४६

अथ सप्तचत्वारिंशः पटलः
विनायकलक्षणम्
अथ वक्ष्ये विशेषेण विनायकस्य लक्षणम्
पादाद्युष्णीषसीमान्तं चतुष्षष्ट्यंशकं भवेत् १
मूर्ध्नो मस्तकसीमान्तमङ्गुलद्वयमुच्यते
तस्माद्वै नेत्रसूत्रान्तं चतुर्मात्रमुदाहृतम् २
नेत्रसूत्रान्मुखायाममष्टाङ्गुलमुदीरितम्
गळायामं त्र्! यङ्गुलं स्यात् हृदयान्तं षडङ्गुलम् ३
हृदयान्नाभिपर्यन्तं षोडशाङ्गुलमुच्यते
नाभेस्तु मेढ्रमूलान्तं षडङ्गुलमुदाहृतम् ४
ऊरुदीर्घं षडर्धं स्यात् जानुदीर्घं गुणाङ्गुलम्
जङ्घा चोरुसमं दीर्घं गुणांशं स्यात्तलोदयम् ५
सप्ताङ्गुलं तलायाममङ्गुष्ठाग्रावसानकम्
पादाङ्गुष्ठायतं द्व्यंशं सार्धांशं तु कनिष्ठिका ६
तर्जन्यादिकनिष्ठान्तं प्रत्येकं तु यवोनकम्
त्रयोदशाङ्गुलं बाहुः प्रकोष्ठं तु नवाङ्गुलम् ७
तर्जन्यनामिके द्वे च एकविंशयवायतम्
कनिष्ठाङ्गुष्ठयोश्चैव दीर्घं सप्तदशं यवम् ८
द्वादशाष्टनवाष्टौ च सप्तसङ्ख्यायवं क्रमात्
अङ्गुष्ठादिकनिष्ठान्तं व्यासमित्यभिधीयते ९
तत्तद्व्यासत्रिपादं स्यात् नखव्यासमुदाहृतम्
नखव्यासत्रिपादं स्यात् नखदीर्घं तु वृत्तवत् १०
एवं करतलव्यासं मणिबन्धं द्वयार्धकम्
प्रकोष्ठकं युगाङ्गुल्यं बाहुव्यासं षडर्धकम् ११
बाहुमूलं तु वस्वंशं हस्तकोष्ठाङ्गुलान्तकम्
सप्ताङ्गुलं तु तन्निम्नं मुखमध्ये दशाङ्गुलं १२
हस्तमूलं षडङ्गुल्यं द्वाविंशत्यस्य दीर्घकम्
तदङ्गुल्यग्रविस्तारं सार्धमात्रं द्विजोत्तम १३
क्रमेण कृशता सप्ते तन्मध्ये सुषिरद्वयम्
वामदन्तायतं वेदमात्रमित्यभिधीयते १४
दक्षिणे दन्तमूलं स्यात् वामाख्यमतलं भवेत्
अधरस्य तु निष्क्रान्तं लम्बनं द्वयमङ्गुलम् १५
नेत्रायामं विशालं च षड्यवं परिकीर्तितम्
कण्ठं भूताङ्गुलव्यासमुत्सेधं चैव तत् भवेत् १६
अर्धाङ्गुलं घनं तस्य कर्णमूलं द्वयाङ्गुलम्
यद्वद्गजाननं तद्वत्कर्तव्यं तु मुखं द्विज १७
बाहुपर्यन्तविस्तारं द्वात्रिंशदङ्गुलं भवेत्
एकोनविंशदङ्गुल्यं कक्षान्तरमुदाहृतम् १८
स्तनान्तरं दशाङ्गुल्यं हिक्कायास्तद्वदेव हि
स्तनाक्षं द्वियवव्यासं द्व्यङ्गुलं स्तनमण्डलम् १९
स्तनाधस्ताद्विशालं तु त्रिपञ्चाङ्गुलमुच्यते
द्वाविंशदङ्गुलं ख्यातं मध्योदरविशालकम् २०
नाभिनिम्नं विशालं च अत्यर्धाङ्गुलमुच्यते
लिङ्गायामं गुणाङ्गुल्यं तस्यार्धं तस्य विस्तृतम् २१
मुष्कायामं विशालं च गुणाङ्गुलमुदाहृतम्
ऊरुव्यासं तु भान्वंशं जानुव्यासं नवाङ्गुलम् २२
जङ्घामूलविशालं तु सप्तमात्रमुदाहृतम्
नळकाविस्तृतं चापि सार्धं द्व्यङ्गुलमुच्यते २३
तलाग्रस्य तु विस्तारं सार्धषण्मात्रमिष्यते
पार्ष्ण्यायामं विशालं च गुणाङ्गुलमुदाहृतम् २४
द्वादशाष्टर्षिषट्पञ्चयवं स्यात्तु यथाक्रमम्
अङ्गुष्ठादिकनिष्ठान्तं पादाङ्गुळिविशालकम् २५
तत्त्रिपादं नखव्यासं तदर्धायतमण्डलम्
स्थानकं वासनं वापि पद्मपीठे विशेषतः २६
स्वदन्तं दक्षिणे हस्ते वामहस्तेकपिण्डके
मोदकं गजहस्ते तु अङ्कुशं दक्षिणे करे २७
वामहस्ते तु पाशं वा नागं वाप्यक्षमालिका
त्रिनेत्रं हेमसङ्काशं दुकूलवसनान्वितम् २८
आभङ्गं समभङ्गं वा स्थानके तु प्रकल्पयेत्
आसनं स्वासनं चेत्तु वामपादं तु शाययेत् २९
मानान्तरे मूर्ध्नपादे पादौ तु कुटिकां विना
ईषद्वक्रं तनुर्वामे कर्तव्यं तु विशेषतः ३०
व्याळयज्ञोपवीतं च किरीटमकुटं तथा
करण्डमकुटं वापि जटामौळिकमेव वा ३१
सर्वाभरणसंयुक्तं महाकायं महोदरम्
एवं विनायकं ख्यातं शृणु षण्मुखलक्षणम् ३२
इति काश्यपीये शिल्पशास्त्रे विनायकलक्षणं नाम सप्तचत्वारिंशः पटलः