४०

अथैकचत्वारिंशः पटलः
षोडशभूमिविधिः
अथ षोडशभूमिस्तु वक्ष्यते देशिकोत्तम
एवं क्रमेण सङ्कल्प्य पञ्चालिन्द्र समन्वितम् १
पञ्चहारसमायुक्तं गृहपिण्डे समानकम्
गर्भगेहं समांशं च वेदांशं गृहपिण्डिका २
शेषं पूर्ववदुद्दिष्टमळिन्द्रा दि द्विजोत्तम
एकद्वित्रिचतुष्पञ्चभूमौ वाथ धरातले ३
देवतास्थापनं कुर्यात् षोडशस्थलहर्म्यके
देवतास्थापने भूमिर्यावत् तावत् घनं कुरु ४
बाह्यान्द्र चिदलङ्कारं घनमत्यन्तरं कुरु
अलिन्द्र जलतत्वादाच्छादितं वा तुलादिभिः ५
प्रस्तरान्तर्घनं वाथ भ्रान्तं वा स्यात्तु तद्घनम्
व्यासे सवेदत्रिंशांशे कर्णकूटं शिवांशकम् ६
हर्म्यमध्ये तु वेदांशं शालायाममुदाहृतम्
तयोर्मध्ये तु पक्षांशे कोष्ठं तु परिकल्पयेत् ७
तयोर्मध्ये शिवांशेन पञ्जरं कर्णकूटवत्
हारान्तरं तयोर्मध्ये अर्धांशेनैव कल्पयेत् ८
एवं हि कल्पयेदादिभूमौ शालाष्टविंशतिः
कर्णकूटं तु वेदासु द्वात्रिंशत् पञ्जरं भवेत् ९
सवेदषष्टिसङ्ख्याः स्युः हारान्तरं द्विजोत्तम
एवमादितलं ख्यातं तद्धि द्वात्रिंशदंशके १०
द्विभागं मध्यशाला स्यात् शेषं पूर्ववदाचरेत्
द्वितीयं ह्येवमाख्यातं तृतीयमधुनोच्यते ११
त्रिंशदंशविभागं च कृत्वा मानं त्रिभूमिकम्
कर्णकूटस्य पार्श्वस्थं पञ्जरं त्र्! यर्धभागकम् १२
हारान्तरं तदर्धं स्यात् शेषं द्वितीयभूमिवत्
चतुर्भूमिविशालं तु अष्टाविंशतिभागकम् १३
कर्णकूटसमीपस्थशालायाश्च द्विपार्श्वयोः
एकांशं पञ्जरव्यासं शेषं प्रागिव कल्पितम् १४
पञ्चमे तलविस्तारे षाड्विंशत्यंशभाजिते
मध्ये शाला तु वेदांशं व्योमांशं कर्णकूटकम् १५
तयोर्मध्यस्थशाला च तयोर्मध्ये च कोष्ठकम्
प्रत्येकं च द्विभागेन कल्पयेत्कल्पवित्तमः १६
तयोर्मध्येऽर्धभागेन पञ्जरं कर्णकूटकम्
हारान्तरं तदर्धेन तेषां सङ्ख्यादिभूमिवत् १७
षष्ठभूमेस्तु विस्तारे चतुर्विंशति भाजिते
मध्ये कोष्ठं द्विभागेन शेषं पूर्ववदेव हि १८
सप्तभूमेस्तु विस्तारं द्वाविंशत्यंशकं भवेत्
शिवांशं कर्णकूटं तु मध्यशालाद्विभागकम् १९
तयोर्मध्ये शिवांशेन क्षुद्र कूटं प्रकल्पयेत्
तयोर्मध्ये द्विभागेन कोष्ठायाममुदाहृतम् २०
अर्धांशं पञ्जरव्यासं तदर्धं हारमन्तरम्
पञ्जरकूटकोष्ठानां सङ्ख्या वै प्रागिवैव तु २१
अष्टभूमेस्तु विस्तारे विंशदंशविभाजिते
व्योमांशं कर्णकूटं स्यात् मध्ये कोष्ठं द्विभागकम् २२
तयोर्मध्ये द्विभागेन कोष्ठायाममुदाहृतम्
अर्धांशं पञ्जरव्यासं तदर्धं हारमन्तरं २३
तयोर्मध्ये शिवांशेन क्षुद्र कोष्ठं प्रकल्पयेत्
पञ्जरकूटकोष्ठानां सङ्ख्या स्यात् प्रागिवैव तु २४
शेषं प्रागिव कर्तव्यं तेषां सङ्ख्यादिपूर्ववत्
नवभूमिविशाले तु त्रिष्षडंशविभाजिते २५
शिवांशं कर्णकूटं स्यात् मध्येशाला द्विभागकम्
तयोर्मध्येऽर्धभागेन पञ्जरं परिकल्पयेत् २६
तस्यार्धेनैव तत्पार्श्वे तयोर्हारान्तरं भवेत्
तत्पार्श्वयोर्द्विभागं तु कोष्ठं कुर्याद्विशेषतः २७
कूटकोष्ठान्तरे चैव कोष्ठयोरन्तरेऽपि च
पञ्जरं कल्पयेत् धीमान् अर्धांशेनैव सुव्रत २८
हारान्तरं तदर्धांशं कल्पयेत्कल्पवित्तमः
विंशत् कोष्ठं चतुष्कूटं पञ्जरं भानुभिर्युतम् २९
कल्प्यं च नवभूमौ तु दशभूमिरथोच्यते
दशभूमेस्तु विस्तारे षोडशांशविभाजिते ३०
कर्णकूटं शिवांशं स्यात्तत्समं पञ्जरं ततम्
शालायामं द्विभागं स्यादर्धांशं हारमन्तरम् ३१
भानुशाला चतुष्कूटं कलापञ्जरसंयुतम्
हारान्तरं तु द्वात्रिंशत् कल्पयेद्दशमे तले ३२
एकादशतलव्यासे मनुभागविभाजिते
शिवांशं कर्णकूटं तु मध्येशाला द्विभागकम् ३३
तयोर्मध्यस्थशालानां गुणांशं परिकल्पयेत्
अर्धांशं पञ्जरव्यासं तदर्धं हारमन्तरम् ३४
चतुष्कूटमर्कशालं पञ्जरैष्षोडशैर्युतम्
हारान्तरं च द्वात्रिंशत् कल्प्यं रुद्र तलेऽपि च ३५
भानुभूमिविशाले तु भानुभागविभाजिते
पञ्जरकूटकोष्ठानां सङ्ख्या रुद्र तलोक्तवत् ३६
सर्वेषामपि कोष्ठानां पक्षांशं प्रविधीयते
त्रयोदशतलव्यासं दशभागविभाजितम् ३७
कर्णकूटं शिवांशं तु मध्यशाला द्विभागकम्
तयोर्मध्येऽर्धभागेन पञ्जरं कर्णकूटवत् ३८
हारान्तरं च तस्यार्धं सङ्ख्या द्वादशभूमिवत्
चतुर्दशतलव्यासे वसुभागविभाजिते ३९
शिवांशं कर्णकूटं स्यान्मध्ये शाला द्विभागकम्
अर्धांशं पञ्जरव्यासं तदर्धं हारमन्तरम् ४०
चतुष्कूटं चतुश्शालं पञ्जरषोडशान्वितम्
हारान्तरं चतुर्विंशत् कल्प्यं मनुतलं भवेत् ४१
त्रिःपञ्चभूमिविस्तारं षट्भागं विभजेत् समम्
कर्णकूटं तु व्योमांशं मध्यशाला द्विभागकम् ४२
हारान्तरं तु शश्यंशं युग्मपञ्जरसंयुतम्
अशेषोर्ध्वतलव्यासे वेदभागविभाजिते ४३
द्विभागविस्तृतं दण्डमानं नीप्रं तु मध्यमे
कृत्वा प्रासादतुङ्गं तु द्विशतं तु विभागकम् ४४
धरातलं तु सप्तांशं चरणं च त्रयोदशम्
सार्धपञ्च तु मञ्चोच्चं पादोच्चं भानुसङ्ख्यकम् ४५
प्रस्तरोच्चं तु षट्भागं रुद्रा शं! चरणोदयम्
सार्धभूतांशं मञ्चं स्यात् दशांशं चरणोदयम् ४६
भूतांशं मञ्चमानं तु नवांशं चरणोदयम्
सार्धवेदांशं मञ्चोच्चं कल्पयेत् कल्पवित्तमः ४७
पादोच्चं सार्धवस्वंशं मञ्चमानं युगांशकम्
वस्वंशं चरणोच्चं तु मञ्चमानं युगांशकम् ४८
चरणं सार्धसप्तांशं प्रस्तरं सार्धवह्निकम्
सप्तांशं पाददीर्घं तु सपादाग्न्यंशं मञ्चकम् ४९
अर्धाधिकं षडंशं तु पादोच्चाग्निस्तु मञ्चकम्
षडंशं पादमानं तु पादो नाग्न्यंशं मञ्चकम् ५०
अर्धाधिकं तु भूतांशं पाददैर्घ्यमुदाहृतम्
अर्धाधिकं द्विभागं तु प्रस्तरस्योदयं भवेत् ५१
सपादपञ्चभागं तु पाददीर्घमुदाहृतम्
सार्धपक्षांशं मञ्चोच्चं भूतांशं चरणोदयम् ५२
सपादपक्षभागं तु मञ्चमानमुदीरितम्
पादोनपञ्चभागं तु चरणोदयमीरितम् ५३
मञ्चमानं द्विभागं स्यात्सार्धं वेदांशमङ्घ्रिकम्
सत्रिपादशिवांशं तु प्रस्तरस्य समुच्छ्रयम् ५४
शश्यंशं वेदिकामानं कण्ठोच्चं तु द्विभागकम्
अर्धाधिकयुगांशं तु शिखरोदयमीरितम् ५५
सपादांशं शिखामानं कल्पयेत्तु क्रमेण च
होमादिस्तूपिपर्यन्तं युगाश्रं परिकल्पयेत् ५६
शिखरं तु चतुर्दिक्षु महानासी समन्वितम्
पादं प्रत्यल्पनासाढ्यं ब्रह्मकान्तमुदाहृतम् ५७
तदेव सोन्नतं मञ्चं सौष्टिकोन्नतकोष्ठकम्
सारस्वतमिति ख्यातं शिवप्रियकरं गृहम् ५८
तदेव नतकूटं च कोष्ठोन्नतं समञ्चकम्
प्रादेशमिति विख्यातं सर्वसमृद्धिकारणम् ५९
तदेव शिखरं कण्ठवस्वश्रं परिकल्पयेत्
शिखरेऽष्टमहानासी युक्तं तत् श्रीकरं भवेत् ६०
तदेव मध्यभद्रा ढ्यं कूटकोष्ठौ समान्नतौ
समञ्चावाऽप्यमञ्चा वा कूटशाला द्विजोत्तम ६१
पार्वती कान्तमाख्यातं मम प्रीतिकरं भवेत्
तदेव शिखरं कण्ठं वृत्तमष्टाश्रवेदिकम् ६२
वेदिका चैव वृत्ता वा वृत्ताकारघटापि वा
सुशाम्भवमिदं ख्यातं शङ्करस्य प्रियावहम् ६३
पञ्जरं कूटं कोष्ठं च शिखरं च घटं तथा
एवमादीनि सर्वाणि नागराद्युचितं कुरु ६४
अनेनैवाथवा कुर्यात् एकानेकादिभूमयः
यत्नलम्भेषु कर्तव्यं तलं तस्यादिपञ्चकम् ६५
तत्तलस्योचितव्यासं तुङ्गकुड्यं च गर्भकम्
कर्तव्यं विधिना तेन गण्डालङ्कारसंयुतम् ६६
सालिन्द्रं सदनार्थं तु सोपानं रोहणाय वै
तत्र तत्रोचितं कुर्यात् शालाभिष्वेकताद्रुमे ६७
तस्याग्रे मण्डपं कुर्यात् एकानेकतलं तु वा
प्रागुक्तविधिना कुर्यात् सर्वालङ्कारसंयुतम् ६८
करालमुद्गीकुल्माषकल्कचिक्कणकर्मकृत्
नानाचित्रैर्विचित्रं तु कर्तव्यं विधिनोचितम् ६९
एवं यः कुरुते हर्म्यं स्वशक्त्या प्रोक्तवत्तु वा
इहैव धनवान् श्रीमान् पुत्रपौत्रकळत्रकैः ७०
दासीदासादिभिश्चान्यैः स्वेच्छावंशो मुदायुतः
सोनककुलजातं च पावयेत् तुमुदा चना ७१
इति काश्यपशिल्पे षोडशभूमिविधानं नाम एकचत्वारिंशः पटलः