४४

अथ पञ्चचत्वारिंशः पटलः
गोपुरलक्षणम्
अथ वक्ष्ये विशेषेण गोपुराणां तु लक्षणम्
अन्तर्मण्डलसालादिष्वधुना प्रोच्यते क्रमात् १
द्वारशोभा द्वारशाला द्वारप्रासादहर्म्यकम्
द्वारगोपुरमित्येते क्रमात् नाम्ना प्रकीर्तिताः २
एकद्वित्रिकलां वापि द्वारशोभां प्रकल्पयेत्
द्विभूमिर्वा त्रिभूमिर्वा चतुर्भूमिरथापि वा ३
द्वारशाला तु कर्तव्या साले स्यात्तु द्वितीयके
त्रिचतुष्पञ्चभूमिर्वा द्वारप्रासादमारभेत् ४
चतुष्पञ्चतलं वाथ षट्कलं वाथ हर्म्यकम्
पञ्चषट्सप्तभूमिर्वा द्वारगोपुरमिष्यते ५
अथवा सर्वसालेषु एकद्वित्रतलं तु वा
सोपपीठमधिष्ठानं विना वान्नोपपीठकम् ६
तयोरुच्चयतः सर्वे नवपञ्चवदाम्यहम्
मूलप्रासादविस्तारे सप्ताष्टनवभाजिते ७
दशैकादशभागे च एकांशरहितं क्रमात्
शोभादिगोपुरान्तानां विपुलं कीर्तितं क्रमात् ८
विकल्पाभासहर्म्याणां गोपुराणां ततस्त्विमे
मूलालयविशाले तु चतुष्पञ्चषडंशके ९
सप्ताष्टांशे न हीनं तु छन्दशोभोदयं भवेत्
मूलगेहत्रिभागैकं भागमर्धांशमेव च १०
त्रिद्व्यंशं चतुरंशे तु गुणांशं च तथैव च
पञ्चभागे तु वेदांशं सालेषु प्रथमादिषु ११
शोभादिगोपुरान्तानां पतिर्जात्यालयतालयम्
कल्प्यैवं हर्म्यमानं स्यादथ मानवशात्तत १२
द्विहस्तादिद्विरष्टान्तमेकहस्तविवर्धनात्
शोभादिगोपुरान्तानां प्रत्येकं त्रित्रिमानकम् १३
विकल्पाभासयोरेवं छन्दहर्म्ये च लक्ष्यते
गुणहस्तं समारभ्य सप्तदशकरावधि १४
एकहस्तविवृद्ध्या तु शोभादीनां त्रयं त्रयम्
चतुर्हस्तं समारभ्य यावदष्टादशं करम् १५
शोभादीनां क्रमात् व्यासं जातिहर्म्ये विधीयते
प्रत्येकं त्रित्रिराकारं नन्दपञ्चावधिर्भवेत् १६
हस्तमानेन विस्तारं क्षुद्रा णामर्हकं क्रमात्
स्वस्वोदितं तु कर्तव्यं विपरीतं विपत्करम् १७
अथवा त्रिचतुष्पञ्चषट्सप्ताष्टनवं करम्
दशैकादशहस्तं च अधमादित्रयं त्रयम् १८
सर्वहर्म्ये तथा साले यथेष्टं परिकल्पयेत्
महत्तरे तु श्रेष्ठादिमन्तरे मध्यमत्रयम् १९
क्षुद्रा ल्पयोः प्रशस्तानि कन्यसत्रयमुच्यते
सर्वकालेषु कर्तव्यं कर्तव्यं सार्वदेशिके २०
अथवा न्यप्रकारेण शोभादीनां च विस्तरम्
पञ्चहस्तं समारभ्य द्विद्विहस्तविवर्धनात् २१
त्रयोदशकरान्तं तु शोभाव्यासं तु कल्पय
पञ्चविंशत् करारभ्य त्रयस्त्रिंशत् करान्तकम् २२
द्वारप्रासादविस्तारं पञ्चधा परिकीर्तितम्
पञ्चत्रिंशत् करारभ्यं चत्वारिंशत् त्रयाधिकम् २३
पञ्चधा द्वारहर्म्यस्य विस्तारः परिकीर्तितः
सपञ्चचत्वारिंशत् पञ्चात्रिंशद्गोपुरान्तकम् २४
द्विद्विहस्तविवृद्ध्या तु पञ्चधा गोपुरान्तकम्
द्वारामधनं साद्यायततेनायतनं शृणु २५
सपादं सार्धं पादोन द्विगुणं द्विगुणं तु वा
सत्रिभागैकभागं तु द्विभागं वाऽऽयतं भवेत् २६
शोभादिगोपुरान्तानामिष्टायामं प्रगृह्यताम्
तेषु किञ्चित् विशेषोऽस्ति तं विशेषं नवं शृणु २७
द्विहस्तमानविस्तारं गृहीत्वैव विशेषतः
आयामं सर्ववत् कल्प्यमनेकेष्विष्टमायतम् २८
हस्तच्छन्दप्रवृत्त्या वा अन्यद्वा पूर्वमाचरेत्
आयादिशोभनोपेतं हस्तमानेन कल्पयेत् २९
तं विना हर्म्यमूलस्य वंशे द्वे कल्पितस्य तु
व्यासायामः समाख्यातः तेषां तुङ्गमथोच्यते ३०
विस्तारं सप्तधाभज्य शोभोच्चं रुद्र भागकम्
कारार्धाधिकतुङ्गं तु द्वारशालोच्छ्रयं भवेत् ३१
सप्तभागे तु रुद्रा शं! भान्वंशं वा तृतीयकम्
विस्तारे तु नवांशे तु मध्यमांशं चतुर्थके ३२
विस्तारजीवनोत्सेधे महागोपुरमुच्यते
होमादिस्तूपिपर्यन्तं मानोच्चं तु प्रकीर्तितम् ३३
विस्तारायामयोर्मानं सूत्रं प्राक् बाह्यमुच्यते
तद्बाह्ये कूटकोष्ठादि नीप्रं प्रासादवत् भवेत् ३४
विस्तारस्य त्रिभागैकं चतुर्भागैकमेव वा
पञ्चभागे त्रिभागैकं प्राक् बाह्ये तु निसर्गतः ३५
सार्धहस्तं समारभ्य षट्षडङ्गुलवर्धनात्
पञ्चहस्तावधिर्यावत् क्षुद्रा णां द्वारविस्तृतम् ३६
अल्पानां च तथा प्रोक्तं सन्नराणां ततः शृणु
त्रिहस्तं तु समारभ्य यावत्सप्तकरावधि ३७
षडङ्गुलविवृद्ध्या तु द्वारव्यासं प्रकीर्तितं
चतुर्हस्तं समारभ्य पञ्चदशकरान्तकम् ३८
रसमात्रा विवृद्ध्या तु महते द्वारविस्तृतम्
तारे सप्तांशे विंशांशं सप्तांशे तु दशांशकम् ३९
अत्यर्धं पादहीनं तु द्विगुणं द्विगुणोन्नतम्
सार्धपादं तु पादं वा द्वारोत्सेधं तु सप्तधा ४०
लिङ्गस्य मध्यमं द्वारमध्यमं तु वदाम्यहं
शक्तेश्च भूतयोर्मध्ये नवांशकविशेषतः ४१
लिङ्गमध्यं तु रामे तु द्वारमध्यं प्रयोजयेत्
शोभादिगोपुरान्तानां द्वारमध्यं क्रमोदितम् ४२
तन्मध्ये गोपुरायामं स्तम्भयोः पार्श्वयोः समम्
द्वारयोगकवाटं च द्वारलक्षणवत्कुरु ४३
गुणपङ्क्तिसमारभ्य यावदेकोनविंशतिः
गुणपङ्क्तिस्तु विस्तारेष्वेवमेवं प्रकल्पयेत् ४४
यावद्धीन्द्र कृतिर्व्यस्ता तावदेवाथ पङ्क्तयः
विस्तारे पञ्चभागे तु गुणांशं गर्भगेहकम् ४५
शेषं कुड्यविशालं स्यात् एकभूमौ द्विजोत्तम
परितः कुढ्यविस्तारं मानेनैव कल्पयेत् ४६
एवमेकतलं ख्यातं द्वितलं तु तथोच्यते
विस्तारे पञ्चभागं स्यादायामेपि तथैव च ४७
दशांशं गर्भगेहं स्यात् सार्धांशं कुड्यविस्तृतम्
कर्णकूटं तु मेनांशं शाला दीर्घविशालकं ४८
हारान्तरं तदंशेन विस्तारे त्वेवमेव च
शालादीर्घं तु पञ्चांशमायामे तु प्रकल्पयेत् ४९
हारान्तरं तु कूटं च एकैकांशेन कल्पयेत्
कूटान्तरसमायामं शेषं हारान्तरान्वितम् ५०
हारान्तरार्धमानेन भद्रं वा भद्र पञ्जरम्
द्वितलं ह्येवमाख्यातं त्रितलं त्वधुनोच्यते ५१
नवांशं विभजेद्व्यासमायामं च तलं भवेत्
गर्भगेहं गुणांशं स्यादंशेन गृहपिण्डिका ५२
अलिन्द्रं त्वेकभागेन हारव्यासं शिवांशकम्
कर्णकूटं शिवांशेन शालादीर्घं गुणांशकम् ५३
एकांशं पञ्जरं ख्यातमर्धांशं हारयोत्तरम्
कल्प्यैवमादिभूमिं च द्वितलं पूर्ववत् भवेत् ५४
अथवा न्यप्रकारेण त्रितलं शृणु सुव्रत
द्वारभागं तु विस्तारं रुद्रा शं! तु तदायतम् ५५
गुणांशं गर्भगेहं तु गृहपिण्ड्यंशमुच्यते
त्रितलं तत्समाख्यातं हारं भागेन कल्पयेत् ५६
अळिन्द्रा शं! तु कुड्यं वा गर्भगेहान्वितं तु वा
आयामे पञ्चभागेन कोष्ठदीर्घं प्रकल्पयेत् ५७
शेषं पूर्ववदुद्दिष्टं द्वितीयं द्वितलोक्तवत्
त्रितलं चैवमाख्यातं चतुस्तलमथोच्यते ५८
विस्तारे तु दशांशे तु तु तद्वदायामपङ्क्तयः
गर्भगेहं त्रिभागं हि सार्धांशं कुड्यविस्तृतम् ५९
अळिन्द्रं शिवभागेन हारव्यासं तथैव च
पञ्जरं कर्णकूटं च एकैकांशेन कल्पयेत् ६०
कूटतारसमायामं शेषं हारान्तरान्वितम्
शालायामे तु वेदांशे अर्धांशं हारमन्तरम् ६१
आदिभूरेवमाख्यातमूर्ध्वं पूर्ववदाचरेत्
विस्तारे तु दशांशे तु भान्वंशे तु तदालयम् ६२
पूर्वे परे च शालायां पञ्चभागेन कल्पयेत्
शेषं पूर्ववदुद्दिष्टं चतुर्भौममिदं परम् ६३
तारमेकादशांशं तु आयामं तु तथैव हि
पूर्वे परे च पार्श्वे च शालापञ्चांशमायतम् ६४
एकांशं पञ्जरव्यासं कूटव्यासं शिवांशकम्
हारान्तरं तथार्धांशं कल्प्यैवं प्रथमं तलम् ६५
तस्योर्ध्वभूमयः सर्वाः पूर्ववत्परिकल्पयेत्
तारमेकादशांशं तु तद्दीर्घं तु त्रयोदशम् ६६
गुणांशं गर्भगेहं च द्विभागं भक्तिविस्तृतम्
अलिन्द्रं भागतः कल्प्यं हारं भागेन कल्पयेत् ६७
पार्श्वे शाला तु वेदांशं षडंशं मुखपृष्ठयोः
हारान्तरं शिवांशं स्यात् व्योमपञ्जरकूटयोः ६८
शेषं पूर्ववदुद्दिष्टं रसभूरेवमेव तु
त्रयोदशांशविष्कम्भमायामं च तथैव हि ६९
भूतांशं गर्भगेहं तु गृहपिण्डी द्विभागकम्
अलिन्द्रं तु शिवांशेन खण्डहर्म्यं शिवांशकम् ७०
कोष्ठायामं तु भूतांशं रसांशेन च पञ्जरम्
कूटमंशेन कर्तव्यं हारान्तरं तथैव च ७१
अथवा तत्र दशान्तरमायामं तु त्रिपञ्चकम्
मुखे मुखे महाशालां सप्तांशेन प्रकल्पयेत् ७२
पञ्चभागेन कर्तव्यं पार्श्वयोः कोष्ठदीर्घकम्
शेषं पूर्ववदुद्दिष्टं सर्वालङ्कारसंयुतम् ७३
सप्तभूमी समाख्यातं महागोपुरकं भवेत्
सालिन्द्रं वा विना लिन्द्रं कल्पयेत्कल्पवित्तमः ७४
विनालिन्द्र कृतं चेत्तु कुड्यगर्भगृहं तु वा
अलिन्द्रा शं! तु संयोज्य कारयेत्तु द्विजोत्तम ७५
आदिभूरेवमाख्यातमूर्ध्वं षट्तलवत् भवेत्
सप्तभौमं समाख्यातं केषां गण्यमथोच्यते ७६
पादाधिष्ठानयोस्तुङ्गं मूलप्रासादमूलकम्
चतुष्पञ्चषडंशं वा सप्ताष्टनव एव वा ७७
दशैकादशभागं वा कृत्वैकांशोपपीठकम्
अथवा हस्तमानेन द्वारं मानं यथोचितम् ७८
तदुच्चं तु चतुष्पञ्च षट्सप्ताष्टौ तु वा भवेत्
नवरुद्रा शं!भागं वा कृत्वैकांशं विशेषतः ७९
उपपीठोन्नतं ख्यातं शेषं तु गुणभाजिते
अधिष्ठानं तदेकांशं द्विभागं चरणायतम् ८०
होमादुत्तरसीमान्तं द्वारमानं विधीयते
पादबन्धमधिष्ठानं द्वारशोभादिना कुरु ८१
स्तूप्यन्तमुत्तरान्तं वा रसभागविभाजिते
प्रस्तरोच्चं सपादांशं शश्यंशं गलमानकम् ८२
पादोनगुणभागं तु शिरः शेषं शिखोदयम्
एवमेकतलं प्रोक्तं द्वितलं शृणु सुव्रत ८३
उत्तरादिशिखा तं च नवभागविभाजिते
प्रस्तरोच्चं सपादांशं द्विभागं चरणोदयम् ८४
मञ्चमानं शिवांशं स्यात् तत्समं कन्धरोदयम्
शिखरं सार्धपञ्चांशं सपादांशं शिखोदयम् ८५
द्वितलं ह्येवमाख्यातं त्रितलं चाधुना शृणु
उत्तरात् स्तूपिपर्यन्तं भानुभागविभाजिते ८६
सपादं प्रस्तरोत्सेधं सार्धद्व्यंशं पदोदयम्
प्रस्तरं शशिभागेन द्विभागं चरणोदयम् ८७
मञ्चमानं शिवांशं स्यात् अंशं ग्रीवोदयं भवेत्
पक्षांशं शिखरं ज्ञेयमेकांशं स्तूपिमानकम् ८८
त्रितलं ह्येवमाख्यातं चतुर्भौममथोच्यते
उत्तरादिशिखान्तं तु द्विनवांशविभाजिते ८९
पादोनद्व्यंशं मञ्चोच्चं गुणांशं चरणोदयम्
तदर्धं प्रस्तरोत्सेधं सार्धद्व्यंशं पदोदयम् ९०
तदर्धं प्रस्तरोत्सेधं युग्मांशमङ्घ्रितुङ्गकम्
तदर्धं मञ्चमानं स्यात्सार्धांशगळमानकम् ९१
सार्धद्व्यंशं शिरोत्सेधं शिखामानं शिवांशकम्
चतुर्भौमं समाख्यातं पञ्चभूमिमथो शृणु ९२
शिखाग्रादुत्तरान्तं तु त्रयोविंशतिभाजिते
द्विभागं प्रस्तरोत्सेधं सार्धद्व्यंशाङ्घ्रि तुङ्गकम् ९३
तदर्धं मञ्चमानं स्यात् पादायामं गुणांशकम्
तस्यार्धं प्रस्तरोत्सेधं सार्धद्व्यंशाङ्घ्रितुङ्गकम् ९४
तदर्धं मञ्चमानं तु द्विभागं चरणोदयम्
प्रस्तरोच्चं शिवांशेन कन्धरोच्चं शिवांशकम् ९५
सार्धद्व्यंशं शिरोत्तुङ्गमेकांशं स्तूपिमानकम्
पञ्चभौमं समाख्यातं षट्भूमिमधुना शृणु ९६
उत्तरादिशिखान्तं च एकोनत्रिंशदंशके
द्विभागं प्रस्तरोत्सेधं पादोच्चं चतुरंशकम् ९७
सत्रिपादशिवांशं तु भूमिसामान्यमीरितम्
सार्धाग्न्यंशमङ्घ्रितुङ्गं तदर्धं प्रस्तरोदयम् ९८
शिवांशं तु शिखामानं षट्तलं त्वेवमुच्यते
उत्तरादिशिखान्तं तु मानं षट्त्रिंशदंशकम् ९९
पादद्विभागं मञ्चोच्चं सार्धवेदांशमङ्घ्रिकम्
द्विभागं प्रस्तरोत्सेधं वेदांशं चरणोदयम् १००
पादोनद्व्यंशं मञ्चं स्यात् सार्धाग्न्यंशं पदोदयम्
पादोनद्व्यंशं मञ्चोच्चं गुणांशं पादमानकम् १०१
तदर्धं प्रस्तरोत्सेधं सार्धपक्षाङ्घ्रितुङ्गकम्
तदर्धं मञ्चमानं तु द्विभागं चरणायतम् १०२
प्रस्तरं शशिभागेन शिवांशं गळमानकम्
पादहीनाग्निभागं तु शिरः शेषं शिखोदयम् १०३
एवं सप्ततलं ख्यातं अलङ्कारमथोच्यते
मण्डपानां यथा द्वारशोभां कुर्यात् द्विजोत्तम १०४
मण्डपं वा द्वारशाला प्रासादं सदना कृति
मालिकाकृति कर्तव्यं द्वारहर्म्यं द्विजोत्तम १०५
शालाकारं प्रकर्तव्यं द्वारं गोपुरमेव वा
सर्वं तु गोपुरान्तं वा कल्पयेत्कल्पवित्तमः १०६
तेष्वादौ द्वारशोभां तु वक्ष्येऽहं द्विजसत्तम
एकद्वित्रितलं वापि सर्वालङ्कारसंयुतम् १०७
मुखे मुखे महानासि पार्श्वयोः वंशनासिका
स्वस्त्या कृत्यल्पनासाढ्यं प्रागुक्तविधिना द्विज १०८
युक्तस्तूपिसमायुक्तं लुपारो हि शिरस्तु वा
मण्डपा कृतिकं वापि श्रीकान्तं तदुदाहृतम् १०९
शालाकारशिरस्तस्मिन् षण्णासिमुखपृष्ठयोः
पार्श्वयोः वंशनासाढ्यं युक्तस्तूपिकसंयुतम् ११०
अन्तः पादोत्तरैर्युक्तं इति कान्तमिदं परम्
मुखे मुखे च षण्णासि पार्श्वयोः वंशनासिकम् १११
सभाकारशिरः स्कन्धं कान्तं विजयमेव हि
एवं त्रिविधनीत्या तु द्वारशोभां प्रकल्पयेत् ११२
मुखे मुखे महानासि पार्श्वयोश्च तथैव हि
अर्धकोटि चतस्राढ्यं पञ्जरं च तदा कृति ११३
शाला कारशिरोपेतमयुग्मस्तूपिसंयुतम्
विजयं विशालमेतद्धि विशालालयमुच्यते ११४
अर्धकोटिसहस्राङ्गं पार्श्वयोः भद्र नासिकम्
पार्श्वयोः वंशनास्यङ्गमयुग्मस्तूपिकान्वितम् ११५
पादं प्रत्यल्पनासाढ्यं सर्वावयवसंयुतम्
विप्रतीकान्तालङ्कारं चक्ष्यते तु विशेषतः ११६
पूर्ववत् भूमिभागं च चतुर्दिग्भद्र संयुतम्
महानासि चतुष्काढ्यं शिरोभद्र समन्वितम् ११७
अन्तः पादोत्तरैर्युक्तमयुग्मस्तूपिकान्वितम्
त्रिविधा द्वारशाला स्यात् द्वारप्रासादमुच्यते ११८
अन्तः पादोत्तरैर्युक्तमन्धाय्यायैरलङ्कृतम्
द्वारे द्वाराङ्गसंयुक्तं द्वारं तत् भद्र नासिकम् ११९
पूर्वेऽपरे च शालायाः सभद्रं भद्र नासिका
नानामसूरकस्तम्भवेदिकाजालतोरणम् १२०
अन्तः पादोत्तरैर्युक्तं मध्यतोरणसंयुतम्
पार्श्वयोर्दण्डवक्राढ्यं क्षुद्र नासी विभूषितम् १२१
शालाकारशिरोपेतं जालकादिविभूषितम्
केशविशालालङ्कारं भूमिभागे च पूर्ववत् १२२
पार्श्वयोश्च मुखे पृष्ठे महानासी चतुष्टयम्
अयुग्मस्तूपिसंयुक्तं द्वारप्रासादकुड्यकम् १२३
वक्ष्येऽहं द्वारहर्म्यस्य लक्षणं द्विजसत्तम
प्रागुक्तवत्प्रकर्तव्यं भूमिभागे द्विजोत्तम १२४
सभाशिरस्य संयुक्तं स्वस्तिका कृति नासिकम्
अन्तः पादोत्तरैर्युक्तं युग्मं –स्तूपिनान्वितम् १२५
कूटं शिखरनासाढ्यमयुग्मस्तूपिनासिकम्
कूटादिभूमिभागं च प्रागिवैव प्रकल्पयेत् १२६
अपरे च परे नासिसतारे द्व्यंशनीप्रकम्
शालाकारं शिरः कार्यं वस्वश्रस्तूपिकान्वितम् १२७
शाला निष्क्रान्तसंयुक्तं नानालङ्कारसंयुतम्
नानाधिष्ठानचरणैः युक्तं तत् सोपपीठकम् १२८
द्वारहर्म्यं त्रिधा प्रोक्तं शृणु गोपुरलक्षणम्
चतुर्दिग्भद्र संयुक्तमन्तः पादोत्तरैर्युतम् १२९
शालाकारशिरो युक्तं भद्र नासी मुखे मुखे
पार्श्वयोश्च महानासी पादं प्रत्यल्पनासिका १३०
मात्रादण्डमिति ख्यातं श्रीविशालमथो शृणु
पूर्ववत् भूमिभागं च तलात्तुङ्गं करी कृतम् १३१
सभाकारं शिरो वापि शालाकारमथापि वा
नानामसूरकस्तम्भवेदिकाद्यैरलङ्कृतम् १३२
चतुर्दिक्षु महानासि विदिक्षुक्षुद्र नासिकम्
चतुर्मुखं ततो वक्ष्ये भूमिभागादिपूर्ववत् १३३
दिशिभद्र समायुक्तं मध्ये वारणसंयुतम्
नानामसूरकस्तम्भवेदिकाद्यैरलङ्कृतम् १३४
सभाकारं शिरो वापि शालाकारमथापि वा
मुखे मुखे महानासी पार्श्वयोः द्विद्विनासिके १३५
अन्तः पादोत्तरैर्युक्तं प्रस्तरे तु तलं प्रति
अन्तस्सोपानसंयुक्तं मध्ये वारणसंयुतम् १३६
एवं त्रिधा समुद्दिष्टं द्वारगोपुरलक्षणं
अळिन्द्रा शं! च कुड्यं वा वृषभस्थलमेव वा १३७
तुल्याद्यैः प्रस्तरं वाथ अळिन्द्रा ङ्गं यथोचितम्
शालाकारं सभाकारं मालिकाकारमेव वा १३८
यद्यदिष्टं तु यद्द्वारे तत्तत्रैव प्रकल्पयेत्
बाह्येऽबाह्येङ्घ्रियदाभ्यां मध्यकुड्ययुतं तु वा १३९
गृहपिण्डी गर्भगेहं प्रागिवैव प्रकल्पयेत्
अळिन्द्र हारयोर्माने विवृताङ्घ्रिकमेव वा १४०
प्रस्तरे दिष्टभूम्यन्तं गोपानादिसमन्वितम्
कूटकोष्ठाद्यलङ्कारमूर्ध्वस्तमत्प्रकल्पयेत् १४१
भूमिभागमलङ्कारं गळान्तं परिकल्पयेत्
शीर्षं दण्डाभं शालाभं शालाकारं तदुच्यते १४२
लुपारेपि तदायत्तं सभाकारकमुच्यते
प्रस्तरं प्रतिसञ्छाद्यमण्डपं यत्त्रिविष्टिना १४३
मालिकाकृतिकं ख्यातं मण्डपे तु परस्परम्
गोपुरं ह्येवमाख्यातं परिवारविधिं शृणु १४४
इति काश्यपशिल्पे गोपुरलक्षणं नाम पञ्चचत्वारिंशः पटलः समाप्तः
इति पूर्वभागः समाप्तः

Reference:
K. S. Subrahmaöya êŒstri, êr´mat KŒ§yapa§ilpa§Œstram, Pªrva BhŒgaú, (Srirangam: Sri Vani Vilas Syndicate, 1968).
श्री गणेशाय नमः
अथ काश्यपशिल्पे उत्तरभागः