३९

अथ चत्वारिंशः पटलः
त्रयोदशभूविधिः
अथ वक्ष्ये विशेषेण त्रयोदश तलं परं
तस्य विस्तारमानं तु प्रासादमानवत् भवेत् १
एकोनविंशदंशं तु कर्तव्यं सदनं ततम्
गुणांशं गर्भगेहं तु पक्षांशं गृहपिण्डिका २
अलिन्द्रं च शिवांशं स्यात् भित्तिः स्यादुन्नतं समम्
अलिन्द्रं त्वेकभागेन भित्तिव्यासं शिवांशकम् ३
व्योमभागमलिन्द्रं स्यात् धराव्यासं च तत्समम्
विन्याससूत्रयोरन्तरेकोनविंशदंशके ४
शिवांशं कर्णकूटं स्यान्मध्ये शालाऽग्निभागकम्
पक्षशाला च तत्तुल्यमेकांशं पञ्जरस्य तु ५
हारान्तरमथार्धांशं क्षुद्र पञ्जरसंयुतम्
पञ्जरं कर्णकूटाभं तदाभं क्षुद्र पञ्जरम् ६
एवमादितलं प्रोक्तमूर्ध्वं भानुतलोक्तवत्
चत्वारिंशत् द्वयाधिक्ये शतांशे सदनोदये ७
पञ्चांशं तदधिष्ठानं दशांशं चरणोदयम्
भूतांशं मञ्चमानं स्यात् शेषं द्वादशभूमिवत् ८
त्रयोदशतलं ह्येवं कलाभूमिमथोपरि ९
इति काश्यपशिल्पे त्रयोदशभूमिविधानं नाम चत्वारिंशः पटलः