकृत् १२५
भानुद्व्यंशे तदायामे सप्तांशं चतुरश्रकम्
अष्टांशमष्टकोणं च नन्दांशं वृत्तमुच्यते १२६
षट् सप्तवसुभागं वा पञ्चषट्सप्त एव वा
चतुष्पञ्च षडंशं वा वर्धमानं चतुर्विधम् १२७
लिङ्गायामे दशांशे तु गुणांशं चतुरश्रकम्
वस्वश्रं चैव तद्भुग्न गुणांशं चतुरश्रकम् १२८
शिवाधिकादिदं ख्यातमथवा स्यात्प्रकारयेत्
वेदवेदशरांशं वा पञ्चपञ्चषडंशकम् १२९
षट् षट् सप्तांशकैः वाथ शैवाधिक्यं चतुर्विधम्
लिङ्गायामे नवांशे तु चतुरश्रं द्विभागया १३०
वस्वश्रं तु गुणांशेन वेदांशं वृत्तमुच्यते
स्वस्तिकं ह्येवमाख्यातं सर्वतो भद्र मुच्यते १३१
मूलादग्रं सुवृत्तं तु लिङ्गोत्तुङ्ग त्रिभागिके
स्थलेवेशं तदेकांशं व्योमांशं योनिबन्धितम् १३२
पूजाभागं तदेकांशं सर्वतो भद्र मेव हि
सार्धदेशिकलिङ्गं तु वृत्ता कारमशेषतः १३३
भूतवेदगुणांशं वा लिङ्गोच्चे तु विभाजिते
पीठे तु वेशयेदंशं शेषं पूजांशमुच्यते १३४
सार्वदेशिकलिङ्गं तु एवमेव प्रकल्पयेत्
समलिङ्गोग्रयं नन्दभागं कृत्वा विचक्षणः १३५
षडंशैर्वर्तुळं नाहं सप्तांशं मध्यनाहकम्
वसुभागमधो नाहं यत्तत्त्रैराशिकं भवेत् १३६
सार्वजात्यर्हकं शस्तं त्रैराशिकमिदं परम्
मूलादाग्रं युगांशं तु धारालिङ्गं च तच्च वै १३७
समेतु मूलं वेदाश्रं शेषं वस्वश्रमेव हि
चतुरश्रमधो भागमष्टाश्रं मध्यमं भवेत् १३८
पूजाभागं कलाश्रं तु धारालिङ्गं त्रिधा भवेत्
तदश्रं मूर्धपर्यन्तं यवार्धं वा यवोन्नतम् १३९
समलिङ्गं तु धारा स्यात्सर्वप्राणिहितावहं
धारालिङ्गसमं ख्यातं मुखलिङ्गं विशेषतः १४०
शिवांशाधिकलिङ्गे तु मुखलिङ्गं प्रकीर्तितं
पूजाभागत्रयं कृत्वा ऊर्ध्वभागं मुखं भवेत् १४१
पञ्चमूर्ध्नचतुर्वक्त्रं ग्रीवा चैकसमायुतं
कर्णोष्ठौ चादशाक्षं च सर्वलक्षणसंयुतम् १४२
लिङ्गाकारमधस्तस्य तस्यार्धं पीठिकान्वितम्
अथवा रुद्र भागं तु चतुर्विंशच्छतांशके १४३
ग्रीवाधिकं तद्रुद्रा शं!मुष्णीषोच्चमुदाहृतम्
केशान्तमग्निभागं स्यात् युगांशमथवाधिकम् १४४
नेत्रान्तं च पुटान्तं च हन्वन्तं वर्धमानकम्
प्रत्येकं त्रियवाधिक्यमथवास्याद्युगांशकम् १४५
हन्वादिगळमानं तु चत्वार्येवमुदाहृतम्
यत्तु केशान्तमानं तत्कण्ठोच्चमिति शब्द्यते १४६
शेषं लिङ्गा कृति ख्यातं कल्पयेत् लक्षणान्वितम्
चतुर्वक्त्रैकवक्त्रं वा चतुर्बाहु द्विबाहु वा १४७
स्तनसूत्रोपरिष्टात्तु बिम्बलक्षणसंयुतम्
हिक्कासूत्रोपरिष्टाद्वा शेषं लिङ्गा कृतिर्भवेत् १४८
मुखलिङ्गमिति ख्यातं नृपाणामभिवृद्धिकृत्
विष्कम्भमष्टधा कृत्वा मूले मध्ये तथाग्रके १४९
भागहीनं तु सङ्कल्प्य स्थूलमूलमुदाहृतम्
ह्रासयेत् शिवभागादि शिरस्स्थूलमुदाहृतम् १५०
एतदार्षमिति ख्यातं ऋषिभिः पूजितं वरम्
गुणाश्रं पञ्चकोणं च षट्सप्तद्वादशाश्रकम् १५१
दशाश्रं च नवाश्रं चाप्य श्रेतरमनोहरम्
फलकादर्पणाकारमेकरेखमरेखकम् १५२
शिरसोवर्तनाहीनं मानोन्मानैरनन्वितम्
सेव्यं स्वायम्भुवं चेति ख्यातं देवैः सुपूजितम् १५३
बाणेन पूजिता भोगं बाणलिङ्गमुदाहृतम्
स्थूलं सूक्ष्मं शिरोमूलं क्रमेण परिपठ्यते १५४
उन्नतं तु मुखं ख्यातं मधुवर्णमनन्दिनम्
विष्टरे तु प्रवेशांशं सार्वदेशिकलिङ्गवत् १५५
लोहजं रत्नजं चैव सार्वदेशिकलिङ्गवत्
लिङ्गभेदस्समाख्यातः शिरसो वर्तनं शृणु १५६
लिङ्गमूर्धादि केशान्तं शिरसो वर्तनं भवेत्
तस्मात् लिङ्गोदये कुर्यात् शिरसो वर्तनं द्विज १५७
छत्राकारं भवेत्पूर्वं कुक्कुटाण्डं द्वितीयकम्
तृतीयं त्रिपुराकारमर्धचन्द्रं तुरीयकम् १५८
यस्य लिङ्गस्य विष्कम्भमष्टधा विभजेत् बुधः
ऊर्ध्वादर्धांशमालम्ब्य प्रथमं छत्रशीर्षकम् १५९
द्वात्रिंशद्विभजेत्तारमूर्ध्वाद्भूतांशलम्बितम्
छत्राभं तत् द्वितीयं स्यात् सप्तांशं तत् तृतीयकम् १६०
चतुर्थं तु नवांशं स्यात् छत्राभं तु चतुर्विधम्
द्विजानां च नृपाणां च छत्राभं सर्वकामदम् १६१
सर्वेषामपि लिङ्गानां छत्राभं तु प्रशस्तकम्
व्यासे द्वात्रिंशदंशे तु मनुपक्षकलांशकैः १६२
सप्तदशांशकैश्चैव कुक्कुटाण्डं चतुर्विधम्
वर्धमानं च लिङ्गं तु प्रशस्तं क्षत्रियार्हकम् १६३
द्वात्रिंशांशे शिरस्तारे धर्मरुद्रा शं!कैस्तथा
भानुत्रयोदशांशैस्तु त्रिपुराभं चतुर्विधम् १६४
शिवाधिकं च लिङ्गं तु शस्तं वैश्यार्हकं मतम्
त्रिंशत्रिंशे शिरस्तारे द्वाविंशत्येकविंशतिः १६५
विंशदेकोनविंशांशैरर्धचन्द्रं चतुर्विधम्
स्वस्तिकाख्यं च लिङ्गं तु प्रशस्तं शूद्र वृद्धिदम् १६६
सार्वदेशिकलिङ्गानामन्येषां च विशेषतः
छत्रादिशीर्षा कारं तु कर्तृजाति वशान्नयेत् १६७
दैविकार्षलिङ्गानां तेष्वष्टाश्रमशीर्षकम्
शिरसो वर्तनोत्सेधं गुणभागविभाजिते १६८
युक्त्यादंशं तु लिङ्गोच्चे शिरसो वर्तनान्वितम्
उष्णीषमानमाख्यातं शिरोदानं तदुच्यते १६९
मूर्ध्नमध्यात्तद्दशान्तं परितो वर्तयेत्क्रमात्
यावल्लम्बनसीमान्तं मूर्ध्निमध्यात्क्रमानतम् १७०
छत्रशीर्षं तु लिङ्गानां मूर्ध्नामध्यान्नतं भवेत्
चक्रत्रयसमायुक्तं कर्तव्यं च त्रिशीर्षकम् १७१
चक्रहीनं तु यच्छीर्षं एवं केवलमुच्यते
शीर्षं च लिङ्गतारोच्चे उक्तादन्यन्न कारयेत् १७२
उक्तादन्यत्कृतं चेत्तु राजराष्ट्रभयावहम्
तस्मात्सर्वप्रयत्नेन उक्तमार्गेण कारयेत्
लिङ्गलक्षणमाख्यातं पिण्डिकालक्षणं शृणु १७३
इति काश्यपीये शिल्पशास्त्रे लिङ्गलक्षणं नाम एकोनपञ्चाशत्तमः पटलः