अथ चतुस्त्रिंशः पटलः
सप्तभूमिलक्षणम्
अथ वक्ष्ये विशेषेण सप्तभूमेस्तु लक्षणम्
प्रासादमानविधिना व्यासोदयं प्रकल्पयेत् १
रव्यंशं विभजेत्तारं वेदांशं गर्भगेहकम्
पक्षांशं भित्तिविष्कम्भमेकेनालिन्द्र मिष्यते २
हारान्तरमथांशेन परितः परिकल्पयेत्
विन्याससूत्रयोरन्तं भान्वंशेन समं भवेत् ३
एकांशं कूटविस्तारं कोष्ठं तत् द्विगुणायतम्
पञ्जरव्यासमेकांशं शेषं हारान्तरं भवेत् ४
चतुष्कूटाष्टशाला च भानुपञ्जरसङ्ख्यया
तदूर्ध्वभूमिविस्तारं धर्मभागं विभाजिते ५
कर्णकूटं च कोष्ठं च पूर्ववत् परिकल्पयेत्
पञ्जरव्यासमर्धांशं शेषं हारान्तरं भवेत् ६
तस्योर्ध्वभूमिविस्तारं धर्मभागविभाजिते
पञ्जरं कूटं कोष्ठं च पूर्ववत् परिकल्पयेत् ७
ऊर्ध्वभूमौ नवांशे तु मध्ये शालाग्निभाजिते
व्योमांशं कर्णकूटं स्यात् एकांशं पञ्जरं ततम् ८
हारान्तरमथार्धांशं तस्योर्ध्वं वसुभाजिते
मध्ये शाला द्विभागेन शेषं पूर्ववदाचरेत् ९
तदूर्ध्वभूमिविस्तारं रसभागविभाजिते
कूटमेकांशमित्युक्तं शाला तत् द्विगुणायता १०
अर्धांशं पञ्जरव्यासं शेषं हारान्तरं भवेत्
तदूर्ध्वभूम्यग्निभागैकं मध्ये दण्डेन निर्गतम् ११
सप्तषष्टीति भागं तु कर्तव्यं सदनोदयम्
सपादाग्निरधिष्टानं सार्धषट्काङ्घ्रितुङ्गकम् १२
तदर्धं मञ्चमानं तु षट्भागं चरणोदयम्
त्रिपादवत् द्विभागं तु मञ्चमानमुदाहृतम् १३
सार्धभूतांशमङ्घ्र्युच्चं सार्धद्व्यंशं तु प्रस्तरम्
सपादपञ्चभागं तु स्तम्भमानमुदाहृतम् १४
पर्स्तरं सार्धपञ्चांशं भूतांशं चरणोदयम्
सपात् द्विभागं मञ्चं स्यात् स्त्रीत्रिपादं युगांशकम् १५
चरणोदयमित्युक्तं प्रस्तरोच्चं द्विभागकम्
पादोच्चं सार्धवेदांशं पादो न द्व्यंशमञ्चकम् १६
व्योमांशं वेदिकोत्सेधं पादोनद्व्यंशकं गळम्
अर्धाधिकयुगांशं तु शिखरोदयमिष्यते १७
पक्षांशं स्तूपिमानं तु गण्यं सप्ततलं विदुः
पञ्जरं कूटं कोष्ठं च समसूत्रे तु कल्पितम् १८
होमादाग्रं युगाग्रं तु शिखरे वेदनासिका
शाला षट्त्रिंशति युतं भानुद्विगुणकूटकम् १९
षष्टिपञ्जरसंयुक्तं पादं प्रत्यल्पनासिकम्
नानाधिष्ठानसंयुक्तमेकाकारमथापि वा २०
एकेनाकृतिरङ्घ्री तु समुज्वलमुदाहृतम्
तदेवान्तरकूटाः स्युः सान्तरप्रस्तरान्वितं २१
श्रीच्छन्दमिति विख्यातं सर्वदेवार्हकं परम्
तदेव नतकूटाश्च कोष्ठो नान्ताः समञ्चकाः २२
श्रीविशालमिति ख्यातं सर्वदेवप्रियावहम्
तदेव शीर्षं कण्ठं च अष्टाश्रं वेदिका तथा २३
श्रीकान्तमिति विख्यातं कूटं कोष्ठसमं तु वा
समं च नतकूटं स्यात् श्रीप्रियं तददुदाहृतम् २४
तदेव वृत्तं शिखरं स्तूपिश्चैव गळं तथा
रुद्र कान्तमिति ख्यातं रुद्र प्रीतिकरं परम् २५
तदेव कर्णकूटं तु वेदाश्राष्टाश्रमण्डलम्
क्रमेणादि तलात् कल्प्यं वृत्तभद्र मिदं परम् २६
तदेवोन्नतकूटं च नतशाला समन्वितम्
कूटं च मस्तकं वृत्तं सुवृत्तमिति विद्यते २७
सोन्नतं कूटं कोष्ठं च पञ्जरोन्नतमञ्चकम्
यथेष्टं शिखराकारं कण्ठं स्तूपिर्घटं तथा २८
युगाश्रं शीर्षकोपेतं कण्ठकूटं प्रकल्पयेत्
शिवभद्र मिति ख्यातं शिवप्रीतिकरं परम् २९
तदेव कूटं कोष्ठं च दण्डं वाप्यर्धदण्डकं
द्विदण्डं वाथ निष्क्रान्तं भद्रं वा भद्र पञ्जरम् ३०
नानाधिष्ठानसंयुक्तं नानापादैरलङ्कृतम्
नानाचित्रैर्विचित्रं तु शिवसौख्यमुदाहृतम् ३१
तदेव गर्भगेहं तु वृत्तं वाथ युगांशकम्
वृत्तमेवं हि बाह्ये तु वृत्ताभसौष्टिकान्वितम् ३२
शेषं पूर्ववदुद्दिष्टं नानासर्वाङ्गमण्डलम्
पञ्जरं कूटं कोष्ठं च अन्तरप्रस्तरं विना ३३
यथेष्टं शिखराकारं शिवप्रीतिकमिष्यते
एवं सप्ततलं ख्यातं वसुभूमिरथोपरि ३४
इति काश्यपशिल्पे सप्तभूमिविधानं नाम चतुस्त्रिंशः पटलः