अथैकोनचत्वारिंशः पटलः
भानुभूमिविधिः
अथ वक्ष्ये विशेषेण भानुभूमिविधिं परम्
हर्म्यविस्तारं तुङ्गं च प्रोक्तं प्रासादमानवत् १
ससप्तधर्मभागं तु कृत्वा प्रासादविस्तरम्
तदेव सौष्टिकानां तु शीर्षकं कुण्डलाकृति २
भूतांशं गर्भगेहं तु पक्षांशं गृहपिण्डिका
अलिन्द्रं त्वेकभागेन कुड्यमर्धांशमानतः ३
अलिन्द्रं तु शिवांशं तु द्वारं भागेन कल्पयेत्
अथवा गर्भगेहं तु गुणांशेनैव कारयेत् ४
गर्भगेहस्य तुल्यं स्याद्गृहपिण्ड्यास्तु विस्तृतम्
शेषं प्रागिव कर्तव्यमलिन्द्रं कुड्यहारकम् ५
विन्याससूत्रयोरन्तस्सप्तदशविभाजिते
गुणांशं मध्यशाला स्यात्कर्णकूटं शिवांशकम् ६
तयोर्मध्ये तु पक्षांशं शालादिव्यमुदाहृतम्
कूटकोष्ठान्तरे चैव कोष्ठयोरन्तरेऽपि च ७
शिवांशं पञ्जरव्यासं कर्णकूटमिवाकृतिः
हारान्तरं तदूर्ध्वांशं क्षुद्र पञ्जरसंयुतम् ८
एवमादितलं कुर्यात् ऊर्ध्वं रुद्र तलोक्तवत्
सप्तविंशतिभागं तु कृत्वा हर्म्योदयं द्विज ९
धरा तलोच्चं भूतांशं नवांशं चरणोदयम्
सार्धवेदांशं मञ्चोच्चं शेषं रुद्र तलोक्तवत् १०
एवं भानुतलं प्रोक्तं त्रयोदशतलं शृणु ११
इति काश्यपशिल्पे भानुभूमिविधानं नाम एकोनचत्वारिंशः पटलः