अथ द्वात्रिंशः पटलः
पञ्चभूमिलक्षणम्
अथ वक्ष्ये विशेषेण पञ्चभूम्यास्तु लक्षणम्
विस्तारोत्सेधमानं तु प्रोक्तं प्रासादमानके १
विस्तारं रुद्र धाभज्य गुणांशं गर्भगेहकम्
द्विभागं गृहपिण्डी स्यात् अलिन्दं त्वेकभागकम् २
हारभानेकभागेन कर्तव्यमळिन्दघनभित्तिकम्
वर्षस्थलसमं युक्तं कल्पयेत्प्रस्तरोपरि ३
धरातले च मञ्चोर्ध्वे द्वितीये वा त्रिभूमिके
देवतास्थापनं कुर्यात् तावदेव घनीकृतम् ४
विन्याससूत्रयोरन्तः रुद्र भागविभाजिते
शिवांशं कर्णकूटं तु मध्यकोष्ठं गुणांशकम् ५
तयोर्मध्येकभागेन पञ्जरव्यासमुच्यते
हारान्तरमथांशेन कल्पयेत् कल्पवित्तमः ६
तदूर्ध्वभूमिविस्तृतं नन्दभागं कृत्वांशं सौष्टिकम्
मध्ये कोष्टाग्निभागं पञ्जरं त्वंशमानतः ७
हारान्तरमथार्धांशं कल्पयेत्तु द्वितीयके
तदूर्ध्वभुवनं चाष्टभागांशं कर्णकूटकम् ८
द्विभागं कोष्ठकं कुर्यात् भागं स्यात् पञ्जरं तथा
हारान्तरमथार्धांशं कृत्वा लक्षणसंयुतम् ९
ऊर्ध्वभूमौ रसांशे तु कूटव्यासमथांशकम्
शालादीर्घं विभागं स्यात् दुग्धाशं पञ्जरं ततम् १०
शेषं हारान्तरं ख्यातं बलकुञ्जरमेव वा
तदूर्ध्वभूमिविन्यासे मध्ये दण्डेन निर्गतिः ११
गृहोच्चं तु षडष्टांशे पदोनांशं धरातलम्
सार्धपञ्चांशं पादोच्चं सार्धद्व्यंशं तु मञ्चकम् १२
सपादं पञ्चभागं तु चरणोदयमीरितम्
मञ्चाच्चं द्वयमर्धांशं पञ्चांशं चरणायतम् १३
सपादद्व्यंशं मञ्चोच्चं पादमर्धो न पञ्चकम्
द्विभागं प्रस्तरोत्सेधं सार्धवेदाङ्घ्रितुङ्गकम् १४
पादो न द्व्यंशं मञ्चं स्यात् शिवांशं वेदिकोदयम्
कण्ठं वा तेन पक्षांशं सार्धवेदं शिरोदयम् १५
द्विभागं स्तूपिमानं तु शान्तिकं भवनं भवेत्
सवेदचत्वारिंशत्तु भागं कृत्वा गृहोन्नतम् १६
गुणांशं तलतुङ्गं तु भूतांशं चरणोदयम्
प्रस्तरं चाग्निभागं तु पादं सार्धयुगं भवेत् १७
सपादद्विभागं मञ्चं स्यात् तलिपं स्यादधीयुगम्
प्रस्तरोच्चं द्विभागेन वेदांशं चरणोदयम् १८
पक्षांशं मञ्चमानं स्यात् पादं सार्धगुणांशकम्
अध्यर्धं मञ्चमानं तु व्योमांशं वेदिकोदयम् १९
द्विभागं गळमानं तु सार्धवेदांशं शीर्षकम्
अत्यर्धं तु शिखामानं पौष्टिकं सदनं त्विदम् २०
सदनोच्चं तु षट्त्रिंशत् भागं कृत्वा द्विजोत्तम
अधिष्ठानं द्विभागेन वेदांशं चरणायतम् २१
सत्रिपादशिवांशेन मञ्चमानं प्रकल्पयेत्
सार्धाग्न्यंशं तु तलिपं तदर्धं मञ्चमानकम् २२
सपादानलं पादं स्यात् मञ्चमत्यर्धभागकम्
गुणांशं पादपीठं तु सपादांशं तु प्रस्तरम् २३
एकांशं वेदिकामानं पादो न द्व्यंशकं गलम्
सपादाग्न्यंशं शीर्षं तु शेषं स्तूप्युदयं भवेत् २४
जयदं भवनं ह्येवं कल्पयेत् कल्पवित्तमः
विमानोच्चं तु विभजेत् त्रयस्त्रिंशत् विभागकम् २५
द्विभागं धरणीमानं वेदांशं चरणोदयम्
प्रस्तरोच्चं द्विभागं तु सार्धत्रिंशाङ्घ्रिणोदयम् २६
प्रस्तरं पादरहितं द्विभागेन विधीयते
त्रिभागं चरणायामं तदर्धं मञ्चमानकम् २७
सार्धद्विभागं वादोच्चं सपादांशेन मञ्चकम्
स्तम्भं पादाधिकद्व्यंशं मञ्चमानं सपादकम् २८
व्योमांशं वेदिकामानमत्यर्धाङ्गुलमानकं
सार्धत्रिभागं शिखरं द्विभागं स्तूपिमानकम् २९
अद्भुतं भवति ह्येवं कल्पयेद्देवतार्हकम्
चतुर्विंशतिभागं तु कृत्वा च सदनोदयम् ३०
अत्यर्धांशं तलोत्सेधं गुणांशं पादमानकम्
तदर्धं मञ्चमानं तु पादोदकं गुणांशकम् ३१
तस्यार्धं प्रस्तरोत्सेधं द्व्यर्धमङ्घ्र्युदयं भवेत्
प्रस्तरं तु सपादांशं स्तम्भं पादाधिकद्वयम् ३२
तदर्धं मञ्चमानं तु साष्टांशद्व्यंशमङ्घ्रिकम्
एकांशं प्रस्तरोत्सेधं अर्धांशं वेदिकोदयम् ३३
त्रिपादं गळमानं तु पादो न द्व्यंशकं शिरः
अष्टांशरहितं व्योमभागं स्तूप्युदयं भवेत् ३४
सार्वकामिकमेवं तु कर्तव्यं सदनं द्विज
होमादिस्तूपिपर्यन्तं युगाश्रं परिकल्पयेत् ३५
कलाशाला कलासौष्ठी पञ्जरं चतुरष्टकम्
पादं प्रत्यल्पनासाढ्यं हारान्तं नासिकाद्वयम् ३६
भद्र नासी चतुष्कं तु शिखरे च प्रकल्पयेत्
क्षुद्र नासी द्वयं कोणे कल्पितं ब्रह्मकान्तकम् ३७
कूटास्वनन्तरं चाढ्यं प्राजापत्यमुदाहृतम्
तदेवोन्नतकूटं तु कोष्ठेनताः स्वमन्तकाः ३८
स्वायम्भुवमिदं गेहं सर्वदेवार्हकं परम्
तदेव वेदिकाकोष्ठं शीर्षकं वसुकोणकम् ३९
शालामध्येंशमानेन निर्गतिः कोष्ठ एव वा
भद्र कान्तमिति ख्यातं कूटकोष्ठं परिस्समम् ४०
समञ्चं वा विमञ्चं वा जनार्दनमुदाहृतम्
तदेव कोष्ठमध्ये तु भद्र हीनमथापि वा ४१
मध्यभद्र युतं वापि मण्डलं शीर्षकं गलम्
अतिभद्र मिति ख्यातं सर्वमेवार्हकं परम् ४२
तदेव कूटं कोष्ठं च पञ्जरं च समञ्चकम्
सोन्नतं सर्वतो भद्रं धर्मप्रीति करं भवेत् ४३
विमलं कूटं कोष्ठं च पञ्जरं समसूरकम्
नानाधिष्ठानसंयुक्तं नानापादैरलङ्कृतम् ४४
नानालङ्कारसंयुक्तं युग्मपञ्जरसंयुतम्
शिखरेष्टाल्पनासाढ्यं महानासी चतुष्टयम् ४५
वीरभद्र मिति ख्यातं सर्वदेवप्रियावहम्
तदेवाष्टकशालाढ्यमादिभूमौ द्विभागया ४६
भानुपञ्जरसंयुक्तं शेषं प्रागिव कल्पयेत्
प्रागुक्तनामचाख्यातं तेष्विष्टं परिकल्पयेत् ४७
पञ्चभौमं समाख्यातं षट्तलं तु ततः शृणु ४८
इति काश्यपशिल्पे पञ्चतलविधानं नाम द्वात्रिंशः पटलः