४७

अथ अष्टचत्वारिंशः पटलः
षण्मुखलक्षणम्
पञ्चकालोत्तमेनैव स्कन्दं कुर्याद्विचक्षणः
मानोन्मानादिकं सर्वं प्रोक्तं वै स्कन्दलक्षणे १
द्विभुजं वा चतुर्हस्तं षड्भुजं भानुहस्तकम्
शक्तिं बाणं च खड्गं च चक्रं प्रासं प्रसारितम् २
सव्ये वामे तु पिञ्छं तु खड्गं कुक्कुटकं तथा
धनुर्दण्डं हलं चैव भानुहस्तान्विते स्थितं ३
षड्भुजस्य द्वयं खड्गं शक्तिर्दक्षिणपार्श्वके
खेटकं चाक्षमाला च कुक्कुटं वामहस्तके ४
चतुर्भुजेऽभयं शक्तिः दक्षिणे तु करद्वये
कुक्कुटं चाक्षमाला च वामहस्ते भवेत् बुध ५
द्विभुजं कुक्कुटं वामे शक्तिर्दक्षिणहस्तके
अनुक्तं यत्तु तत्सर्वं सोमास्कन्दोक्तवत् भवेत् ६
स्कन्दलक्षणमाख्यातं ज्येष्ठाविधिरतः परम्
अथ ज्येष्ठालक्षणम्
द्विभुजाऽनलसङ्काशा लम्बोष्ठा कुङ्गनासिका ७
लम्बमानस्तना कुक्षिलीना चारक्तवाससी
उत्पलं दक्षिणे हस्ते वामे तु करकान्विता ८
भद्र पीठे सुखासीना प्रलम्बितपदद्वया
सर्वाभरणसम्पन्ना विश्लथाबद्धमूर्धजा ९
काकध्वजसमायुक्ता ललाटे तिलकान्विता
तस्या दक्षिणपार्श्वे तु वृषो वै वृषवाहनः १०
ध्यानान्तरम्
द्विभुजे दक्षिणे हस्ते दण्डं वामे च सूचिका
लम्बितं दक्षिणं पादं वाममुत्कुटिकासनम् ११
सुस्तना यौवनाढ्या च सर्वाभरणभूषिता
कृष्णाञ्जननिभा रक्तवस्त्रेणैव विभूषिता १२
श्वेतवर्णो महाकायः सर्वाभरणभूषितः
करण्डमकुटोपेतः दुकूलवसनान्वितः १३
वृषो वै दक्षिणे त्वेवं वामे त्वग्निस्तथा भवेत्
एवं ज्येष्ठा समाख्याता दुर्गालक्षणमुच्यते १४
अथ दुर्गालक्षणम्
चतुर्भुजा त्रिणेत्रा च सा तु श्यामनिभा परा
सौम्या पीताम्बरोपेता पीनोरुजघनस्तना १५
करण्डमकुटोपेता सर्वाभरणभूषिता
अभयं दक्षिणे हस्ते कटकं वामहस्तके १६
परहस्ते तु सव्ये तु चक्रं वामे तु शङ्खकम्
वहन्ती समपादस्था पद्मपीठोपरि स्थिता १७
नागत्वक् स्तनबन्धा च रक्तकञ्चुकधारिणी
एवं दुर्गासमाख्याता विष्णुलक्षणमुच्यते १८
अथ विष्णुलक्षणम्
विष्णुः किरीटकुटकटिसूत्रादिमण्डितः
पीताम्बरधरः सौम्यः चतुर्भुजसमन्वितः १९
अभयं दक्षिणे हस्ते कटकं वामहस्तके
गदा पद्मं च वामे तु शङ्खं चक्रं च दक्षिणे २०
वहन्वै पद्मपीठस्थः सस्यश्यामनिभाकृतिः
आसीनो वा स्थितो वा स्याद्वामपार्श्वे श्रियान्वितः २१
श्रिया युक्तां केवलां वा विष्णुमूर्तिं प्रकल्पयेत्
ईषद्विकसिते पद्मे वहन्ती श्रीः करद्वये २२
विष्णोर्लक्षणमेवं स्यादिन्द्र लक्षणमुच्यते
अथ इन्द्र लक्षणम्
एकवक्त्रः द्विहस्तश्च जातिलिङ्गसमप्रभः २३
करण्डमकुटोपेतः सर्वाभरणभूषितः
शक्तिं च दक्षिणे हस्ते वामहस्तेङ्कुशं वहन् २४
विस्तृतोरो दीर्घकण्ठः वामे शची समन्वितः
द्विनेत्रः सौम्यवदनः सिह्मासनोपरिस्थितः २५
आसीनो वा प्रकर्तव्यः गजारूढोप्यथापि वा
इन्द्र लक्षणमाख्यातमश्विनोर्लक्षणं शृणु २६
अथ अश्विनोर्लक्षणम्
भद्र सिह्मासनासीनावश्विनौ विश्वरूपिणौ
दाडिमी पुष्पसङ्काशावुभयौ सोमपायिनौ २७
फुल्लरक्तोत्पलाक्षौ च कमण्डलुसुधारिणौ
नासत्यौ दस्रनामानौ चूडामुकुटधारिणौ २८
करद्वयसमायुक्तौ स्रग्भूषणविभूषितौ
अभयं दक्षिणे हस्ते पुस्तकं वामहस्तके २९
प्रलम्बद्दक्षिणपदौ वामे त्वुत्कुटिकान्वितौ
देवानां भिषजावेतौ द्वौ चिकित्साविधायकौ ३०
तयोः पार्श्वद्वये विप्र वामे च दक्षिणे क्रमात्
धृतिः सञ्जीविनी चैव संस्थितौ चामरान्वितौ ३१
पृष्ठे विशल्यकरणी संस्थिता चामरान्विता
वामे धन्वन्तरिश्चैव वामात्रेयस्तथैव च ३२
वीतरक्तनिभावेतौ संस्थितौ कृष्णवाससौ
खड्गखेटकसंयुक्तौ सर्वाभरणभूषितौ ३३
अश्विनौ तु समाख्यातौ वह्निः पूर्ववदेव हि
अथ पितृदेवतालक्षणम्
पितरः पीतवर्णाभाः वृद्धाः केशोर्ध्वबन्धनाः ३४
यज्ञसूत्रसमायुक्ताः द्विभुजाः श्वेतवाससः
नागाभरणसंयुक्ताः शशितुल्याननान्विताः ३५
फलकाभद्र पीठस्थाः पितरस्तु सुखासनाः
वामजानूपरिन्यस्त वामहस्तसमन्विताः ३६
सूची दक्षिणहस्तास्तु पितरस्तु समीरिताः
पितॄणां लक्षणं प्रोक्तं शृणु वैवस्वतं ततः ३७
अथ यमलक्षणम्
द्विभुजः कृष्णवर्णश्च खड्गखेटकसंयुतः
कराळदंष्ट्रवदनः रक्तमाल्यानुलेपनः ३८
रक्तवस्त्रधरश्चोग्रः किरीटमकुटान्वितः
दीप्ताग्निसदृशाक्षश्च महामहिषवाहनः ३९
वैवस्वतस्य पार्श्वे तु समीपस्थौ ग्रहोग्रकौ
चित्रगुप्तः किन्नरश्च द्वारपार्श्वे तु संस्थितौ ४०
कृष्णश्यामनिभौ तौ च रक्तवस्त्रधरावुभौ
पीठपार्श्वे स्थितौ मृत्युसहितावुग्रतेजसौ ४१
नीललोहितसङ्काशौ द्वे चामरकरे स्त्रियौ
पुरतस्संस्थितौ विप्र शर्मचर्मसमाह्वयौ ४२
यमस्सिह्मासनासीनः महिषो रोहितः तथा स्थितः
यमलक्षणमाख्यातं रोहिणीलक्षणं शृणु ४३
अथ रोहिणीलक्षणम्
द्विभुजा करण्डमकुटा रक्तवर्णा सुशोभना
सर्वाभरणसंयुक्ता नागहस्ता सिताम्बरा ४४
आसीना वा स्थिता वापि सप्तसङ्ख्या हि रोहिणी
रोहिण्येवं समाख्याता नैरृतेर्लक्षणं शृणु ४५
अथ नैरृतिलक्षणम्
नैरृतिर्नीलवर्णस्तु द्विभुजश्च महातनुः
खड्गं दक्षिणहस्ते तु वामहस्ते च खेटकम् ४६
पीतवस्त्रधरो रौद्रः कराळमुखदंष्ट्रकः
सर्वाभरणसंयुक्तः शवारूढो जगत्पतिः ४७
नैरृतस्त्वेवमाख्यातः ततस्त्वप्सरसः शृणु
अथ अप्सरो लक्षणम्
अतिकान्तियुतारक्ताः केशभाराळकान्विताः ४८
नानाबन्धनसंयुक्ताः नानापुष्पैरलङ्कृताः
दुकूलवसनास्सर्वाः पीनोरुजघनस्तनाः ४९
सूक्ष्ममध्यास्सौम्यरूपाः किञ्चित्प्रहसिताननाः
नानागन्धानुलिप्ताङ्गाः भद्र पीठोपरिस्थिताः ५०
समभङ्गयुतास्सप्तसङ्ख्या अप्सरसां गणाः
एवमप्सरसः प्रोक्ताः वरुणस्त्वथ वक्ष्यते ५१
अथ वरुणलक्षणम्
वरुणः श्वेतवर्णस्तु द्विभुजः पाशहस्तकः
सर्वाभरणसंयुक्तः करण्डमुकुटान्वितः ५२
पीतवस्त्रधरशान्तः महाबलसमन्वितः
यज्ञसूत्रसमायुक्तः मकरासनसंस्थितः ५३
वारुणं लक्षणं प्रोक्तमृषीणां लक्षणं शृणु
अथ सप्तर्षिलक्षणम्
ऋषयः पीतवर्णास्तु नानावर्णाम्बरान्विताः ५४
वृद्धाश्च द्विभुजाश्शान्ताः जटाचूडासमन्विताः
चिबुकाहृदयान्ताश्च यज्ञोपवीतसंयुताः ५५
भस्मत्रिपुण्ड्रलसिताः स्थानकं वासनं तु वा
दण्डं दक्षिणहस्ते तु छत्रं वामकरोद्धॄतम् ५६
छत्रदण्डौ विना वाथ सव्ये तु ज्ञानमुद्रि का
वामजानूपरिन्यस्त वामहस्तसमन्विताः ५७
भृगुरङ्गिरसोगस्त्यः वसिष्ठो गौतमस्तथा
विश्वामित्रो भरद्वाजः ऋषयस्सप्तकीर्तिताः ५८
ऋषीणां लक्षणं प्रोक्तं मरुल्लक्षणमुच्यते
अथ मरुल्लक्षणम्
द्विभुजस्तु महावीर्यः धूम्राक्षो धूम्रसन्निभः
ध्वजं वै दक्षिणे हस्ते वामहस्ते च दण्डधृक् ५९
सुकुञ्चितभुजयुतः शबळाम्बरभूषितः
नानालङ्कारसंयुक्तः विचलत्केशबन्धनः ६०
सिंहासनोपरिष्टात्तु शीघ्रयात्रोत्सुकः स्थितः
वायुरेवं समाख्यातः रुद्र लक्षणमुच्यते ६१
अथरुद्र लक्षणम्
चतुर्भुजास्त्रिणेत्राश्च जटामकुटमण्डिताः
श्यामवस्त्रधरास्सर्वे शुक्लवर्णाः प्रकीर्तिताः ६२
स्थानके समपादाश्च पद्मपीठोपरिस्थिताः
सर्वाभरणसंयुक्ताः सर्वपुष्पैरलङ्कृताः ६३
अभयं परशुः सव्ये वामे स्यात् हरिणो वरम्
महादेवश्शिवो रुद्रः शङ्करो नीललोहितः ६४
ईशानो विजयश्चेशः देवदेवो भवोद्भवः
कपाली शस्त्विति ज्ञेयाः रुद्रा स्त्वेकादश स्मृताः ६५
रुद्रा णां लक्षणं प्रोक्तं सोमलक्षणमुच्यते
अथ सोमलक्षणम्
सोमस्सिंहासनासीनः कुन्दशङ्खनिभद्युतिः
प्रभामण्डलसंयुक्तः द्विभुजस्सौम्यवक्त्रकः ६६
आसीनो वा स्थितो वापि कुमुदोत्पलहस्तकः
हेमयज्ञोपवीताङ्गः सर्वाभरणभूषितः ६७
शुक्लवस्त्रधरश्शान्तः सर्वपुष्पैरलङ्कृतः
सोमलक्षणमाख्यातं क्षेत्रेशलक्षणं शृणु
अथ क्षेत्रपालकलक्षणम्
त्रिणेत्रः क्षेत्रपालस्तु सत्वादिगुणयोगतः ६८
श्वेतो रक्तस्तथा कृष्णः सात्विकादिगुणैर्भवेत्
द्विचतुर्हस्तयुक्शान्तः राजसष्षड्भुजान्वितः ६९
तामसश्चाष्टदोर्दण्डः त्रिणेत्रस्समपादकः
स्थानके पद्मपीठं स्यात् भद्र पीठमथापि वा ७०
शूलं तु दक्षिणे हस्ते कपालमितरे वहन्
द्विभुजस्त्वेवमाख्यातः चतुर्हस्तस्त्वथोच्यते ७१
परहस्ते तु सव्ये स्यात् खट्वाङ्गं खड्गमन्यके
पूर्वहस्तद्वये वापि अभयं वरदं तथा ७२
पूर्ववत् परहस्तौ द्वौ घण्टा स्याद्वामहस्तके
सात्विकं ह्येवमाख्यातं राजसं शृणु सुव्रत ७३
शूलं खड्गं च घण्टा च दक्षिणे तु करत्रये
खेटकं च कपालं च नागपाशं च वामके ७४
तामसे तु धनुर्बाणं दक्षिणे दक्षिणे तरे
शेषं राजसवत् ख्यातं रक्तकेशोर्ध्वमण्डलः ७५
उग्रदृष्टिसमायुक्तः नानानागविभूषितः
त्रिणेत्रश्चाग्निरूपश्च कल्प्यस्स्यात् क्षेत्रपालकः ७६
क्षेत्रेशलक्षणं प्रोक्तं ईशस्य लक्षणं शृणु
अथ ईशानलक्षणम्
ईशो वै द्विभुजः ख्यातः सर्वाभरणभूषितः
जटामकुटसंयुक्तः शुक्लवस्त्रद्युतिः स्थितः ७७
शुक्लयज्ञोपवीतश्च शुक्लपद्मोपरि स्थितः
शूलं दक्षिणहस्ते च कपालं वामहस्तके ७८
वहन्नीशस्समाख्यातः शृणु भास्करलक्षणम्
अथ आदित्यलक्षणम्
द्विभुजाः पद्महस्ताश्च रक्तपद्मासने स्थिताः ७९
रत्नमण्डलसंयुक्तकरण्डमकुटान्विताः
रक्ताम्बरधरास्सर्वे सर्वाभरणभूषिताः ८०
छन्नवीरसमायुक्ताः भास्करा द्वादश स्मृताः
विकर्तनो विवस्वांश्च मार्ताण्डो भास्करो रविः ८१
लोकपालः प्रकाशश्च लोकसाक्षी त्रिविक्रमः
आदित्यश्च तथा सूर्यः अंशुमाली दिवाकरः ८२
एते वै द्वादशादित्याः उत्तरादिक्रमात् स्थिताः
एवं षोडशसङ्ख्याताः द्वात्रिंशदथ वक्ष्यते ८३
अथ अनन्तलक्षणं
सौम्यश्चतुर्भुजोऽनन्तः सर्वाभरणभूषितः
जपापुष्पनिभाकारः करण्डमुकुटान्वितः ८४
सितवस्त्रधरश्शान्तः त्रिणेत्रः पद्मसंस्थितः
अभयं वरदं ढक्कां शूलं च धारयन् करैः ८५
अथ अर्कलक्षणम्
अर्कश्चतुर्भुजश्शान्तः सर्वाभरणभूषितः
हिरण्यसदृशप्रख्यः दुकूलवसनान्वितः ८६
अभयं वरदं चापि खड्गं खेटं करैर्वहन्
सुस्थितः पद्मपीठे तु सूर्यमेवं प्रकल्पयेत् ८७
अथ भवलक्षणम्
भवश्चतुर्भुजश्शान्तः जटामकुटमण्डितः
अतिरक्तसमप्रख्यः सर्वाभरणभूषितः ८८
हिरण्यसदृशप्रख्यः दुकूलवसनान्वितः
अभयवरदोपेत शूलपाशधरो भवः ८९
अथ मरुल्लक्षणं
भोगिहस्तद्वयोपेतः सौम्यात्मा च द्विनेत्रकः
अत्यन्तसुन्दरी शान्ताः सर्वाभरणभूषिताः ९०
नानागन्धानुलिप्ता वा नानापुष्पापशोभिताः
करण्डमकुटोपेताः पद्मपीठोपरिस्थिताः ९१
अथ अप्सरोलक्षणम्
किञ्चिद्विलग्नकुक्ष्यश्च पीनोरुजघनस्तनाः
दुकूलपट्टदेवाङ्गैः नानावस्त्रधरा पराः ९२
सस्यश्यामनिभाकारा रक्तोत्पलधराः करे
आजानुलम्बहस्ताश्च सर्वाश्च समभङ्गिकाः ९३
अथ गौरीलक्षणम्
सूक्ष्मानिलनिभा शान्ता हेमवस्त्रधरा वरा
चतुर्भुजा त्रिणेत्रा च सर्वाभरणभूषिता ९४
अभयं वरदं टङ्कं शूलं च दधती करैः
गौरी लक्षणमाख्यातं यथा सकललक्षणे ९५
तथैव कारयेद्धीमान् स्थापयेत्केवलात्मिकाम्
अथ शर्वलक्षणम्
शर्वश्चतुर्भुजश्शान्तः सर्वाभरणभूषितः ९६
जटामकुटसंयुक्तः शङ्खकुन्देन्दुसन्निभः
अभयं वरदं खड्गं खेटकं च वहन् करैः ९७
पद्मपीठोपरिष्ठस्तु स्थानकः शर्व एव हि
अथ विरिञ्चिध्यानम्
चतुर्वक्त्रश्चतुर्बाहुः पिङ्गाक्षः सर्वभूषणः ९८
कृष्णाजिनोत्तरीयश्च यज्ञसूत्रसमन्वितः
शुक्लवस्त्रधरश्शान्तः सकटीसूत्रमेखलः ९९
शुक्लमाल्यानुलेपश्च कर्णकुण्डलमण्डितः
दक्षिणे चाक्षमालां च कूर्चं चैव तु धारयन् १००
कमण्डलुं कुशं वामे दक्षिणे स्रुक्स्रुवौ तथा
अज्यस्थालीं कुशांश्चैव वामहस्ते तु धारयन् १०१
अभयवरदौ पूर्वहस्तौ वाथ द्विजोत्तम
आसने तूभयाङ्घ्री च रोधयेत्तु परस्परम् १०२
मेढ्रमूलोपरिष्टात्तु वामहस्तोर्ध्ववक्त्रकम्
सव्यहस्तं च तस्योर्ध्वे तत्र न्यस्त्वा समास्थितम् १०३
दक्षिणे चाक्षमालां च वामहस्ते कमण्डलुम्
सरस्वती दक्षपार्श्वे सावित्री वामपार्श्वके १०४
आसीने वा स्थिते वापि पद्मपीठोपरि द्विज
अथ शिवोत्तमलक्षणम्
शिवोत्तमः श्वेतवर्णः चतुर्भुजसमन्वितः १०५
सर्वाभरणसंयुक्तः शुक्लवस्त्रोपवीतकः
नेत्रद्वयसमायुक्तः करण्डमकुटान्वितः १०६
अभयं वरदं शूलं पाशं चापि वहन्करैः
पद्मपीठोपरिष्टात्तु स्थानकः समपादकः १०७
अथ भृगुलक्षणम्
भृगुश्शुकनिभश्शान्तः शुक्लवस्त्रधरस्तथा
करण्डमकुटोपेतो हस्तद्वयसमन्वितः १०८
अभयवरदोपेतः सर्वाभरणभूषितः
स्थानको वासनो वापि पद्मपीठो भृगुश्शुभः १०९
अथ ईशागस्त्यकौशिकैकनेत्रलक्षणम्
पूर्वमेवोदितस्त्विई!शः तथागस्त्यं च कल्पयेत्
अगस्त्यवत्कौशिकं च स्थापयेत्स्थापकोत्तमः ११०
एकनेत्रश्चतुर्बाहुः नेत्रत्रयसमन्वितः
क्षौमवस्त्रधरश्शान्तः बन्धूककुसुमप्रभः १११
जटामकुटसंयुक्तः सर्वाभरणभूषितः
अभयवरदोपेतः टङ्कशूलसमन्वितः ११२
अथ विघ्नेश सरस्वती लक्षणम्
विघ्नेशं पूर्ववत्कृत्वा स्थापयेद्देशिकोत्तमः
सरस्वती चतुर्हस्ता श्वेतपद्मासनान्विता ११३
जटामकुटसंयुक्ता शुक्लवर्णा सिताम्बरा
यज्ञोपवीतसंयुक्ता मुक्ताहारा सुलोचना ११४
व्याख्यामुद्रा ं! चाक्षसूत्रं दक्षिणे तु करद्वये
पुस्तकं कुण्डिकां वामे त्रिणेत्रा चारुरूपिणी ११५
ऋग्यजुस्सामभिश्चापि मुनिभिस्सेविता वरा
एवं लक्षणसंयुक्ता वाग्देवी परिकीर्तिता ११६
अथ लक्ष्मी लक्षणम्
लक्ष्मीः पद्मासनासीना द्विभुजा काञ्चनप्रभा
हेमरत्नोज्वलद्दिव्यकर्णकुण्डलमण्डिता ११७
सुयौवना सुरम्याङ्गा कुञ्चितभ्रूः सुविभ्रमा
रक्ताक्षी पीनगण्डा च कञ्चुचूदस्तनद्वयी ११८
शिरसो मण्डनं शङ्खचक्रसीमन्तपङ्कजम्
अम्बुजं दक्षिणे हस्ते वामे श्रीफलमिष्यते ११९
सुमध्या विपुलश्रोणी शोभनाम्बरवेष्टिता
मेखलाकटिसूत्रा च सर्वाभरणभूषिता १२०
अथ एकरुद्र पशुपतिवसुलक्षणम्
एकाक्षसदृशस्त्वेकरुद्रः कार्यो विशेषतः
पशुपतिं पूर्ववच्च स्थापयेत् देशिकोत्तमः १२१
धरो ध्रुवश्च सोमश्च आपस्त्वनल एव च
अनिलश्चैव प्रत्यूषः प्रभावश्च तथैव च १२२
वसवोष्टौ कीर्तिता वै रक्तवर्णा द्विदोर्युताः
पीताम्बरधरास्सर्वे आसीना वा स्थिताश्च वा १२३
खड्गखेटकहस्तास्ते सर्वाभरणभूषिताः
करण्डमुकुटोपेताः रौद्रा स्सर्वे प्रकीर्तिताः १२४
अथ महादेव त्रिमूर्तिधनदेन्द्र लक्षणम्
कर्तव्यः पशुपतिवत् महादेवो द्विजोत्तम
एकरुद्र वत् कर्तव्यस्त्रिमूर्तिर्द्विजसत्तम १२५
धनदस्सर्वयक्षेशस्सर्वाभरणभूषितः
तप्तकाञ्चनसङ्काशः हस्तद्वयसमन्वितः १२६
वरदाभयहस्तश्च गदा वा वामहस्तके
पद्मपीठोपरिष्ठस्तु द्विनेत्रो नरवाहनः १२७
रक्ताम्बरस्सौम्यमुखश्शङ्खपद्मनिधी युतः
शङ्खपद्मनिधी द्वौ च भूताकारौ महाबलौ १२८
आसीनौ पद्मपीठे तु पद्महस्तौ द्विजोत्तम
करण्डमकुटोपेतौ सितवासोत्तरीयकौ १२९
दक्षिणेऽदक्षिणे शङ्खनिधिः पद्मनिधिः क्रमात्
धनदस्य तु वामे च देवीं कुर्यात्सलक्षणाम् १३०
धनदो ह्येवमाख्यातः प्राग्वदिन्द्रं प्रकल्पयेत्
अथ कालाग्निरुद्र श्रीकण्ठलक्षणम्
कालाग्निरुद्र मूर्तेस्तु लक्षणं वक्ष्यतेऽधुना १३१
चतुर्भुजस्त्रिणेत्रश्च ज्वालामालोपशोभितः
खड्गखेटकसंयुक्तः शशाङ्कार्धधरः परः १३२
रक्तवस्त्रधरो रौद्र स्सर्वाभरणभूषितः
रक्तोर्ध्वकेशसंयुक्तस्सिह्मासनोपरिस्थितः १३३
चतुर्भुजस्त्रिणेत्रश्च नीलोत्पलसमप्रभः
करण्डमकुटोपेतस्सर्वाभरणभूषितः १३४
अभयवरदोपेतः टङ्कशूलधरः परः
रक्तवस्त्रसमायुक्तः पद्मपीठोपरि स्थितः १३५
अथ नागदेवलक्षणम्
श्रीकण्ठो ह्येवमाख्यातः नागदेवस्त्वथोच्यते
त्रिणेत्रश्चतुर्भुजस्सौम्यः रक्ताभश्च सिताम्बरः १३६
अभयवरदोपेतः परहस्ते तु नागधृक्
करण्डमकुटोपेतः नागः पञ्चफणान्वितः १३७
सर्वाभरणसंयुक्तः पद्मपीठोपरि स्थितः
अथ भीमभूमिलक्षणम्
भीमश्चतुर्भुजो रौद्रः सर्वाभरणभूषितः १३८
अभयं वरदं चैव शूलं पाशं च धारयन्
सितवस्त्रधरश्चैव उग्रदृष्टिः सदंष्ट्रकः १३९
सस्याङ्कुरनिभा भूमिः नीलाळकसमन्विता
करण्डमकुटोपेता सर्वाभरणभूषिता १४०
पीताम्बरधरा चैव प्रसन्नवदनान्विता
पद्मं वाप्युत्पलं वापि वहती हस्तयोर्द्वयोः १४१
पद्मपीठोपरिष्ठा तु असीना वा स्थिताथवा
अथ शिखण्डमरुल्लक्षणम्
शिखण्डः कञ्जनाभस्तु चतुर्भुजसमन्वितः १४२
खड्गखेटकसंयुक्तः पद्मपीठोपरिस्थितः
मरुद्गणा धूम्रवर्णाः द्विभुजाश्च समुद्गराः १४३
केशभारसमायुक्ताः सर्वाभरणभूषिताः
दुकूलवसनास्सर्वे नानापुष्पैरलङ्कृताः १४४
टङ्कशूलसमायुक्ताः पीनोरुजघनस्तनाः
पादपीठोपरिष्टात्तु अष्टौ च स्युर्मरुद्गणाः १४५
अथ उग्रलक्षणम्
उग्रश्चतुर्भुजो रौद्रः रक्तवस्त्रसमन्वितः
करण्डमकुटोपेतस्सर्वाभरणभूषितः १४६
अभयवरदोपेतः टङ्कशूलधरः परः
स्थानकः पद्मपीठं तु शुक्लवस्त्रधरः शुचिः १४७
अथ शनैश्चरलक्षणम्
शनैश्चरः कृष्णवर्णा द्विभुजोऽसितवस्त्रकः
करण्डमकुटोपेतस्सर्वाभरणभूषितः १४८
दण्डस्स्याद्दक्षिणे हस्ते वरदो वामहस्तके
स्थानकः पद्मपीठं तु आसीनो वा विशेषतः १४९
ईषत्कुञ्चितपादस्स्यादीषत् ह्रस्वतनुस्स्मृतः
एवं लक्षणमाख्यातं पीठस्य लक्षणं शृणु १५०
अथ पीठलक्षणम्
भानुद्वयाङ्गुलं कारमुत्सेधं भानुमात्रकम्
मेखलात्रयसंयुक्तं वेदमात्राविशालकं १५१
गुणाङ्गुलसमुत्सेधं पद्माच्चं तु गुणाङ्गुलम्
षडङ्गुलं पद्मतारं शेषेर्धं कम्पनीव्रकम् १५२
शिलाभिरिष्टकाभिर्वा सुधया वा प्रकल्पयेत्
परिवारपीठमेवं महापीठविधिं शृणु १५३
अथ महापीठलक्षणम्
प्रासादस्य तु विस्तारं यत्तद्दण्डमिहोच्यते
मूलहर्म्यं समालभ्य षडष्टदण्डमानके १५४
दशद्वादशदण्डे वा मनुदण्डावसानके
षोडशेष्टादशे वापि महापीठं प्रकल्पयेत् १५५
अथवान्यप्रकारेण पीठस्थानं विधीयते
तृतीय वा चतुष्पञ्च सालेग्रायाममध्यमे १५६
महापीठं प्रकर्तव्यं तस्य लक्षणमुच्यते
मूलधान्मस्तु द्वारोच्चमुत्तमं पीठविस्तृतम् १५७
त्रिपादं मध्यमं प्रोक्तं तुङ्गार्धमधमं मतम्
शुद्धद्वारस्य विस्तारमधमं पीठमुच्यते १५८
द्विगुणं मध्यमं प्रोक्तं त्रिगुणं श्रेष्ठमुच्यते
अथवा व्योमहस्तं स्यादधमं पीठविस्तृतम् १५९
द्विहस्तं तु मध्यमं स्यात् त्रिहस्तं श्रेष्ठमुच्यते
तद्विस्तारसमं तुङ्गं सप्ताष्टनवविंशतिः १६०
उपानोऽत्र द्विभागं स्यात् षडंशं जगती भवेत्
कुमुदोच्चं तु भूतांशं कम्पमेकांशमुच्यते १६१
वेदांशं कर्णमानं स्यादूर्ध्वकम्पं शिवांशकम्
महापट्टी गुणांशं तु द्विभागं वा विशेषतः १६२
वेदांशं पद्मतुङ्गं तु द्विभागं कर्णिकोदयम्
अथवा कर्णिकोत्सेधं गुणांशं द्विजसत्तम १६३
पद्मोच्चं पञ्चभागं तु महापट्टी द्विभागकम्
उपानोच्चं शिवांशं तु शेषं पूर्ववदेव हि १६४
अथ पीठायतं विप्र धारातलयुताम्बुजम्
तदूर्ध्वे पद्ममानं तु पीठोत्सेधांशमुच्यते १६५
अधिष्ठानोक्तमार्गेण वेशनिष्क्रान्तमाचरेत्
पद्मतारे युगांशं वा भूतांशं कर्णिका ततम् १६६
पद्मतारं युगाश्रं वा वृत्तं वाष्टाश्रमेव वा
कलात्रयाश्रं कर्तव्यं हंसगारुडलाञ्छितम् १६७
लोहजं शैलजं वापि इष्टकामयमेव वा
सुधया वेष्टकागर्भं नाना चित्रैर्विचित्रितम् १६८
भूमेव्यामकरैर्व्याळैः वृषभैश्च विभूषितम्
नानावर्णैर्विचित्रं वा भूषयेद्धेमराजतैः १६९
पीठव्यासे तु षट्सप्तवसुनन्दांशकेपि वा
अंशमानेन वा पीठमुपपीठोक्तवत् कुरु १७०
तदूर्ध्वे तु महापीठमुक्तव्यासोदयान्वितम्
उपपीठोक्तवत्पीठं कर्तव्यं वा द्विजोत्तम १७१
आमोदं च पूर्वदळे पृथिवी तत्वरूपिणम्
प्रमोदं च याम्यदळे यत्तत्स्यादनिलात्मकम् १७२
सुमुखं पश्चिमदळे तत् भूतं स्याज्जलात्मकम्
दुर्मुखं सौम्यदिग्भागे वायुतत्वात्मकं तथा १७३
अविघ्नं कर्णकोर्ध्वे तु व्योमात्मकमुदीरितम्
तामसं चानलदळे राजसं नैरृते दळे १७४
सात्विकं वायुदिग्भागे विघ्नकर्तारमीशके
एवं भूतगुणाकारमात्मतत्वमुदाहृतम् १७५
स्वर्गं भूमिरन्तरिक्षं सर्वं भूतगुणात्मकम्
आत्मेत्युक्तं तु तत्सर्वं महापीठं द्विजोत्तम १७६
तामसादिनिवृत्यर्थं नित्यं बल्यन्तमर्चयेत्
तस्मादात्मोपहाराय नित्यं कुर्यात्प्रदक्षिणम् १७७
भूमिप्रदक्षिणं त्वादौ द्वितीयं ह्यन्तरिक्षकम्
स्वर्गप्रदक्षिणं पश्चात्कृतं तद्वासिनां हितम् १७८
जगदार्तिविनाशार्थं कल्पयेत् साधकोत्तमः
पश्चिमाभिमुखे हर्म्ये किञ्चित् भेदं वदाम्यहम् १७९
वृषस्थाने कुमारं च कौमारे वृषभं न्यसेत्
वारुणे तु महापीठं शेषं पूर्ववदाचरेत्
परिवारविधिः प्रोक्तः वक्ष्यते लिङ्गलक्षणम् १८०
इति काश्यपीये शिल्पशास्त्रे परिवारविधिर्नाम अष्टचत्वारिंशः पटलः