अथ पञ्चत्रिंशः पटलः
वसुभूमिविधानम्
अथ वक्ष्ये विशेषेण वसुभूमिविधिं परम्
प्रासादमानविधिना सङ्ग्राह्यं विस्तृतोदयम् १
त्रयोदशविभागं तु कृत्वा प्रासादविस्तृतम्
भूतांशं गर्भगेहं तु द्विभागं गृहपिण्डिका २
अलिन्द्रं चैकभागेन हारं भागेन कल्पयेत्
अथवाऽनलभागेन गर्भगेहं विधीयते ३
भागेन गृहपिण्डी स्यात् अलिन्द्रं त्वेकभागकम्
कुड्यमेकेन कर्तव्यं अलिन्द्रं तु शिवांशकम् ४
तदर्धं पञ्जरव्यासं भद्रं वाऽभद्र मेव वा
भानुकोष्ठं चतुष्कूटं कलापञ्जरसंयुतम् ५
हारान्तरं च द्वात्रिंशत् कल्पयेदादिभूतले
वर्षस्थलमलिन्द्रं स्यात् प्रस्तरान्तघनीकृतम् ६
तदूर्ध्वभूमिविस्तारं त्रयोदशविभाजिते
कुड्यकोष्ठादिसर्वाङ्गमादिभूमिमिवैव तु ७
तदूर्ध्वभूविशालं तु भानुभागविभाजिते
कर्णकूटं तदेकांशं शालाभागद्विभागकम् ८
अर्धांशं पञ्जरव्यासं शेषं हारान्तरं भवेत्
पञ्जरकूटकोष्ठानां सङ्ख्यात्वादितलोक्तवत् ९
हारान्तरमथार्धांशं लम्बपञ्जरसंयुतम्
तस्योर्ध्वभूविशालं तु भानुभागविभाजितम् १०
कूटकोष्ठादिसर्वाङ्गं मानसङ्ख्यादिपूर्ववत्
तदूर्ध्वभू दशांशे तु कूटं कोष्ठं च पूर्ववत् ११
हारान्तरमथार्धांशं लम्बपञ्जरसंयुतम्
तस्योर्ध्वभूविशाले तु वसुभागविभाजिते १२
कर्णकूटं तदेकांशं मध्ये शाला द्विभागकम्
पञ्जरव्यासमेकांशमर्धांशं हारमन्तरम् १३
चतुष्कूटं चतुश्शूलं वसुपञ्जरसंयुतम्
हारान्तरं तथा प्रोक्तं कल्प्यैवं षट् कलं भवेत् १४
तदूर्ध्वभूमिभागं तु षट्भागं विभजेत्समम्
कूटव्यासमथैकांशं मध्ये कोष्ठं द्विभागकम् १५
अर्धांशं पञ्जरव्यासं शेषं हारान्तरं भवेत्
तदर्धं पञ्जरव्यासं भद्रं वाऽभद्र मेव वा १६
भानुकोष्ठं चतुष्कूटं कलापञ्जरसंयुतम्
तदूर्ध्वभूविशालाढ्ये मध्ये दण्डेन नीप्रकम् १७
कूटात् कोष्ठं तु नीप्रं वा मध्यशाला त्वनीप्रका
कूटं कोष्ठमशेषं तु समसूत्रगमेव वा १८
ससप्तसप्ततिभागं कृत्वा हेमसमुच्चयम्
सार्धत्रिंशमधिष्ठानं सप्तांशं चरणोदयम् १९
प्रस्तरं तु सपादाङ्घ्रि सार्धषट्कं पदोदयम्
सार्धद्विभागं मञ्चोच्चं कल्पयेत्तु विशेषतः २०
सपादं पञ्चभागं तु चरणोदयमीरितम्
प्रस्तरं सार्धपक्षांशं भूतांशं चरणोदयम् २१
सपादभागं मञ्चं स्यात्पादं पादो न पञ्चकम्
मञ्चमानं द्विभागं तु सार्धं पादं युगांशकम् २२
सत्रिपादांशं मञ्चोच्चं व्योमांशं वेदिकोदयम्
कण्ठं पादो न पक्षांशं सार्धवेदांशं शीर्षकम् २३
कण्ठमानसमं स्तूपि तुङ्गमित्यत्र कथ्यते
स्तूप्यन्तं तदुपानादि वेदाश्रं परिकल्पयेत् २४
श्रौष्ठश्रं वायुगाश्रं स्यात् स्तम्भं प्रत्यल्पनासिकम्
शिखरे तु चतुर्नासी युक्तास्ते स्युः महान्तराः २५
एकाकारतलं स्तम्भं शिवच्छन्दमुदाहृतम्
तदेव नतशाखाः स्युर्मञ्चकाः सौष्ठिकोन्नतम् २६
वागीशमिति विख्यातं सर्वदेवप्रियावहम्
चतुरश्राष्टवृत्ताभं सौष्ठिकं वा पुनःपुनः २७
विमानशिखरं कण्ठमष्टाश्रं परिकल्पयेत्
तदष्टभागं विख्यातं धर्मप्रीतिकरं परम् २८
तदेव कूटं कोष्ठं च समञ्चं वा विमञ्चकम्
समोन्नतं तथा कूटं नानाहस्तानताङ्घ्रिकम् २९
नानाचित्रविचित्रं तु तत्पर्वतमिति स्मृतम्
तदेव शिखरं कण्ठं वृत्ताभं परिकल्पयेत् ३०
नाम्ना कैलासमित्युक्तं मम प्रीतिकरं परम्
एवमष्टतलं ख्यातं नवभूमिमथोपरि ३१
इति काश्यपशिल्पे वसुभूमिविधानं नाम पञ्चत्रिंशः पटलः