अथ सप्तत्रिंशः पटलः
दशभूमिलक्षणम्
अथ वक्ष्ये विशेषेण दशभूमेस्तु लक्षणम्
पार्श्वप्रासादमानोक्तप्रमाणैरुदयं ततम् १
कल्पयित्वा तु तत्तारं मनुभागविभाजितम्
वेदांशगर्भगेहं तु गृहपिण्डी त्रिभागकम् २
अलिन्द्रं त्वेकभागेन हारान्तरं शिवांशकम्
विन्याससूत्रयोरन्तर्मनुभागविभाजिते ३
एकांशं कूटविस्तारं शाला दीर्घं तु तत् द्वयम्
एकांशं पञ्जरव्यासं पादं हारान्तरं भवेत् ४
चतुष्कूटं चतुश्शालं पञ्जरं षोडशान्वितम्
हारान्तरं च द्वात्रिंशत् कल्पयेदादिभूतले ५
तदूर्ध्वभूमिविस्तारे त्रयोदशविभाजिते
एकांशं कण्ठकूटं तु शाला तत् द्विगुणायता ६
एकांशं पञ्जरव्यासं शेषं हारान्तरं भवेत्
ऊर्ध्वभूविस्तृते भानुभागे त्वंशं तु सौष्टिकम् ७
द्विगुणं कोष्ठदीर्घं तु अर्धांशं पञ्जरं ततम्
पादं हारान्तरं ख्यातं तेषां सङ्ख्यादिपूर्ववत् ८
तस्योर्ध्वतलविस्तारं रुद्र भागविभाजितं
पादं पञ्जरविस्तारं शेषं पूर्ववदेव हि ९
तदूर्ध्वभूदशांशे तु व्योमांशं कूटविस्तृतम्
कोष्ठं तत् द्विगुणायामं शेषं हारान्तरं भवेत् १०
हारान्तरत्रिभागैकं पञ्जरव्यासमुच्यते
तदूर्ध्वभूनवांशे तु शिवांशं सौष्टिकं भवेत् ११
अत्यर्धांशं तु कोष्ठं स्यात् शेषं हारान्तरं समम्
हारान्तरद्विभागैकं पञ्जरव्यासमुच्यते १२
अष्टांशं विभजेत्सप्ततलविस्तारमेव हि
कूटमेकांशमानेन मध्ये शाला द्विभागकम् १३
पञ्जरव्यासमेकांशं हारान्तरं तदर्धकम्
चतुष्कूटं चतुश्शालं पञ्जराष्टकसंयुतम् १४
हारान्तरं कलासङ्ख्यं कल्प्यैवं सप्तकं कलम्
सप्तांशं विभजेदष्टतलस्यैव तु विस्तरम् १५
प्राग्वत्कूटं च कोष्ठं च शेषं हारान्तरं तथा
हारे तु पञ्जरव्यासमग्निभागैकविस्तृतम् १६
नवभूमिविशालं तु षट्भागं विभजेत्समम्
प्राग्वत् कूटं च कोष्ठं च पञ्जरं च प्रकल्पयेत् १७
तदूर्ध्वभूमिविस्तारे त्वनलांशविभाजिते
मध्ये भद्रं तदेकांशं दण्डमास्य विनिर्गतम् १८
प्रासादस्य तु चोत्सेधे शतभागविभाजिते
युगांशं तदधिष्ठानमष्टांशं चरणायतम् १९
पादो न वेदभागं तु मञ्चमानमुदाहृतम्
पादोच्चं सार्धसप्तांशं प्रस्तरं सार्धवह्निकम् २०
धात्वंशं चरणोच्चं तु सपादाग्न्यंशमञ्चकम्
सार्धषट्कमङ्घ्रितुङ्गं प्रस्तरं चाग्निभागकम् २१
रसांशं पाददीर्घं तु पादो नाग्न्यंशं मञ्चकम्
पादोच्चं सार्धपञ्चांशं सार्धपक्षांशं मञ्चकम् २२
पादाधिकं तु पञ्चांशं पादस्योत्सेधमुच्यते
सार्धपक्षांशं मञ्चोच्चं पञ्चांशं पाददैर्घ्यकम् २३
पादाधिकं तु पक्षांशं मञ्चमानमुदाहृतम्
सत्रिपादयुगांशं तु पाददैर्घ्यमुदाहृतम् २४
प्रस्तरोच्चं द्विभागं तु सार्धवेदांशमङ्घ्रिकम्
पादो न द्व्यंशं मञ्चं स्यात्पञ्चभागं वितर्दिका २५
कण्ठमत्यर्धभागेन शीर्षकं सार्धवेदकम्
पादहीनद्विभागं तु शिखरे युगनासिका २६
पादं प्रत्यल्पनासाढ्यं नानापादं धरातलम्
अत्यन्तकान्तमित्युक्तं सर्वदेवप्रियावहम् २७
तदेवोन्नतकोष्ठं च नतं वोन्नतसौष्टिकम्
पक्षशाला तु मध्यस्थशाला दण्डेन नीप्रकम् २८
अष्टाश्रं शिखरं कण्ठं शिखरं चाष्टनासिकम्
नानालङ्कारसंयुक्तं चतुष्कूटमिदं परम् २९
तदेव कूटं कोष्ठं च सान्तरप्रस्तरं परम्
कूटकोष्ठादिसर्वाङ्गं समसूत्रमथापि वा ३०
मन्त्रपूतमिति ख्यातं विमानं सार्वकामिकम्
तदेव शिखरं कण्ठं वृत्ताभं परिकल्पयेत् ३१
नात्र कान्तमिति ख्यातं सर्वदेवार्हकं वरम्
तदेव कर्णकण्ठानां शीर्षकं च गळं तथा ३२
वृत्ताकारं प्रकर्तव्यं यत्तदीश्वरकान्तकम्
दशभूभागमाख्यातं ततस्त्वेकादशं तलम् ३३
इति काश्यपशिल्पे दशभूमिविधानं नाम सप्तत्रिंशः पटलः