अथ त्रयस्त्रिंशः पटलः
षट्भूमिविधिः
अथ वक्ष्ये विशेषेण षट्भूमिकविधिं परम्
तस्य विस्तारतुङ्गं तु प्रसादमानवत् भवेत् १
विस्तारं रुद्र याभज्य गुणांशं गर्भगेहकम्
द्विभागं गृहपिण्डं स्यात् अलिन्द्रं शिवभागकम् २
द्वारं शिवांशमानेन अलिन्द्रं वा स्थलं भवेत्
धरातले द्वित्रिभूमौ –३
पादे तत्स्थापनं यत्र तावद्वै सुदृढं घनम्
बाह्योचितमलं कारं घनाभ्यन्तरवत् कुरु ४
रव्यंशं विभजेत्तारं विन्याससूत्रमन्तरं
भागं सौष्टिकविस्तारं कोष्ठं तत् द्विगुणायतम् ५
भागेन पञ्जरव्यासं शेषं हारान्तरं भवेत्
चतुष्कूटाष्टकोष्ठं च भानुपञ्जरसंयुतम् ६
हारान्तरं चतुर्विंशत् कल्पयेदादिभूतले
पञ्जरं हर्म्यमध्ये तु कण्ठेषु सौष्ठिकं भवेत् ७
पार्श्वयोः कर्णकूटस्य पञ्जरं परिकल्पयेत्
कोष्ठपञ्जरयोर्मध्ये कल्पयेत्तु विशेषतः ८
तदूर्ध्वभूदशांशेषु व्योमांशं कर्णकूटकम्
मध्ये पञ्जरमेकांशं कर्णकूटमिवाकृतिः ९
द्विभागं कोष्ठदीर्घं स्यात् अर्धांशं पञ्जरस्य तु
शेषं हारान्तरं ख्यातमेषां सङ्ख्याऽऽदिभूमिवत् १०
तस्योर्ध्वभूविशालं तु नवभागविभाजिते
कण्ठकूटमथांशेन मध्यशाला गुणांशकम् ११
पञ्जरव्यासमेकांशमर्धांशं हारमन्तरम्
तदूर्ध्वं वसुभागं तु शिवांशं कूटविस्तृतम् १२
मध्ये कोष्ठं द्विभागेन एकांशं पञ्जरं ततम्
हारान्तरमथार्धांशं कल्पयेत् कल्पवित्तमः १३
तदूर्ध्वभूमिविस्तारं षट्भागं विभजेत् समम्
कूटमेकांशमानेन कोष्ठायामं तु तत् द्वयम् १४
अर्धांशं पञ्जरव्यासं शेषं हारान्तरं भवेत्
तदूर्ध्वभूमिविस्तारमर्धांशं मध्यभद्र कम् १५
दण्डं वाप्यर्धदण्डं वा द्विदण्डं भद्र नीप्रकम्
तत्तुङ्गं सप्तपञ्चाशदंशं कृत्वा तु देशिकः १६
अधिष्टानोच्चं पञ्चाग्नि षट्भागं चरणोदयम्
पादहीनाग्निभागं तु मञ्चमानमुदाहृतम् १७
पादोच्चं सार्धपञ्चांशं मञ्चं सार्धविभागकम्
पादाधिकं तु पञ्चांशं पादायाममिति स्मृतम् १८
सार्धद्विभागं मञ्चोच्चं पञ्चांशं चरणोदयम्
पादोदयं द्विभागं तु प्रस्तरोदयमीरितम् १९
पादहीनं तु पञ्चांशं तलिपस्योदयं भवेत्
द्विभागं प्रस्तरं ख्यातमर्धाधिकयुगांशकम् २०
पादायाममिति ख्यातं पादोनद्व्यंशं मञ्चकम्
व्योमांशं वेदिकामानं पादोनद्व्यंशकं गळम् २१
सार्धवेदांशमानेन शीर्षकं परिकल्पयेत्
पक्षांशं तु विमानं च षट्भूमिकमेव हि २२
साष्टाविंशत्तलानि स्युः विंशत् कूटसमन्वितम्
षडष्टपञ्जरोपेतं पादं प्रत्यल्पनासिकम् २३
होमादिस्तूपिपर्यन्तं चतुरश्रं प्रकल्पयेत्
शिखरे तु महानासीश्चतस्रः परिकल्पयेत् २४
अम्बुजासनमाख्यातं सर्वदेवप्रियावहम्
तदेव शिखरं कण्ठं वस्वश्रं परिकल्पयेत् २५
अशेषं सौष्टिकान्तं तु शीर्षकं चतुरश्रकम्
उन्नतावनतोपेतं भद्रं वा भद्र कोष्ठकम् २६
सान्तरप्रस्तरोपेतौ हीनौ वापि समुन्नतौ
सुशाङ्करमिदं ख्यातं तदेव सौष्टिशीर्षकम् २७
वृत्ताकारं प्रकर्तव्यं नाम्ना तत् भद्र लीनकम्
तदेव शिखरे चाष्टौ कल्पिनासि युतं महत् २८
शिवभद्र मिति ख्यातं शिवप्रीतिकरं परं
तदेव द्व्यश्रवृत्ताभं शीर्षकं गळसंयुतम् २९
मुखे ललाटनासाढ्यं नागेन्द्र मिति सञ्ज्ञितम्
षट्भूमिरेवमाख्याता सप्तभूमिरथोपरि ३०
इति काश्यपशिल्पे षट्भूमिविधानं नाम त्रयस्त्रिंशः पटलः