४१

अथ द्विचत्वारिंशः पटलः
मूर्धेष्टकाविधानम्
अथ वक्ष्ये विशेषेण मूर्धेष्टकाविधिं परम्
शिखरस्योदयार्धान्ते महानास्यवसानके १
शक्तिध्वजावसाने वा मूर्धेष्टकां च विन्यसेत्
यावत् यदा समाप्तं तु तदामूर्धेष्टकां न्यसेत् २
एकाद्यनेकभूम्यन्तहर्म्याणां तु विशेषतः
इष्टका व्यासमायामं घनं चाद्येष्टकामिव ३
प्रासादस्याग्रतो देशे सौम्ये वायौ च गोपुरे
नवाष्टसप्तषट्पञ्चहस्तं वा मण्डपं ततम् ४
तद्विस्तारसमायामं चतुरश्रं समं कुरु
मण्डपं वा प्रपा वाथ षोडशस्तम्भसंयुतम् ५
चतुर्द्वारसमायुक्तं चतुस्तोरणसंयुतम्
षडष्टनवसङ्ख्याकवितानध्वजसंयुतम् ६
मुक्तास्रग्दर्भमालाभिरलङ्कृत्य विशेषतः
मण्डपस्य त्रिभागैकां मध्ये कृत्वा तु वेदिकाम् ७
वेदाङ्गुलोन्नतां देशमुपवेदियुगत्रयम्
शेषं वेदिविशालं तु भानुमात्रं तदुन्नतम् ८
भानुद्वयाङ्गुलोच्चं वा दर्पणोदरसन्निभम्
इह चाग्निकुण्डानि चतुरश्राणि कल्पयेत् ९
अथवा वालुकैः स्थूलैः वेदिकां कल्पयेत् बुधः
स्थण्डिलं कारणैर्दद्यादष्टद्रो णैश्च शालिभिः १०
तदर्धैस्तण्डुलैस्तुभ्यं तदर्धैश्च तिलैरपि
लाजैश्चैव परिस्तीर्य श्वेताब्जं परिकल्पयेत् ११
नानापुष्पैः कुशैर्दर्भैः परिस्तीर्य विचक्षणः
मनोन्मनीं कर्णकायां दळेषु व्योमादिशक्तयः १२
गन्धपुष्पादिभिः यष्ट्वा सस्यमात्रैर्विशेषतः
लोहजं दारुजं वाथ स्तूपिदण्डं च कारयेत् १३
आसनं खादिरं वाथ तिन्तिणी सारमेव वा
मयूरं पद्मकण्डूरं भवेत्तद्दारुवत्ततं १४
हेममुदितं ताम्रं वा त्रयसम्मिश्रमेव वा
ऊर्ध्वभूम्यग्नितुङ्गं तु स्तूपिदण्डायतं भवेत् १५
मूर्धशिलोपरिष्टात्तु स्तूप्यन्तं वा तदायतम्
ऊर्ध्वभूमेश्च विस्तारं स्तूपिमूलविशालकम् १६
तस्याग्रमङ्गुलव्यासं मूलात् दारुक्रमात् कृशम्
तुङ्गाणात्समंशं तु मूलेवेदाश्रमाचरेत् १७
वंशमध्यसमं त्वग्रे वृत्ताकारं प्रकल्पयेत्
चतुरश्रोपरिष्टात्तु सर्वं वृत्तमथापि वा १८
कर्तव्यं तस्य मूले तु शिखां चाप्यथ योजयेत्
दण्डमूलसमव्यासं दण्डं दण्डाग्रयोरपि १९
एवमाकारयुक्तं तु योजयेल्लोहजं बुधः
प्रक्षाळ्य पञ्चगव्यैस्तु दण्डं चैवेष्टका अपि २०
कर्णकायां न्यसेत् दण्डं क्रमादेव महादिशि
चतस्रस्त्विष्टकाः स्थाप्याः शिला विष्टम्भकैर्जलैः २१
पृथिव्यादिपरीजानि दण्डं तु विलिखेत् बुधः
प्रागादिदिक्क्रमात् दर्भगन्धपुष्पादिभिर्यजेत् २२
सौवर्णैः राजतैस्ताम्रैः सूत्रैः कार्पासतैस्तु वा
कौतुकं बन्धयेद्विप्रः स्वस्वबीजमनुस्मरन् २३
ब्रह्माणं विष्णुं रुद्रं च ईश्वरं च सदाशिवम्
इष्टकासु च दण्डे च अधिदेवान्क्रमात् न्यसेत् २४
नैवेद्यं दापयेदेषां ताम्बूलं च निवेदयेत्
प्रत्येकं नववस्त्रेणाच्छादयेत्कूर्चसंयुतम् २५
अभितः कलशानष्टौ सकूर्चान्सापिधानकान्
गन्धाम्बुपूरितान्वस्त्रहेमपुष्पसमन्वितान् २६
फलपल्लवसंयुक्तान् अष्टौ विश्वेश्वराधिपान्
संस्थाप्य स्वस्वमन्त्रेण नैवेद्यान्तं समर्चयेत् २७
ततो होमः प्रकर्तव्यः अग्न्याधानादिपूर्वकम्
समिदाज्य चरून्लाजान्सद्यादिभिर्हुनेत् बुधः २८
शतं वाथ शतार्धं वा प्रत्येकं जुहुयात् क्रमात्
परब्रह्मषडङ्गैश्च क्षुरिकाबीजमुख्यकैः २९
आज्येन जुहुयत् धीमान्प्रत्येकं पञ्चविंशतिम्
जयाद्यैरभ्यातानैश्च राष्ट्रभृद्भिश्च होमयेत् ३०
ब्रह्मादिबीजमन्त्रैस्तु हुत्वाऽऽज्यैश्च तथाहुतीः
कृत्वा जागरणं रात्रौ प्रभाते विमले शुभे ३१
आचार्यः शिल्पिभिस्सार्धं स्नानं कृत्वा विधानतः
नववस्त्रोष्णीषधरः भस्मरुद्रा क्षधारकः ३२
नवयज्ञोपरीताढ्यः सितमाल्यानुलेपतः
हेमाङ्गुलीयकटककुण्डलाद्यैरलङ्कृतः ३३
यज्ञसूत्रादिसंयुक्तं भूषणैर्भूष्य शिल्पितम्
आचार्या मण्डपं गत्वा दण्डेनापीष्टकाश्च ताः ३४
गन्धपुष्पादिभिः पूज्य होमं कृत्वा जयादिभिः
स्विष्टमग्नेतिमन्त्रेण पूर्णाहुतिं समाचरेत् ३५
स्थिरराश्युदये वाप्युभयराश्युदयेऽपि वा
मीने वा शुक्रसंयुक्ते तथादृष्टेथवा पुनः ३६
आचार्यः शिल्पिभिश्चैव नेह्यन्तौ नुग्रहोपरि
पुण्याहवाचनं कृत्वा मूर्धेष्टका निधापयेत् ३७
इष्टकाः स्तूपिकल्प्याश्च बाह्यधामप्रदक्षिणम्
नानालङ्कारसंयुक्ताः कृत्वा हर्म्येनुलेपयेत् ३८
उत्तराभिमुखो भूत्वा आचार्योऽनन्यचेतसा
ब्रह्माणं विष्णुं रुद्रं च ईश्वरं च सदाशिवम् ३९
विचिन्त्य स्वस्वमन्त्रैस्तु चतस्रस्त्विष्टका न्यसेत्
पृथिव्यात्मकं क्रमं तु सौम्याग्रं शाङ्करेषु च ४०
सुषे स्थाने मयाश्रित्य प्रागग्रं त्वम्भसात्मकम्
सुषे नैरृत्यमाश्रित्य सौम्याग्रं सलिलात्मकम् ४१
सुषे वायव्यमाश्रित्य प्रागग्रं मरुतात्मकम्
क्रमात् न्यस्येष्टकास्त्वेवं सुनिच्छिद्रं समाचरेत् ४२
माणिक्यं चमरतकं वैडूर्यं त्विन्द्र नीलकम्
मौक्तिकं स्फाटिकं चैव पद्मरागं प्रवाळकम् ४३
वज्रं मध्ये च संस्थाप्य शक्तिबीजमनुस्मरन्
तदूर्ध्वे स्थापयेत्स्तूपिदण्डमीशानमन्त्रतः ४४
कलशस्थोदकैः प्रोक्ष्य दण्डं चाप्यश्मपञ्चकम्
तत्तन्मूर्तीः समभ्यर्च्य गन्धैः पुष्पैश्च धूपकैः ४५
गलाम्भसा च सुदृढं स्थापयेद्वास्तुनिश्चलम्
ततोपशिष्टं शिखरं कर्तव्यं चोदितं मया ४६
शिखरोपरिस्तूपिं च प्रागुक्तविधिना कुरु
करालमुद्गीमुख्यैस्तत्कुर्यात्तु निश्चलं दृढम् ४७
स्वर्णैर्वा रजतैर्वाथ ताम्रैर्वाच्छादयेत् गृहम्
कृतार्थे गां च भूमिं च आचार्याय प्रदापयेत् ४८
दक्षिणां दापयेत्तस्मै दशनिष्कं हिरण्मयम्
यागोपकरणं सर्वमाचार्याय च दापयेत् ४९
शिल्पिनः पूजयेत्पश्चात् गोभूमिकाञ्चनादिभिः
एवं यः कुरुते मर्त्यः स याति शुभदं फलम् ५०
इति काश्यपशिल्पे मूर्धेष्टकाविधानं नाम द्विचत्वारिंशः पटलः