३७

अथाष्टत्रिंशः पटलः
एकादशभूमिलक्षणम्
अथ वक्ष्ये विशेषेण रुद्र भूमिविधानकम्
प्रासादमानविधिना सङ्ग्रहेत्तु ततोदयम् १
तिथ्यंशं विभजेत्तारं गुणांशं गर्भगेहकम्
पक्षांशं गृहपिण्डी स्यादलिन्द्रं त्वेकभागकम् २
एकांशं कुड्यविस्तारमलिन्द्रं तु शिवांशकम्
हारान्तरमथांशेन कल्पयेत्तु यथाक्रमम् ३
अलिन्द्रं वा घनं स्यात्तु घना भित्तिरथापि वा
प्रस्तरान्तं घनं वापि तदूर्ध्वेऽलिन्द्र मेव वा ४
विन्याससूत्रयोरन्तर्व्यासे तिथ्यंशभजिते
शिवांशं कर्णकूटंस्यात् पक्षशाला द्विभागिका ५
मध्यशालाग्निभागा स्यादर्धांशं पञ्जरं भवेत्
हारान्तरं च तत्तुल्यं कल्प्यैवं ह्यादिभूतले ६
तदूर्ध्वभूविशालं तु मनुभागविभाजितम्
शिवांशं कूटविस्तारं कोष्ठं तत् द्विगुणायतम् ७
शेषं हारान्तरं ख्यातं त्रिभागैकं तु पञ्जरम्
पञ्जरकूटकोष्ठानां सङ्ख्या तु प्राग्वदेव हि ८
तदूर्ध्वभूमिविस्तारे त्रयोदशांशभाजिते
एकांशं कूटविस्तारं कोष्ठं तत् द्विगुणं भवेत् ९
शेषं हारान्तरं ख्यातं त्रिभागैकं तु पञ्जरम्
तदूर्ध्वभूविशाले तु द्वादशांशविभाजिते १०
कूटकोष्ठादिसर्वाङ्गं पूर्ववत्परिकल्पयेत्
तदूर्ध्वभूमिविस्तारे रुद्रा शें! तु विभाजिते ११
पञ्जरं कूटं कोष्ठं च प्रागिवैव प्रकल्पयेत्
तस्योर्ध्वभूमिविस्तारे दशभागविभाजिते १२
कूटं कोष्ठं पञ्जरं च सङ्ख्यामानं च पूर्ववत्
तदूर्ध्वभूनवांशे तु कूटव्यासं शिवांशकम् १३
अत्यर्धांशं कोष्ठततं शेषं हारान्तरं भवेत्
हारान्तरं त्रिभागैकं पञ्जरव्यासमुच्यते १४
प्राग्वत्कूटादिसङ्ख्याः स्युः कल्पयेत्कल्पवित्तमः
अष्टांशं विभजेदष्टभूमेश्चैव तु विस्तरम् १५
कूटविस्तारमेकांशं मध्ये शाला द्विभागकम्
पञ्जरव्यासमेकांशं हारान्तरं तदर्धकम् १६
चतुष्कूटं चतुश्शालं पञ्जराष्टकसंयुतम्
हारान्तरं कलासङ्ख्यं प्रोच्यतेऽष्टतले द्विति १७
नवभूमिविशालं तु सप्तधा विभजेत्समम्
कूटव्यासमथांशं तु कोष्ठदीर्घं द्विभागकम् १८
शेषं हारान्तरं ख्यातं तत्त्रिभागं तु पञ्जरम्
दशभूमिविशालं तु रसभागविभाजितम् १९
प्राग्वत्कूटं च कोष्ठं च पञ्जरं च प्रकल्पयेत्
एकादिपञ्चभूम्यन्तं भद्र पञ्जरसंयुतम् २०
पञ्जरं भूपरिष्ठात्तु भद्रं वाऽभद्र कं तु वा
ऊर्ध्वभूमिविशालं तु गुणभागविभाजितम् २१
मध्यभद्रं तदेकांशं दण्डमानेन निर्गतिः
प्रासादस्य तु चोत्सेधं शतांशं च त्रयोदश २२
कृत्वा सार्धं युगांशं तु धरा तलमुदाहृतम्
पादोच्चं सार्धवस्वंशं मञ्चमानं युगांशकम् २३
वस्वंशं चरणायामं मञ्चं पादो न वेदकं
चरणं सार्धसप्तांशं प्रस्तरं सार्धवह्निकम् २४
सप्तांशं पाददीर्घं तु सपादाग्न्यंशमञ्चकम्
अर्धाधिकषडंशं तु पादमग्न्यंशमञ्चकम् २५
षडंशं पादतुङ्गं तु पादो न त्र्! यंशमञ्चकम्
सत्रिपादं तु भूतांशं पाददीर्घमुदाहृतम् २६
अर्धाधिकद्विभागं तु प्रस्तरस्योदयं भवेत्
सपादपञ्चभागं तु पादोदयमुदाहृतम् २७
सार्धपक्षांशं मञ्चोच्चं भूतांशं चरणोदयम्
सपादपक्षभागं तु मञ्चमानमुदाहृतम् २८
पादो न पञ्चभागं तु चरणोदयमीरितम्
मञ्चमानं द्विभागं स्यात् सार्धवेदांशमङ्घ्रिकम् २९
सत्रिपादशिवांशं तु प्रस्तरोच्चमुदाहृतम्
वस्वंशं वेदिकामानं कण्ठोच्चं सार्धभागकम् ३०
अर्धाधिकं तु वेदांशं शिखरोदयमीरितम्
पादोनं तु द्विभागं स्यात् स्तूपेरुदयमिष्यते ३१
होमादिस्तूपिपर्यन्तं युगाश्रं परिकल्पयेत्
शिखरं तु चतुर्दिक्षु महानासी समन्वितम् ३२
पादं प्रत्यल्पनासाढ्यं ब्रह्मकान्तं तदुच्यते
सौष्टिकं सान्तरं मञ्चं विजयं तदुदाहृतम् ३३
तदेव नतकूटं चानन्तकोष्ठाः समञ्चकाः
सर्वार्हकमिदं ख्यातं सर्वदेवार्हकं परम् ३४
तदेव शिखरं कण्ठं वृत्तमष्टाश्रवेदिकम्
इन्द्र कान्तमिति ख्यातं सर्वदेवार्हकं वरम् ३५
तदेव मध्यभद्रा ढ्यं कूटकोष्ठौ समौ ततौ
समञ्चं वा विमञ्चं वा कूटशाला च पञ्जरम् ३६
गणिका शालकं ख्यातं ब्रह्मविष्णुशिवार्हकम्
तदेव कर्णकूटं तु भद्र युक्कर्णकूटकम् ३७
तदेव सौष्टिकानां तु शीर्षकं मण्डलाकृति
नाम्ना कर्णविशालं तु सर्वदेवप्रियावहम्
एवमेकादशतललक्षणं परिकीर्तितम् ३८
इति काश्यपशिल्पे रुद्र भूमिविधानं नाम अष्टत्रिंशः पटलः