अथ षट्चत्वारिंशः पटलः
परिवारविधिः
अथ वक्ष्ये विशेषेण परिवारविधिं परम्
अष्टौ च षोडश तथा द्वात्रिंशच्च यथाक्रमम् १
अन्तर्मण्डलगैः सर्वैः परिवारं न कल्पयेत्
अन्तर्मण्डलदेशे तु परिवाराष्टकं द्विज २
कलास्य परिवारान्मध्यप्राकारे प्रकल्पयेत्
प्राकारे च चतुर्थे वै द्वात्रिंशत् परिवारकम् ३
तत्तत्प्राकारमध्ये वा सालकुड्याश्रितेऽथवा
मुखायामं विना बीजं चतुरश्रे कृते सति ४
नवांशं विभजेद्बीजं अर्धांशे मूलहर्म्यकम्
तथा दृष्टार्धभागेषु पूर्वादिक्रमयोगतः ५
प्राच्यां वै वृषभः स्थाप्यः अनलस्त्वग्निगोचरे
अग्निदुर्गाऽथ तद्वामे सप्तमातर एव च ६
दक्षिणे वीरभद्र श्च वामे चैव विनायकः
वारुणे षण्मुखश्चैव ज्येष्ठा वै वायुकोणके ७
सौम्ये तु केशवः स्थाप्यः तत्र कात्यायनी तु वा
भास्करस्त्वीशदिग्देशे तत्पीठं प्रतिमा तु वा ८
प्रतिमा त्वालयोपेता पीठं चेदालयं विना
इन्द्रा नलशिवांशस्थाः पश्चिमाभिमुखं स्थिताः ९
रक्षो वारुणवायुस्थाः सर्वाश्च प्राङ्मुखं स्थिताः
विष्णुश्चेत् प्राङ्मुखः सौम्ये दुर्गा चेत् दक्षिणानना १०
मातरः सौम्यवक्त्राः स्युः दिनेशः पश्चिमाननः
मातृवामस्थविघ्नेशः प्राच्याभिमुख उच्यते ११
आदौ वा द्वित्रिभागे वा अंशे चण्डेश्वरालयम्
त्रिदण्डे बलिपीठाग्रे वृषस्थानं वरं भवेत् १२
अपरध्वजदण्डेन तयोर्मध्येऽष्टभाजिते
नवधा स्यात् वृषस्थानं गोपुरद्वारनिर्गतिः १३
मण्डपाद्वाथ तन्नीप्रं वृत्तपीठान्तरं भवेत्
परिवाराष्टकं ह्येवं षोडशं चाधुना शृणु १४
बीजे तु पञ्चपञ्चांशे शक्रभागादिषु क्रमात्
इन्द्रो ऽश्विनौ च वह्निश्च पीतरश्च यमस्तथा १५
रोहिणी निरृतिश्चैव अप्सरो गण एव च
वरुणो ऋषयश्चैव वायुरुद्रा स्तथैव च १६
सोमश्च क्षेत्रपालश्च ईशानश्चाथ भास्कराः
मूलगेहसमीक्षांस्तान् स्थापयेत्तु प्रदक्षिणम् १७
कर्णकांशगतान् देवान् प्राग्देशे पश्चिमाननान्
पश्चिमस्थान् प्राग्वदनान् कल्पयेत् कल्पवित्तमः १८
षोडशं ह्येवमाख्यातं द्वात्रिंशदधुनोच्यते
चतुर्थे सालबीजे तु नन्दनन्दविभाजिते १९
बाह्ये तु चतुरष्टांशे पूर्वादिक्रमयोगतः
अनन्तोर्को भवश्चैव वरुतोप्सरसस्तथा २०
गौरी शर्वो विरिञ्चिश्शिवोत्तमो भृगुरीश्वरः
अगस्त्यः कौशिकश्चैव एकनेत्रो विनायकः २१
सरस्वती च लक्ष्मीश्च एकाक्षश्चैकरुद्र कः
पशुपतिश्च वसवः महादेवस्तथैव च २२
त्रिमूर्तिर्धनदश्चेन्द्रः कालाग्निरुद्र एव च
श्रीकण्ठो नागदेवश्च भीमो भूमिश्शिखण्डकः २३
उग्रश्शनैश्चरश्चैव द्वात्रिंशत्परिवारकाः
अथासु पृथिवीस्थाने गौरीस्थापनमाचरेत् २४
गौरीस्थाने न्यसेत् पृथ्वीं शेषं पूर्ववदाचरेत्
आभ्यन्तराननान् सर्वान् स्थापयेत्तु विशेषतः २५
गौर्यास्तु वनमालाथ विमानं वा प्रकल्पयेत्
अन्येषामपि देवानां विमानं वाथ मण्डपम् २६
मूलहर्म्यत्रिपादं वा अर्धं वा पादमेव वा
गर्भगेहसमं वापि गर्भार्धं वा त्रिपादकम् २७
त्रिचतुष्पञ्चहस्तं वा परिवारालयं भवेत्
आभाससदने तेन माननैव प्रकल्पयेत् २८
शक्त्यालये तु यन्मूलं गेहमेवं तथैव हि
कारयेन्नाधिकं रम्यं विपरीतं विपत्करम् २९
त्रिवर्गमण्डपाकारं चतुर्द्वारसमन्वितम्
उक्षावासं प्रकर्तव्यं शेषाणां तु यथोचितम् ३०
परिवारालयं प्रोक्तं प्रतिमालक्षणं शृणु
परिवारालये द्वारगर्भमानेन वै भवेत् ३१
सकलानां तु यन्मानं तन्मानं तत्र गृह्यताम्
सर्वासां देवतानां च स्थानकं वासनं तु वा ३२
द्वात्रिंशत् परिवारं तु जातिहर्म्ये प्रकल्पयेत्
छन्दे तु षोडशं ख्यातं शेषे तु स्वस्तिकं भवेत् ३३
अथवा सर्वहर्म्येषु सर्वं वा परिकल्पयेत्
जात्यायामांशकादीनि प्रतिमालक्षणोक्तवत् ३४
अथ वृषभलक्षणम्
आदौ तु परिवाराणां वक्ष्ये वृषभलक्षणम्
तुङ्गे पञ्चदशांशे तु एकांशं चाङ्गुलं भवेत् ३५
चत्वारिंशाङ्गुलायामं गळात्पृष्ठावसानकम्
मूर्धादिगळपर्यन्तं वर्णमात्रमुदाहृतम् ३६
तस्माद् ग्रीवोच्चमष्टांशं पूर्वोक्तं षोडशाङ्गुलम्
ऊरुदीर्घं चतुष्पादैः षण्मात्रं परिकीर्तितम् ३७
जानुमानं द्विमात्रं स्याज्जङ्घामानं षडङ्गुलम्
खुरमानं द्विमात्रं स्यात्तुङ्गमेवं प्रकल्पयेत् ३८
शृङ्गान्तरं तु वस्वंशं शृङ्गोच्चं चतुरङ्गुलम्
शृङ्गमूलविशालं तु चतुरङ्गुलमुच्यते ३९
अर्धाङ्गुलं तदर्धाग्रं व्यासं मूलात्कृशं क्रमात्
किञ्चिद्वक्रसमायुक्तौ शृङ्गौ मध्यान्तरे बुध ४०
ललाटव्यासं नन्दांशं मुखव्यासं शराङ्गुलम्
घनं च तत्समं ख्यातं नेत्रमेकाङ्गुलं भवेत् ४१
नेत्रमध्यललाटोच्चं वेदमात्रमुदाहृतम्
नेत्रात्कर्णान्तपर्यन्तं पञ्चांशं कर्णदीर्घकम् ४२
कर्णमूलविशालं तु द्विमात्रमिति कथ्यते
मध्यव्यासं चतुर्मात्रं अग्रमङ्गुलविस्तृतम् ४३
घनमर्धाङ्गुलं ख्यातं घ्राणं सार्धाङ्गुलायतम्
व्यासमेकाङ्गुलं ख्यातं गाढं तत्सममुच्यते ४४
अङ्गुलं नासिकोर्ध्वं तु तुङ्गमित्यभिधीयते
आस्यं पञ्चाङ्गुलायाममधरोष्ठं द्वयाङ्गुलम् ४५
त्रिमात्रं चोत्तरोष्ठं च युक्तितः कल्पयेत्क्रमात्
जिह्वायामविशालोच्चं त्रिद्व्येकाङ्गुलमुच्यते ४६
ग्रीवाव्यासो दशांशः स्यात्तन्मूलं द्वादशाङ्गुलम्
पृष्ठग्रीवस्य मूलस्य व्यासमष्टाङ्गुलं भवेत् ४७
पृष्ठग्रीवाग्रविस्तारं षडङ्गुलमुदाहृतम्
ककुदुच्चं चतुर्मात्रं तस्य व्यासं षडङ्गुलम् ४८
ग्रीवाग्रस्य घनं चापि अत्यर्धाङ्गुलमुच्यते
शरीरे मध्यमे व्यासं चतुर्विंशाङ्गुलं भवेत् ४९
अपरे व्यासं भान्वंशं शेषं युक्त्या समाचरेत्
पूर्वपादोरुमूलस्य व्यासं पञ्चाङ्गुलं भवेत् ५०
तदूर्ध्वाग्रं चतुर्मात्रं जङ्घामूलं च तत्समम्
जङ्घाग्रं गुणमात्रं स्यात्सार्धाग्न्यंशं खुरास्तृतम् ५१
अपरे चोरुमूलं स्यात् व्यासमेवं क्रमात्कृतम्
अग्रमष्टाङ्गुलं व्यासं मूलव्यासं षडङ्गुलम् ५२
जङ्घाग्रं चतुरङ्गुल्यं खुरव्यासं युगाङ्गुलम्
ऊरुपञ्चाङ्गुलायामं जानुदीर्घं द्विमात्रकम् ५३
जङ्घा पञ्चाङ्गुलं दीर्घं त्रिमात्रं खुरमानकं
पुच्छव्यासं त्रिमात्रं स्यात् मूलाग्रे सार्धमात्रकम् ५४
पुच्छं जङ्घाग्रसीमान्तं वालयेत्तु विशेषतः
पुच्छाग्रे केशसहिते व्यासं वेदाङ्गुलं भवेत् ५५
मूलाग्रं चैकमात्रं स्यात्केशदीर्घं युगाङ्गुलम्
बीजायामं विशालं च सर्वं वह्न्यङ्गुलं क्रमात् ५६
द्विमात्रं घनवित्युक्तं शेफायामं युगाङ्गुलम्
उदयादङ्गुलव्यासं घनमित्यभिधीयते ५७
स्थितं वा शयितं वापि पद्मे वा भद्र पीठके
सुधया चेष्टकागर्भं शिलाजं लोहजं तु वा ५८
स्वर्णजं ताम्रजं वापि लोहजं वृषभं वरम्
किञ्चित् हीनं न कर्तव्यं मानोन्मानप्रमाणके ५९
अथा कर्तुस्तु कर्तृत्वं तत्तल्लक्षणसंयुतम्
कर्तव्यं विपरीतं चेत् विपरीतफलप्रदम् ६०
वृषभलक्षणं ख्यातं शृणु वह्नेस्तु लक्षणं ६१
अथ अग्निदेवलक्षणम्
उत्तमदशतालेन कर्तव्यं अनलेश्वरम्
द्विवक्त्रं त्वेकहृदयं षट्कुक्षिं च द्विनासिकम् ६२
त्रिमेखलं त्रिपादं च सप्तजिह्वाभिरावृतम्
दक्षवक्त्रे चतुर्जिह्वं वामवक्त्रे द्विजिह्वकम् ६३
मेषारूढं चतुश्शृङ्गं जटामकुटमण्डितम्
दक्षिणे तु चतुर्हस्तं वामपार्श्वे त्रिहस्तकम् ६४
शक्त्यायुधं तथान्नं च स्रुक्स्रुखं दक्षिणे करे
तोमरं व्यजनं सामे घृतपात्रं विशेषतः ६५
वपुः स्वर्णनिभङ्ख्यातं नेत्रं पिङ्गळवर्णकम्
प्रभामण्डलसंयुक्तं पद्मपीठोपरिस्थितम् ६६
दुकूलवसनोपेतं कल्पयेदनलेश्वरम्
अथ ब्राह्म्यादि नामानि
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ६७
वाराही च तथेन्द्रा णी चामुण्डा सप्तमातरः
दक्षिणेऽदक्षिणे चैव वीरभद्र विनायकौ ६८
अथ वीरभद्र लक्षणम्
चतुर्भुजस्त्रिणेत्रश्च जटामकुटमण्डितः
सर्वाभरणसंयुक्तः श्वेतवर्णो वृषध्वजः ६९
शूलायुधश्चाप्यभयं दक्षिणे तु करद्वये
गदा च वरदं चापि वामपार्श्वकरद्वये ७०
श्वेतपद्मासनासीनः वटवृक्षं समाश्रितः
अथ सप्तमातृलक्षणम्
चतुर्वक्त्रश्चतुर्बाहुसंयुक्तो हेमसन्निभः ७१
दक्षिणाभयशूलं च वरदं चाक्षमालिकाम्
शतपत्रासनासीना हंसवाहनकौतुका ७२
जटामकुटसंयुक्ता पीताङ्घरधरा वरा
ब्रह्माणी त्वेवमाख्याता ब्रह्मवृक्षं समाश्रिता ७३
चतुर्भुजा त्रिणेत्रा च अतिरक्ततनुप्रभा
शूलं चाप्यभयं सव्ये वामे च वरदं तथा ७४
जपमालां च दधती जटामकुटसंयुता
बिल्ववृक्षमधस्तात्तु वृषभध्वजसंयुता
ईश्वरेण समा ह्येषा माहेश्वरीति कीर्तिता ७५
चतुर्भुजा त्रिणेत्रा च रक्तवस्त्रसमन्विता
सर्वाभरणसंयुक्ता कौमारी मकुटान्विता ७६
शक्तिकुक्कुटहस्ता च वरदाभयपाणिका
मधूरध्वजवाही च उदुम्बरं समाश्रिता ७७
शङ्खचक्रधरा देवी वरदाभयपाणिका
सुस्तना चारुवदना श्यामाभा च सुलोचना ७८
पीताम्बरधरा देवी किरीटमकुटान्विता
राजवृक्षं समाश्रित्य गरुडध्वजवाहिनी ७९
वैष्णवीति समाख्याता विष्णुभूषणभूषिता
वराहवक्त्रसंयुक्ता नीलाम्बुदसमप्रभा ८०
करण्डमकुटोपेता चतुर्भुजसमन्विता
हलं च दक्षिणे हस्ते मुसलं वामहस्तके ८१
अभयं दक्षिणे हस्ते वरदं वामहस्तके
दधाना कृष्णवसना सर्वाभरणभूषिता ८२
करञ्जद्रुमसंयुक्ता महिषध्वजवाहिनी
चतुर्भुजा त्रिणेत्रा च सर्वाभरणभूषिता ८३
किरीटमकुटोपेता सुविद्रुमनिभानना
अङ्कुशं चाभयं सव्ये वामे शक्तिं वरं तथा ८४
कल्पद्रुमं समाश्रित्य स्थिता चैव गजध्वजा
इन्द्रा णीति समाख्याता चामुण्डालक्षणं शृणु
चतुर्भुजा त्रिणेत्रा च रक्तवर्णोर्ध्वकेशिनी ८५
कपालशूलहस्ता च वरदाभयपाणिका
शिरोमालापरीता च पद्मपीठोपरिस्थिता ८६
व्याघ्रचर्माम्बरधरा नागचर्मावृतस्तनी
दंष्ट्राकराळवदना वटवृक्षं समाश्रिता ८७
चामुण्डालक्षणं ह्येवमेवं कुर्यात्तु कल्पवित्
दक्षपादास्थितास्सर्वाः वामपादं तु लम्बितम् ८८
एवं वै सप्तमातॄणां लक्षणं कथितं मया ८९
इति काश्यपीये शिल्पशास्त्रे परिवारविधिर्नाम षट्चत्वारिंशः पटलः