अथ चतुश्चत्वारिंशः पटलः
मण्डपलक्षणम्
अथ वक्ष्ये विशेषेण मण्डपानां तु लक्षणम्
प्रासादस्यैकभूमौ तु प्रोच्यते मुखमण्डपः १
जातिच्छन्दविकल्पानामाभासा नां तथैव च
प्रासादादिमुखे चैव दिशासु विदिशासु वा २
ग्रामादीनां तु मध्ये वा दिशासु विदिशासु वा
उद्याने वा नदीतीरे कटाके वा तथा पुनः ३
देवार्थं मण्डपं कुर्यात् अष्टदिङ्मुखमण्डपम्
प्रासादस्याग्रतः कुर्यात् मण्डपं तु चतुष्टयम् ४
मुखमण्डपमादौ तु प्रतिमामण्डपं ततः
स्नापनार्थं तृतीयं तु नृत्तार्थं च चतुर्थकम् ५
तेषु वै प्रथमं प्राग्वत् द्वितीयादिरथोच्यते
अन्तर्हाराणि चैकानि मध्यहाराणि वा कुरु ६
मण्डपात् मण्डपं तत्र शालायाः मण्डपान्तरम्
अन्तरालमिति ख्यातमादौ तल्लक्षणं शृणु ७
एकद्वित्रिचतुष्पञ्चषट्सप्ताष्टकरं तु वा
नवधर्मकरं वापि रुद्र हस्तमथापि वा ८
अनराळविशालं तु रुद्र सङ्ख्या प्रकीर्तिता
यत्र यन्मण्डपं कुर्यात् तस्मिन् पङ्क्त्या विशेषतः ९
एकद्वित्रिचतुष्पञ्चभक्त्या वाऽप्यन्तराळकम्
सावकाशान्तराळं वा भित्तिमध्यमथापि वा १०
भित्तिमध्यान्तराळं चेत् पार्श्वयोः वेशसंयुतम्
एकद्वित्र्! यग्रपादं वा वेशं भक्त्यैकमेव वा ११
द्वयोर्मध्ये च द्वारं जालकं वा प्रकल्पयेत्
उत्तरे जलधारां च स्नानार्थं परिकल्पयेत् १२
युग्मायुग्मं तु पङ्क्तिर्वाऽभ्यन्तराळं द्विजोत्तम
अधिष्टानादिसर्वाङ्गं मण्डपस्य समं भवेत् १३
अन्तराळं समाख्यातं शृणु मण्डपलक्षणम्
त्रिहस्तं तु समारभ्य द्विद्विहस्तविवर्धनात् १४
एवमेकोनविंशं तु नवधा मण्डपं भवेत्
आभाससदनानां तु आभासं मण्डपं भवेत् १५
एकविंशति हस्तादि द्विद्विहस्तविवर्धनात्
सप्तत्रिंशति हस्तान्तं विकल्पं नवधा भवेत् १६
आभासानां च तद्योग्यं स्वस्वयोग्यमथापि वा
नवत्रिंशतिमारभ्य द्विद्विहस्तविवर्धनात् १७
पञ्चाधिकं तु पञ्चाशत् करान्तं छन्दमुच्यते
सप्तपञ्चाशदारभ्य द्विद्विसप्तविवर्धनात् १८
साग्निसप्ततिहस्तान्तं प्रसृता जातिरुच्यते
तद्विस्तारसमं दीर्घं समाश्रं मण्डपं भवेत् १९
अध्यर्धहस्तमारभ्य षट्षडङ्गुलवर्धनात्
पञ्चहस्तावधिर्यावत् पङ्क्तिव्यासं तु कल्पयेत् २०
अर्धहस्तं समारभ्य यावत् पञ्चकरावधि
गुणाङ्गुलविवृद्ध्या तु पङ्क्तिव्यासं प्रकल्पयेत् २१
सार्धद्विहस्तमारभ्य षडङ्गुलविवर्धनात्
स्तम्भानामुदयं ह्येवं स्तम्भव्यासमथोच्यते २२
वस्वङ्गुलं समारभ्य अर्धाङ्गुलविवर्धनात्
एकोनविंशमात्रान्तं त्रयोविंशाङ्घ्रिविस्तृतम् २३
पादोच्चं भानुरुद्रा शं! दश वै चाष्ट वा भजेत्
मूलाकारं तदेकांशं दन्तधूतूनमग्रकम् २४
तलिपार्धं तलोत्तुङ्गं सामान्यं सर्वमण्डपे
तलिपोच्चे तु भूतांशे द्विभागं च तलोदयम् २५
अङ्घ्रितुङ्गाग्निवेदैकभागं वापि मसूरकम्
उपपीठमधिष्ठानं केवलं वा मसूरकम् २६
धरातलसमं प्रोक्तं द्विगुणं त्रिगुणं तु वा
उपपीठोदयं ख्यातं उपपीठार्थवत्तु वा २७
उपपीठमधिष्ठानं चरणं प्रस्तरं तथा
नीप्रवेशमलङ्कारं गुण्यं प्रागिव विद्यते २८
पङ्क्तित्रयसमायुक्तं षोडशस्तम्भसंयुतम्
कलाल्पनासिकोपेतं मध्ये कूटं तु एव वा २९
मण्डितं वाथ सर्वत्र चतुर्द्वारयुतं तु वा
अष्टदिक् द्वारमेकं वा द्वयं वा जालकोष्टदिक् ३०
बाह्ये सोपानसंयुक्तं चित्रितं तोरणादिभिः
तोरणादिविहीनं वा कल्प्यैवं प्रथमं भवेत् ३१
चतुर्भक्त्या विशालं तु अष्टदिक् द्वारसंयुतम्
पूर्वापरद्विपत्त्येकभक्त्या विस्तारनीप्रकम् ३२
मध्यस्थाङ्घ्रिं परित्यज्य ऊर्ध्वे कूटं द्विभक्तिकम्
वसुपञ्जरसंयुक्तं द्वितीयं मण्डपं भवेत् ३३
पञ्चभक्त्या विशालं तु मध्ये कूटं द्विभागकम्
मण्डपं परितॐशो न द्वात्रिंशत् चरणान्वितम् ३४
भानुद्विगुणसंराष्ट्रं पञ्जराष्टकसंयुतम्
इष्टदिक् द्वारसंयुक्तं द्वारमन्यत्र कुड्यकम् ३५
द्वारस्थाने तु सोपानं सर्वालङ्कारसंयुतम्
कुड्यकुम्भलताद्यैस्तु भूषितं तु तृतीयकम् ३६
चतुरश्रं तु षट्भक्त्या मध्ये कूटं विभागधा
तत्कूटमष्टपादाढ्यं मध्ये रङ्गसमायुतम् ३७
चतुर्द्वारसमायुक्तमिष्टदिक् द्वारमेव वा
द्विभक्त्याऽपि हृतं चैव भक्त्यादि प्रथमायुतम् ३८
अष्टदिक् भद्र संयुक्तं चतुर्दिक् भद्र मेव वा
चत्वारिंशति चाष्टाङ्घ्रि युक्तं वा तत्र चोदितम् ३९
चतुर्विंशाल्पनासाढ्यं कुड्यकुम्भलतान्वितम्
तोरणाष्टकसंयुक्तं तृतीयं मण्डपं त्विदम् ४०
चतुरश्रं तु सप्तांशं षष्ट्यङ्घ्रिकसमायुतम्
नवभागेन तन्मध्ये कूटं वा मण्डिताङ्गणम् ४१
द्वात्रिंशदल्पनासाढ्यं चतुर्दिक् भद्र संयुतम्
त्रिभागैकांशविस्तारनिर्गमं मुखभद्र कम् ४२
मध्यरङ्गसमोपेतं द्विष्टकुड्यसमन्वितम्
सर्वालङ्कारसंयुक्तं पञ्चमं परिकीर्तितम् ४३
युगाश्रमष्टभक्त्या तु अशीतिचरणान्वितम्
चतुर्भागेन तन्मध्ये ऊर्ध्वकूटं प्रकल्पयेत् ४४
चतुर्दिक् द्वारसंयुक्तमिष्टदिक् द्वारमेव वा
मुखसोपानमग्न्यंशैः द्वारं नीप्रसमन्वितम् ४५
मध्यरङ्गसमायुक्तं षडष्टनासिकान्वितम्
सर्वालङ्कारसंयुक्तं सप्तमं मण्डपं भवेत् ४६
चतुरश्रं नवांशं तु षण्णवत्यङ्घ्रिसंयुतम्
मध्ये कूटं त्रिभागं स्यात् चतुर्दिक् द्वारसंयुतम् ४६-२
ङष्टदिक् द्वारमथवा मुखसोपानसंयुतम्
सर्वालङ्कारसम्युक्तं सप्तमं मण्डपं भवेत् ४६-३
चतुरश्रं दशांशं तु भान्वादिकदशाङ्घ्रिकं
मध्ये चैवाष्टदिग्भाग नव कूटसमायुतम् ४७
कूटोपरि नीप्रकांशे अन्तराळं प्रकल्पयेत्
पार्श्वान्मुखेन सोपानं दिशि भद्र समन्वितम् ४८
सर्वालङ्कारसंयुक्तमष्टमं मण्डपं भवेत्
रुद्र भक्त्यायुगाश्रं तु मध्ये द्व्यंशेन कूटकम् ४९
मुखे सोपानसंयुक्तं अष्टदिक् भद्र संयुतम्
द्वारमत्रैव कुड्यांशमिष्टभागावसानकम् ५०
सर्वालङ्कारसंयुक्तं नवमं मण्डपं भवेत्
द्वादशांशे युगाश्रं तु मध्ये द्व्यंशेन कूटकम् ५१
मण्डपस्य तु बाह्ये तु अंशेनालिन्द्र मिष्यते
तद्विंशेन तु विस्तारनिष्क्रान्तः स्यात् चतुर्दशी ५२
साष्टषष्टिसमं पादमाद्यं केतुप्रकल्पयेत्
सर्वालङ्कारसंयुक्तं दशमं मण्डपं भवेत् ५३
तारं त्रयोदशांशेन मध्ये त्र्! यंशेन कूटकम्
इष्टदिक् कुड्यसंयुक्तं चतुर्दिक् भद्र संयुतम् ५४
प्रमुखे नन्दभागेन मुखभद्रं प्रकल्पयेत्
सद्वयं नवतीभक्त्या भक्त्याङ्घ्रि च समन्वितम् ५५
सर्वालङ्कारसंयुक्तं मण्डपं रुद्र सङ्ख्यकम्
त्रिपञ्चपङ्क्तिविस्तारायामं तु चतुरश्रकम् ५६
मध्ये कूटं गुणांशेन श्वेने ऊर्ध्वसमन्वितम्
गुणांशं विस्तृतायाममुखभद्र समन्वितम् ५७
इष्टदिक्कुड्यसंयुक्तमायताङ्घ्रिसमन्वितम्
पञ्चांशं त्रिद्वया तिथ्या द्विशतं चरणायतम् ५८
सर्वालङ्कारसंयुक्तं मण्डपं तु त्रयोदशम्
षोडशांशं युगाश्रं तु मध्ये कूटं द्विभागकम् ५९
द्व्यष्टाशीतिसमायुक्तद्विशतं पादमुच्यते
मुखभद्रं गुणांशेन तदर्धेनेतरे दिशि ६०
सर्वालङ्कारसंयुक्तं मण्डपं स्याच्चतुर्दशम्
एवं हि मनुभेदेन युगाश्रं मण्डपं विदुः ६१
अत ऊर्ध्वं चतुस्त्रिंशदंशं सीमावसानकम्
चतुरश्रो मण्डपः स्यात् सर्वालङ्कारसंयुतः ६२
भित्तिं स्तम्भं च परितः कर्तुरिच्छा वशान्नयेत्
समाश्रमण्डपं ह्येतदायताश्रमथोच्यते ६३
विस्तारं पङ्क्तितुल्येव सायतं वाथ पङ्क्तयः
विस्तारपङ्क्तिमानं तु गुणाङ्गुलविवर्धनात् ६४
सप्तविंशाङ्गुलं यावत् तावदायं नवोदितम्
वर्धाक्षीणं तथा वाथ मण्डपेन करोदितम् ६५
नाश्रयेत्तु करं पूर्वं मण्डपं तु समाचरेत्
अशेषघटसङ्ख्या तु प्राग्वदायाममाचरेत् ६६
भक्तिसङ्ख्यासमोपेतमण्डपस्य तदायतम्
तस्योचितविभागं तु कृत्वा वा मण्डपं कुरु ६७
पङ्क्तित्रयविशालं तु पञ्चपङ्क्तिविशालकम्
एकपार्श्वे वरे वाथ द्वारमंशेन कल्पयेत् ६८
पार्श्वे द्वारयुतं द्वे तु त्रिंशदङ्घ्रि समन्वितम्
तदेव परितॐशेन मण्डपाभ्यन्तरे रसः ६९
लुपादोर्ध्वं हनं कुर्यादष्टाविंशाङ्घ्रि संयुतम्
पुरे पारयुतं चेत्तु चरणं चाष्टविंशतिः ७०
अथवा वारहीनं तु त्रिरष्टचरणान्वितम्
पादं प्रत्यल्पनासाढ्यं वेदिजालकतोरणम् ७१
नानाकुम्भलताद्यैश्च कल्पितं प्रथमं भवेत्
चतुर्भक्तिविशालं तु आयामे तु षडंशकम् ७२
मण्डपं परितॐशेन कूटमभ्यन्तरे भवेत्
द्विभक्तिविस्तृतं चैकभक्त्या तु मुखभद्र कम् ७३
द्वात्रिंशत् चरणोपेतं मण्डपं तु द्वितीयकम्
विशालं पञ्चभक्त्या स्यादायामे सप्तभक्तयः ७४
त्रिपञ्चभक्तिविस्तारदीर्घा मध्ये सभा भवेत्
मण्डपं परितॐशेन इष्टदिक् भद्र संयुतम् ७५
चत्वारिंशत् पादयुतं सर्वालङ्कारसंयुतम्
वेदिकाद्यैस्समायुक्तं तृतीयं मण्डपं भवेत् ७६
रसभक्तिविशालं तु वसुभक्त्यायतं भवेत्
द्विचतुर्भक्तिविस्तारदीर्घं मध्ये महोदयम् ७७
मण्डपं परितोष्टांशमिष्टदीर्घकभद्र कम्
षष्टिसङ्ख्याङ्घ्रिसंयुक्तं चतुर्थं मण्डपं भवेत् ७८
त्रिभक्तिविस्तृतं पञ्चभक्त्यायामसमं करम्
मण्डपे परितोष्टांशे इष्टदिक् भद्र संयुतम् ७९
त्रिभक्तिविस्तृतं चैव भक्त्या तन्मुखभद्र कम्
सप्ताधिकद्वयाधिक्यं पादमित्यभिधीयते ८०
सर्वालङ्कारसंयुक्तं पञ्चमं मण्डपं भवेत्
वसुभक्तिविशालं च दशभक्त्या तथान्वितम् ८१
द्विचतुर्भक्तिविस्तारदीर्घं मध्यममण्डपम्
परितो मण्डपं त्र्! यंशं मध्यस्तम्भविवर्जितम् ८२
इन्द्र दिन्द्र मुखाभद्रा ं! चतुर्द्व्यंशेन सुव्रत
षण्णवत्यङ्घ्रिसंयुक्तं सर्वालङ्कारसंयुतम् ८३
षष्ठमं मण्डपं ह्येवं प्रोच्यते तु शिवार्हकम्
नवभक्तिविशालं च रुद्र भक्त्या तयान्वितम् ८४
एकत्रिभक्तिविस्तारदीर्घं मध्ये सभा भवेत्
परितो देवभागं तु मण्डपं परिकल्पयेत् ८५
त्रिचतुर्भागविस्तारदीर्घं स्यात् मुखभद्र कम्
सर्वालङ्कारसंयुक्तं अष्टमं मण्डपं भवेत् ८६
इष्टदिक् द्वारुरङ्कु स्यात् कल्पयेत् परितो भवेत्
एवं हि मनुभेदं च सायतं मण्डपं विदुः ८७
त्रिचतुष्पञ्चषट्सप्त अङ्कणस्य तदायतं
सर्वेषां मण्डपानां च भित्तिव्यासं तु पञ्चधा ८८
पादायामविशालेन दारुपादेन वा समं
सर्वेषां मुखभद्रा णां करणं मण्डपाकृति ८९
पार्श्वे सोपानसंयुक्तं हस्तिहस्तविभूषितम्
पञ्चषट्सप्ताष्टनवदण्डं वा तस्य विस्तृतम् ९०
सपादं सार्धहस्तं वा हस्तिहस्तोदयान्वितम्
यष्टिनानूर्ध्वकल्पं वा स्वश्रं हस्तिकहस्तिकम् ९१
तन्नीप्रं किपुरेरस्य अग्रं ककुन्ताकृति
मूलादष्टांशरहितमग्रमस्तुक्रमात् कृशम् ९२
हस्तिहस्त्यन्तरं विप्र युग्मं वाऽयुग्मदष्टयः
दण्डं सपाददण्डं वा सार्धं वा द्वित्रिमात्रकम् ९३
द्विदण्डं वाथधीषुश्च विस्तारं स्यात्तदेव हि
तेन द्विगुणनीप्रं तु अभयस्थानमण्डपे ९४
यष्टेरुच्चाग्निभागैकभागं स्यादामलोदयम्
आदौ समतले स्थित्वा सव्यपादपुरस्सरम् ९५
सोपानारोहणं विद्यात् मर्त्यानां तु विधीयते
मण्डपं ह्येवमाख्यातं गोपुरं शृणु सुव्रत ९६
इति काश्यपशिल्पे मण्डपलक्षणं नाम चतुश्चत्वारिंशः पटलः