४२

अथ त्रिचत्वारिंशः पटलः
प्राकारलक्षणम्
अथ वक्ष्ये विशेषेण प्राकाराणां च लक्षणम्
रक्षार्थं शोभनार्थं च शालायाः सदनस्य च १
प्राकारस्य विशालार्थं गुणभागैकमेव वा
चतुर्भागैकभागं वा अन्तर्मण्डलविस्तृतम् २
अन्तर्हारविशालं तु तद्बाह्ये द्विगुणं हि तत्
मध्यहारविशालं तु बाह्यान्तं मण्डलत्रयम् ३
मध्यादेस्तु विशालं तु तद्बाह्ये तु चतुर्गुणम्
महामर्यादाविस्तारं आद्रै रः! पञ्चगुणं भवेत् ४
प्रासादचरणाद्विप्र होमा द्वा प्रथमस्य तु
प्रथमात् द्वितीयनीप्रं तु द्वितीयात्तृतीयनीप्रकम् ५
तृतीयात् चतुर्थं निष्क्रान्तं तस्मात् नीप्रं च पञ्चमम्
प्राकारं प्रतिनिष्क्रान्तं तस्मात् नीप्रं तु पञ्चमं ६
कुड्यमध्यावसानं वा कुड्यबाह्यमथापि वा
अथवा शेषविप्राणां नीप्रं होमाद्विधीयते ७
प्रथमं प्रकृतेस्तुल्यं तस्मात् गुणाङ्गुलं नतम्
द्वितीयाद्यं तु पञ्चान्तं तद्वदेव नतं क्रमात् ८
कल्प्यं वै हर्म्यमानेन हस्तमानमथोच्यते
त्रिपञ्चसप्तहस्तेन प्रथमं त्रिविधं भवेत् ९
नवैकादशहस्तं च त्रयोदशं द्वितीयकम्
त्रिपञ्चसप्तदशहस्तमेकोनविंशतिः १०
मध्यहारं त्रिधा प्रोक्तं मर्यादास्तु ततः शृणु
एकविंशत्रयोविंशपञ्चविंशकरं भवेत् ११
सप्तविंश नवविंश एकत्रिंशत् करेण तु
महामर्यादाविस्तारमेवं त्रिविधमुच्यते १२
एवमाभासहर्म्याणां विकल्पानां च कल्पयेत्
सप्तहस्तं समारभ्य पञ्चत्रिंशावसानकम् १३
प्रत्येकं प्रथमादीनां सालानां त्रित्रिमानकम्
त्रिपञ्चसङ्ख्यया प्रोक्तं हर्म्याणां चन्द्र सङ्ख्यया १४
नवहस्तं समारभ्य हस्तत्रिंशावसानकम्
प्राग्वै सालमाख्यातं हर्म्याणां जातिसञ्ज्ञके १५
प्रागुक्तहर्म्यमानैश्च शालाद्यन्त्यं च सम्मतम्
पञ्चप्राकारमेवं हि त्रिप्राकारमथोच्यते १६
द्वितीयं तृतीयसालं च चतुर्थं च प्रगृह्यताम्
यत्र यद्विहितं सालं हर्म्यवृत्तं तु लक्षयेत् १७
तस्यामुखे मुखायामं कल्पयेत्कल्पवित्तमः
बीजात्पादबीजं त्वर्धं त्रिपादं च समं तु वा १८
द्विगुणं त्रिगुणं वाथ चतुःपञ्चगुणं तु वा
कल्पयेत्तु मुखायामं बीजमूर्ध्वं द्विजोत्तम १९
अन्तर्मण्डलभित्तेस्तु विस्तारोव्योमहस्तकः
तस्मात्त्रिमात्रवृद्ध्या वा षण्मात्रं वाथ वर्धयेत् २०
सार्धहस्तं द्विहस्तं तु महामध्यावसानकम्
भित्तिव्यासं समाख्यातमुत्सेधं शृणु सुव्रत २१
तद्व्यासत्रिचतुष्पञ्चगुणं वा सालतुङ्गकम्
अथवोत्तरसीमान्तं नीप्रान्तं वाजनान्तकम् २२
प्रस्तरेषु गलो वाथ सालतुङ्गमुदाहृतम्
ऋजुबीजतलोपेतं बाह्ये त्वभ्यन्तरार्जवम् २३
कुड्यमूलस्य विस्तारवस्वंशो नाग्रविस्तरम्
मूलादाग्रं क्रमात् क्षीणं वस्वंशांशे द्विजोत्तम २४
अथवा हस्तमानेन सालोत्सेधं वदाम्यहम्
प्रथमं कलशान्तं तु द्वितीयं फलकान्वितं २५
बोध्यन्तं स्यात्तृतीयं तु चतुर्थं मञ्चकान्तकम्
पञ्चमं तु कपोतान्तं पञ्चसालोदयं क्रमात् २६
एतद्धि पञ्चसालेषु तेषामुक्तो ह्ययं विधिः
आवृतं मालिका वा स्यात् सहकारमथापि वा २७
मण्डपाकृतिकं वाथ ऋजुमध्यमथापि वा
भूतवेदगुणं पक्षव्योमभूममथोच्यते २८
कुड्यस्योपरि कुड्यं स्यात्पादं पादोपरि न्यसेत्
तलं प्रतितलं कुर्यात्पादं प्रत्यल्पनासिका २९
वक्ष्येऽहं पादमानं च पङ्क्तिमानं द्विजोत्तम
मूलहर्म्ये तु होमादि उत्तरान्तं यदुन्नतम् ३०
तन्मानं सप्तधाभज्य पक्षांशं तु धरातलम्
पञ्चांशं पाददीर्घं तु पादं सव्याङ्गसंयुतम् ३१
धरातलं तदुक्तं वा ह्युर्जमं वा प्रकल्पयेत्
मूलहर्म्ये तु होमादि उत्तरांशं नवांशके ३२
धरातलं द्विभागं स्यात्सप्तांशं चरणोदयम्
उत्तरान्तं तु होमादि रुद्र भागविभाजिते ३३
अधिष्ठानं गुणांशं स्यात् शेषं पादोदयं भवेत्
मूलप्रासादतुल्यं वा चरणं च धरातलम् ३४
पादोत्सेधांशमानं तु षट्सप्ताष्टौ तु वा भजेत्
एकांशं पादविष्कम्भं दारुवाऽश्ममयं तु वा ३५
तत्त्रिभागं द्विभागं वा त्रिपादं वार्ध एव वा
कुड्यपादस्य विस्तारं सर्वत्र परिकल्पयेत् ३६
त्रिचतुष्पञ्चहस्तं वा परितो मालिकाकृति
हस्तद्वयं समारभ्य पञ्चहस्तावसानकम् ३७
गुणाङ्गुलप्रवृद्ध्या च पङ्क्त्यायां पञ्चविंशतिः
भेदेन कथितं विप्र सर्वत्र समपङ्क्तयः ३८
युग्मायुग्माथवा पङ्क्तिः सर्वत्र परिकल्पयेत्
मूलभागविशालं तु धर्मनन्दाष्टभाजिते ३९
एकांश रहिताग्रं स्यात् मूलादाग्रं क्रमात् कृशम्
अग्रपादं विशालं तु दण्ड इत्यभिधीयते ४०
दण्डं त्रिपादमर्धं च क्रमात् श्रेष्ठान्तराधमम्
उत्तरोत्सेधमाख्यातं विस्तारं मूलपादवत् ४१
मध्यपादसमं वाथ अग्रपादसमं तु वा
उत्तरव्यासमाख्यातं श्रेष्ठान्तराधमं क्रमात् ४२
उत्तरोच्च त्रिभागैकं वाजनोत्सेधनीप्रकम्
उत्तरोत्सेधतुल्यं तु तुलानीप्रमुदाहृतम् ४३
तदर्धं वा त्रिपादं वा तस्य विस्तारमेव हि
वाजने गुल्मकोर्ध्वे वा तुलास्थापनमाचरेत् ४४
तुलार्धं नीप्रविस्तारं जयन्तस्य तुलोपरि
जयन्तार्धविशालोच्चमनुमार्गमुदाहृतम् ४५
तुलान्तरं तुलोच्चं तु जयन्त्याश्च तदन्तरम्
अनुमार्गं तथा कल्प्यं दण्डमानेष्टकान्तरम् ४६
कपोतादीनि नीप्रान्तं प्रस्तरोक्तवदाचरेत्
अथवा तुलोपरिष्टात्तु इष्टकास्तरणं कुरु ४७
सुधया गुडतो यैश्च इष्टकास्तरणं भवेत्
कराळमुद्गगुल्माषकल्कचिक्कणमाचरेत् ४८
इष्टकास्तरणं ह्येतच्छिला चेन्दुतलोपरि
शैलजोत्पलकाभिश्च छादयेत्तु विशेषतः ४९
वाजनोर्ध्वे तु वासाद्य सुधाकर्मसमाचरेत्
एवमादितलं प्रोक्तमूर्ध्वभूमिं वदाम्यहम् ५०
मूलाग्रस्तम्भतुङ्गं तु मन्दमूलाष्टभाजिते
एकांशरहिताङ्घ्रिश्च तथैवोर्ध्वोर्ध्वभूमयः ५१
प्रस्तरं च तथार्धावमेकानेकतलोपि च
प्रसरोपरि कर्तव्यं भित्तिमेव पदोदयम् ५२
छत्राकारशिरोपेतं सदाकारमथापि वा
गोपानमथवा वाजं सदा कल्प्यान्तरे द्विज ५३
मृण्मयैः लोष्ठकैर्वाथ सारदारुमयैस्तथा
गोपानछादनं कुर्यात् लुपात्रियाशिरोन्वितम् ५४
सभाकारमिदं ख्यातं यथेष्टं तेषु कल्पयेत्
जातिः पञ्चतलं ख्यातं छन्दं वेदतलं भवेत् ५५
विकल्पं त्रितलं विद्यात् आभासं त्वेव भूमिकम्
जात्यादीनां तु हर्म्याणां योग्यं सालतलं कुरु ५६
मर्यादासालमाश्रित्य पावके पचनालयम् ५७
नैरृत्यामायुधस्थानं वायव्येशयनार्हकम्
शाङ्करे योगशाला स्यात् भृशभागेऽथवा पुनः ५८
आग्नेययाम्ययोर्मध्ये कर्तव्यं जननालयम्
शक्रशाङ्करयोर्मध्ये मज्जनालयमेव च ५९
धान्यस्थानं च तत्पार्श्वे भृङ्गराजपदेऽपि वा
निरृतिवरुणयोर्मध्ये पुस्तकारक्षकालयम् ६०
तत्पार्श्वयोः प्रकर्तव्यं वृञ्जनालयमुत्तमम्
होमवायव्ययोर्मध्ये वस्त्राणामालयं कुरु ६१
सोमशङ्करयोर्मध्ये गौर्यावासं प्रकल्पयेत्
तत्पार्श्वे शयनस्थानं पर्यङ्केन समन्वितम् ६२
पुष्पदन्तपदे वाथ माहेन्द्रे पुष्पमण्डपम्
गृहक्षतपदे कुर्यात् धान्यालयं द्विजोत्तम ६३
परितो मालिकायां च एवमेव प्रकल्पयेत्
मालिकान्ते तु सोमांशे कूपस्थानमुदाहृतम् ६४
अथवाऽन्यप्रकारेण वक्ष्ये सन्देशनिर्णयम्
शक्रशाङ्करयोर्मध्ये विद्यास्थानमुदाहृतम् ६५
शङ्काश्रीदयोर्मध्ये धनस्थानमुदाहृतम्
याम्यपादकयोर्मध्ये पुष्पमण्डपमुच्यते ६६
याम्यनैरृतयोर्मध्ये स्नानाम्बुकोष्ठमुच्यते
निरृतिवारुणयोर्मध्ये धर्मश्रवणमण्डपम् ६७
वायुवारुणयोर्मध्ये आयुधस्थानमुच्यते
वायव्यसौम्ययोर्मध्ये शयनस्थानमुच्यते ६८
ईशानसौम्ययोर्मध्ये यागार्थं मण्डपं कुरु
जयन्ते मज्जनागारमाग्नेये पचनालयम् ६९
परितो मालिकायां तु सकलस्थानमुच्यते
शाङ्करे नृत्तमूर्तिस्तु आग्नेय्यां वृषवाहनम् ७०
उमास्कन्दं च सहितं नैरृते परिकल्पयेत्
कङ्काळं वायुदिग्भागे भिक्षाटनं जयन्तके ७१
सुखासनं तु सत्यांशे वितथे त्रिपुरान्तकम्
सुग्रीवे हरिऋद्धं स्यात् गन्धर्वे चन्द्र शेखरम् ७२
शेषांशे कामदहनं मुख्ये कालारिमूर्तिकम्
उदितेर्धनारिमूर्तिं महेन्द्रे कल्याणसुन्दरम् ७३
क्षेत्रपालं तु पर्जन्ये याम्ये वै दक्षिणेश्वरम्
वारुणे लिङ्गोद्भवं च सौम्ये तु गजहारिणम् ७४
इत्यर्थधर्म ईशांश्च अन्तराळेषु कल्पयेत्
मूलहर्म्यं समीक्ष्यैव सकलस्थापनं कुरु ७५
प्राकारेषु चतुर्दिक्षु द्वारशोभादिकल्पयेत्
प्राकारततमध्ये तु दीर्घमध्येतिवेचनम् ७६
अथवा मूलहर्म्यस्य मध्यसूत्राश्रितं भवेत्
प्रधानद्वारमेकं वा द्वयं वाऽन्यत्तु जालकम् ७७
प्राकारमेवमाख्यातं बाह्ये विधिर्विधीयके
एकद्वित्रिचतुष्पञ्चदण्डं बाह्ये तु विस्तृतम् ७८
तद्बाह्ये तु त्रयः श्रेणीः अनेन विधिना कुरु
शैवानां परिवाराणां प्राच्यामावासमुच्यते ७९
प्राच्यां वा सौम्यदेशे वा देशिकावासमुच्यते
दैवज्ञाम्बष्ठभिषजां वासस्थानं च याम्यके ८०
निबन्धाहारजावानां पश्मिमे वासमुच्यते
सर्वेषामपि भक्तानां वासमुत्तरपार्श्वके ८१
अग्नौ महाव्रतस्थानं याम्ये पाशुपतालयम्
कालामुखं तु नैरृत्ये चोर्ध्वालयं तु वारुणे ८२
वायौ तु आर्हतस्थानं सौम्ये भूसुरसत्रकम्
ज्ञानाभ्यासादयः कुर्याद्वैश्यानां तु विशेषतः ८३
तद्बाह्ये त्वीशदिग्भागे कार्यं महाजलाशयम्
याम्यपावकयोर्मध्ये गोशालां सम्प्रकल्पयेत् ८४
वारुणी नैरृती मध्ये सूतिकावासमुच्यते
वरुणानिलयोर्मध्ये रोगार्तानां निवासकम् ८५
सौम्यवायव्ययोर्मध्ये बालशिक्षार्थमण्डपम्
सौम्यशाङ्करयोर्मध्ये धान्यमञ्जलिका भवेत् ८६
तद्बाह्ये वलिते विप्र दासीनां गणिकादिनाम्
नृत्तगेयाभ्यासिनां च क्रयविक्रयजीविनाम् ८७
चक्रिणां वापकानां च कुलालानां तथैव च
मत्स्यमांसोपजीवानां नृत्तकारकयोषितां ८८
विशेषात् शूद्र कानां च गोपालानां च कारुणाम्
करणानां गृहश्रेणी चापस्थानपरिग्रहम् ८९
परितः कल्पयेत् धीमान् पूर्वादीशावसानकं
तद्बाह्ये त्वीशदिग्भागे श्मशानं परिकल्पयेत् ९०
दक्षिणे चोत्तरे वापि स्थपत्यादिनिवासकम्
तेषां बाह्ये तु कर्तव्यं रजकानां निवासकम् ९१
तद्बाह्ये क्रोशमात्रे तु चण्डालश्रेणिरुच्यते
प्राकारलक्षणं ह्येवं प्रोच्यते द्विजसत्तम ९२
इति काश्यपशिल्पे प्राकारलक्षणं नाम त्रिचत्वारिंशः पटलः