३०

अथैकत्रिंशः पटलः
कूटकोष्ठादिलक्षणम्
वक्ष्येऽहं कूटकोष्ठानां पञ्जराणां च लक्षणम्
द्वितलादि तलान्तानां सममेव प्रकीर्तितम् १
तलं प्रत्युदितं व्यासं समाश्रं कर्णकूटकम्
सार्धताश्रं तु कोष्ठं स्यात् चतुष्पादैकपादकम् २
अधस्तात् स्तम्भवर्गं च प्रस्तरं कर्णशीर्षकम्
स्तूपिवर्गसमायुक्तौ कूटकोष्ठौ विशेषतः ३
एवमादितले कुर्यात् धरातलं विनोर्ध्वतः
कूटशालौ च कर्तव्यौ पञ्जराश्च तथैव च ४
ऊर्ध्वपादोदयं सप्तभागं कुर्यात् विशेषतः
एकांशं वेदिकोत्सेधं सार्धांशं गलमुन्नतम् ५
शीर्षं तु विगुणांशेन शेषं स्तूप्युदयं भवेत्
एवं तु कूटकोष्ठौ द्वौ कल्पयेत्तु तलं प्रति ६
अथवा कूटकोष्ठानामुदयं तु वदाम्यहम्
उत्तरस्योर्ध्वसीमान्तं हंसमालोर्ध्वसंयुतं ७
कपोतं वाऽवसानं वा भागं पूर्ववदेव तु
सान्तरप्रस्तरं चेत्तु प्रस्तरस्योर्ध्वसोमकम् ८
वेदिकोर्ध्वं समं वाथ सान्तरप्रस्तरान्वितम्
तदूर्ध्वं रुद्र धाभज्य एकांशं वेदिकोदयम् ९
गुणांशं चरणोच्चं तु पादोनद्व्यंशमञ्चकम्
स्तूप्युत्सेधं सपादांशं क्रमशः परिकल्पयेत् १०
एवं हि कूटकोष्ठौ द्वौ कल्पयेत् कल्पवित्तमः
कूटस्यास्य त्रिभागैकं स्वनासीविस्तृतं भवेत् ११
तत् द्व्यासत्रिचतुष्पञ्चसप्तभागेन नीप्रकम्
कर्णकूटे कपोतं तु नासिकानिर्गमं भवेत् १२
चतुर्दिक्षु चतुर्नासीः कूटानां परिकल्पयेत्
एकस्तूपिसमायुक्तं नीप्रवेशं विमानकम् १३
तदेवाश्रं वसुकोणं वा वृत्ताभं वा गलं शिरः
नागराद्युचितं कल्प्यं कर्णकूटं विशेषतः १४
शालानां पार्श्वयोर्विप्र ललाटाख्या तु नासिका
शालाव्यासविशाला तु उन्नता मुखपट्टिका १५
स्वस्तूप्यग्रसमं प्रोतं शालानास्यश्रसीमकम्
शालादैर्घ्यत्रिभागैकं मुखनासिविशालकम् १६
कूटानां नासिकानीप्रं महानासिवदाचरेत्
स्तूपित्रयसमायुक्तं नागरे भवने द्विज १७
कालानां द्रा विडानां तु स्तूपिः स्यात् द्वित्रिसङ्ख्यया
शालानां वेसराणां तु स्तूप्येकं वा चतुष्टयम् १८
गळांशे कूटकोष्ठानां देवताद्यास्तु कल्पयेत्
एवं हि कूटकोष्ठास्तु पञ्जरस्त्वधुनोच्यते १९
उपानाद्युत्तरान्तं तु नवभागविभाजिते
उपपीठमथांशेन पक्षांशेन धरातलम् २०
वेदांशं चरणायामं मञ्चमध्यर्धभागकम्
अर्धांशं वेदिकामानं कपोतान्तं गलोदयम् २१
प्रतिवाजनसीमान्तं पञ्जरोच्चमुदाहृतम्
प्रासादस्य कपोतं तु यथा शोभांशनिर्गतिः २२
पञ्जरो नासिकाकारः कूटकोष्ठाकृतिस्तु वा
हस्तिवृष्ठविमानं स्यात् शिखरान्तमथापि वा २३
एवं त्वनेकभेदेन पञ्जरा कृतिरुच्यते
यथेष्टं तेषु कर्तव्यं हर्म्यकोष्ठेषु हर्म्यकं २४
एकेन भूमिहर्म्येषु –एवमादितले कुर्यादन्तरप्रस्तरान्वितम् २५
मानसूत्रं तु निष्क्रान्तं युक्तमेव यदाचरेत्
पञ्जरं नीप्ररहितं प्रस्तरोर्ध्वे विशेषतः २६
कर्णकूटं समं वाथ त्रिपादं वाऽवधिर्भवेत्
तद्व्यासं भद्र कं तुङ्गं युक्त्या पञ्जरमाचरेत् २७
तलं प्रत्यूर्ध्वपादोच्चं प्रागिवैव नवांशकम्
गुणांशं वा घनाभित्तिः छत्रं शीर्षसमं युतम् २८
पादायामं चतुर्भागमत्यर्धांशं तु प्रस्तरम्
अर्धांशं वेदिकामानं कपोतान्तं गलोदयम् २९
प्रतिवाजनसीमान्तं पञ्जरोदयमीरितम्
शेषं प्रागिव कर्तव्यमेवं निष्क्रान्तपञ्जरम् ३०
निष्क्रान्तरहितं चेत्तु प्रस्तरोर्ध्वं तु वाजनम्
पञ्जरे कूटकोष्ठौ चेत् पादे पादान्तरेऽपि वा ३१
गोपानाधारिता कल्पमहाशालपरा क्रमात्
हस्तपादद्वयोपेतां दृष्टकीर्णजटान्विताम् ३२
रौद्र दृष्टिसमायुक्तां नृत्तवाञ्जनसन्निभाम्
गोपानं यत्नतो धृत्वा पादौ हस्तौ तदन्वितौ ३३
एवं वा राजहंसाभं सिंहव्याळाभमेव वा
गोपानं शिरसा वाच्यं हस्तपादौ यथेष्टगौ ३४
कूटादिलक्षणं प्रोक्तं पञ्चभूमिविधिं ततः ३५
इति काश्यपशिल्पे कूटादिलक्षणं नाम एकत्रिंशः पटलः