अथ षट्त्रिंशः पटलः
नवभूमिविधिः
अथवक्ष्ये विशेषेण नवभूमिविधिं परम्
प्रासादमानविधिना गेहायामं च विस्तृतम् १
पक्षांशं विभजेत्तारं गुणांशं गर्भगेहकम्
द्विभागं गृहपिण्डी स्यादलिन्द्रं त्वेकभागकम् २
व्योमांशकूड्य विस्तारमलिन्द्रं तत्समं भवेत्
हारव्यासं शिवांशेन कल्पयेत् कल्पवित्तमः ३
अथवा षोडशांशं तु प्रासादं विभजेत्समम्
युगांशं गर्भगेहं तु द्विभागं गृहपिण्डिका ४
अलिन्द्रं तु शिवांशेन व्योमांशं कुड्य विस्तृतम्
अलिन्द्रं व्योमभागेन हारावैवं तु तत्समम् ५
विन्याससूत्रयोरन्तः कलांशं विभजेत्समम्
एकांशं सौष्ठिकव्यासं कोष्ठं तत् द्विगुणायतम् ६
पञ्जरव्यासमेकांशमेकांशं कूटमानकम्
हारान्तरं च द्वात्रिंशत् कल्पयेदादिभूतले ७
एवमेव प्रकर्तव्यं द्वितीयं च महीतले
तृतीयभूतलायामे मनुभागविभाजिते ८
अर्धांशं पञ्जरव्यासं शेषं पूर्ववदाचरेत्
तद्वत् चतुस्तलं चैव कल्पयेत् देशिकोत्तमः ९
पञ्चभूमितलायामे भानुभागविभाजिते
एकांशं कूटविस्तारं शाला तत् द्विगुणायता १०
अर्धांशं पञ्जरव्यासं तदर्धं हारमन्तरम्
भानुशाला च कूटाभं पञ्जरं षोडशैव तु ११
तदूर्ध्वभूविशाले तु वसुभागविभाजिते
एकांशं सौष्ठिकव्यासं मध्ये भागद्विशालया १२
पञ्जरव्यासमेकांशमर्धांशं हारमन्तरम्
तदूर्ध्वभूविशालं तु रसभागविभाजितम् १३
एकांशं कूटविस्तारं कोष्ठं तत् द्विगुणायतम्
पञ्जरव्यासमर्धांशं शेषं हारान्तरं भवेत् १४
तदूर्ध्वभूविशाले तु गुणभागविभाजिते
मध्यांशं दण्डमानेन निर्गमं परिकल्पयेत् १५
साष्टविंशतिभागं तु कृत्वा गेहोदयं बुधः
पादो न चतुरंशं तु धरातलमिति स्मृतम् १६
पादोच्चं सार्धसप्तांशं सार्धाग्न्यंशं तु प्रस्तरम्
सप्तांशं चरणोच्चं तु सपादाग्न्यंशं मञ्चकम् १७
सार्धषट्काङ्घ्रितुङ्गं तु गुणांशं मञ्चमानकम्
षट्भागं पादमानं तु पादो नाग्न्यंशं मञ्चकम् १८
पादोच्चं सार्धभूतांशं सार्धपक्षांशमञ्चकम्
सपादपञ्चभागं तु पादोत्सेधं समुच्यते १९
प्रस्तरं सार्धपक्षांशं भूतांशं चरणोदयम्
पादाधिकद्विभागं तु प्रस्तरस्योदयं भवेत् २०
पादो न पञ्चकं पादं प्रस्तरोच्चं द्विभागकम्
सार्धवेदांशकं पादं पादो न द्व्यंशं मञ्चकम् २१
शिवांशं वेदिकोत्सेधं कण्ठं चाप्यर्धभागकम्
शीर्षं सपादवेदांशं पादो न द्व्यंशकं शिखा २२
पादं प्रत्यल्पनासाढ्यं शिखरं वेदनासिकम्
समञ्चं नतकूटाढ्यं कूटाढ्यं चतुरश्रकम् २३
होमादिस्तूपिपर्यन्तं युगाश्रं परिकल्पयेत्
अशेषं मध्यशालं तु पार्श्वकोष्ठं तु निर्गतिः २४
दण्डं वाध्यर्धदण्डं वा नाम्ना ललितभद्र कम्
तदेवोन्नतकोष्ठाः स्युः समञ्चं नतभद्र कम् २५
ब्रह्मकान्तमिदं नाम्ना सर्वदेवप्रियावहम्
समञ्चं वाप्यमञ्चं वा कूटकोष्ठसमन्वितम् २६
प्रादेशमिति विख्यातं सर्वदेवप्रियावहम्
तदेव शिखरं कण्ठं वस्वश्रं चाष्टनासिकम् २७
युगाश्रं वसुकोणं वा वृत्तं वा सौष्टिकं पुनः
सौम्यशेषं युगाश्रं स्यात् श्रीवर्धनमिदं परम् २८
समञ्चौ कूटकोष्ठौ द्वौ विमञ्चौ वा समानकौ
वृत्ताश्रवशिरोपेतं चतुर्दिग्भद्र नासिकम् २९
विदिक्षु युग्मनासाढ्यं युग्मं वाऽयुग्ममेव वा
युग्मपञ्जरसंयुक्तं सुपद्ममिति विद्यते ३०
तदेव वृत्तसौष्ठ्यग्रं कृतवर्धनमुच्यते
तदेव गर्भगेहं तु वृत्तं वृत्तगृहं भवेत् ३१
एवं नवतलं ख्यातं दशभूमिरथोपरि ३२
इति काश्यपशिल्पे नवभूमिविधानं नाम षट्त्रिंशः पटलः