अथ त्रिंशः पटलः
चतुर्भूमिः
अथ वक्ष्ये विशेषेण चतुर्भूम्यादिलक्षणम्
विस्तरोत्सेधमानं तु प्रोक्तं प्रासादमानके १
रव्यंशं मानसूत्रं तु कृते गर्भगृहांशकम्
गृहपिण्ड्यलिन्द्रा हारं प्रत्येकं चैकभागतः २
विन्याससूत्रयोरन्तर्वसुधा विभजेत् बुधः
कर्णकूटशतांशं तु कोष्ठं तद्विगुणायतम् ३
पञ्जरव्यासमंशेन शेषं सारान्तं भवेत्
पुनरप्यूर्ध्वभूमौ च वसुभागविभाजिते ४
कर्णकूटं च कोष्ठं च पञ्जरं पूर्ववत् भवेत्
तदूर्ध्वभूमौ षड्भागे शिवंशं कूटविस्तृतम् ५
कोष्ठायामीश्वरी भागमर्धांशं पञ्जरस्य तु
शेषं हारान्तरं प्रोक्तं हीनाधिक्यं तु नाश्रयेत् ६
ऊर्ध्वभूमानि भागेन व्योमांशमर्धभद्र कम्
दण्डं वाऽध्यर्धदण्डं वा द्विदण्डं वाथ निर्गमम् ७
प्रासादोच्चं तु विभजेत् सङ्गृह्य त्रिंशदंशकम्
सार्धाष्टांशमधिष्ठानं भूतांशं चरणोदयम् ८
अधिष्ठानसमं मञ्चं पादं पादोन पञ्चकम्
पक्षांशं कर्ममञ्चोच्चं कल्पयेत् द्विजसत्तम ९
सार्धं वेदांशमपरं पक्षांशं प्रस्तरोदयम्
सपादवेदभागं च चरणोदयमिष्यते १०
पादेनर्क्षांशमञ्चोच्चं शिवांशं वेदिकोदयम्
कण्ठोच्चं तु द्विभागं स्यात् सार्धं वेदांशशीर्षकम् ११
स्तूप्युच्चं तु द्विभागं स्यात् शान्तिकं भवनं भवेत्
चत्वारिंशत् द्व्ययाधिक्यं भागं कृत्वा गृहोन्नतम् १२
गुणांशं तलमानं तु रसांशं चरणोदयम्
प्रस्तरं त्वग्निभागेन भूतांशं तलिपोदयम् १३
गुणांशं प्रस्तरोत्सेधं पादं पादार्धपञ्चकम्
पादद्विभागं मञ्चोच्चं सार्धवेदाङ्घ्रिकोदयम् १४
द्विभागं मञ्चमानं तु शिवांशं वेदिकोदयम्
अत्यर्धांशं गलोत्सेधं युगांशं शिखरोदयम् १५
द्विभागं तु शिखामानं पौष्टिकं तदुदाहृतम्
पञ्चांशद्विभजेद्धर्म्यं तुङ्गं स्तूप्यवसानकम् १६
सार्धाग्न्यंशमधिष्ठानं सर्पांशं चरणोदयम्
गुणार्धं प्रस्तरोत्सेधं रसांशं पाददैर्घ्यकम् १७
गुणांशं मञ्चमानं तु ऊर्ध्वपादं तु तत् द्वयम्
त्रिभागं प्रस्तरोत्सेधं पादोच्चं सार्धपञ्चकम् १८
प्रस्तरोच्चं त्रिभागैकं शिवांशं वेदिकोदयम्
द्विभागं गळमानं तु भूतांशं शिखरोदयम् १९
सार्धांशं स्तूपिमानं तु जयदं तदुदाहृतम्
उपानादि स्तूपिपर्यन्तं पञ्चांशविभजेद्बुधः २०
तथोच्चं सार्धमग्न्यंशं सप्तांशं चरणोदयम्
तलोच्चसदृशं मञ्चं तलिपं सार्धषट्ककम् २१
पादाधिकत्रिभागेन मञ्चमानमुदाहृतम्
पादोच्चं रसभागेन गुणांशं प्रस्तरोदयम् २२
सार्धं पञ्चांशमभ्युच्चं मञ्चं सार्धद्विभागया
एकांशं वेदिकामानं द्विभागं स्याद्गलोदयम् २३
पञ्चांशं शिखरोत्तुङ्गं पादद्व्यंशं शिखोदयम्
तद्भूतं सदनं ह्येवं कल्पयेत् कल्पवित्तमः २४
आरामोच्चं तु पञ्चांशं भागं कृत्वा विशेषतः
सार्धांशांशमधिष्ठानं धात्वंशं चरणोदयम् २५
प्रस्तरोच्चं त्रिभागैकं चरणं सार्धषट् भवेत्
सपादाग्न्यंशं मञ्चं स्यात् तलिपं सार्धषट्ककम् २६
त्रिभागं प्रस्तरोत्सेधं पादोच्चं सार्धपञ्चकम्
पादोनाग्न्यंशं मञ्चोच्चं शिवांशं वेदिकोदयम् २७
द्विभागं गलमानं तु पञ्चांशं शिखरोदयम्
व्योमांशं तु शिखामानं विमानं सार्वदेशिकम् २८
होमादिस्तूपिपर्यन्तं वेदाश्रं परिकल्पयेत्
भानुकूटं तथा कोष्ठं भानुद्विगुणपञ्जरम् २९
शिखरे तु चतुर्दिक्षु भद्र नासी चतुष्टयम्
पादं प्रत्यल्पनासाढ्यं शिखरेष्टाल्पनासिकम् ३०
कूटकोष्ठादिसर्वाङ्गं नागराद्युचितं कुरु
एकाकारतलस्तम्भं सुभद्र मिति विद्यते ३१
तदेव शिखरेष्टाल्पनासिकारहितं भवेत्
तत् ब्राह्ममिति विख्यातं सर्वदेवप्रियावहम् ३२
तदेव शिखरे घण्टवृतं श्रीकान्तमुच्यते
वस्वश्रं शीर्षकण्ठं वै श्रीमण्डनमुदाहृतम् ३३
तदेव शिखरे चाष्टमहानासी समन्वितम्
श्रीभवन्तं च व्याख्यातं शालाभद्र युतं तु वा ३४
विभद्रं वाथ भक्तव्यं सर्वेषां सद्मनामपि
श्रीकान्तं शिखरेष्टाल्पनासाढ्यं श्रीविशालकम् ३५
नानाघ्रितलयुक्तास्ते तत्तन्नाम्ना प्रकीर्तिताः
विस्ताराढ्य –मंसं भास्करं तु विशीर्षकम् ३६
सर्वदालयमित्युक्तं सर्वदेवार्हकं परम्
मानसूत्रान्तरं नन्दभागं कृत्वा विशेषतः ३७
गर्भगेहं गुणांशं स्यात् भागेन गृहपिण्डिका
अलिन्द्रा शें! तु कर्तव्यं हारं भागेन कल्पयेत् ३८
ततो विन्याससूत्रान्तव्यासं नन्दविभाजिते
एकांशं कूटविस्तारं गुणांशं कोष्ठदीर्घकम् ३९
एकांशं पञ्जरव्यासमर्धांशं हरयान्तरम्
शालामध्ये महानासी निवृत्तं त्वर्धभागया ४०
ऊर्ध्वभूमान्दभागे कूटमंशेन कल्पयेत्
शाला तद्विगुणायामं शिवांशं पञ्जरं भवेत् ४१
शेषं हारान्तरं चोर्ध्वे भूतारं रसभाजिते
कूटमेकेन कर्तव्यं कोष्ठं तत् द्विगुणायतम् ४२
अर्धांशं पञ्जरव्यासं शेषं हारान्तरं भवेत्
ऊर्ध्वभूमिं तथार्धं तु मध्यदण्डेन निर्गमम् ४३
चतुरष्टाश्रवृत्ताभं कूटानां शीर्षकं क्रमात्
कर्करी दण्डवत्कोष्ठं स्वश्रं हर्म्यादिशीर्षकम् ४४
महानास्यष्टकोपेतं शीर्षकं परिकल्पयेत्
रविकोष्ठं च कूटं च रविद्विगुणपञ्जरम् ४५
प्रागिवोच्चांशमानं तु ततः कोष्ठमिदं परम्
गेहव्यासं तु धर्मांशं कृत्वा नीचगृहच्छतु ४६
गृहपिण्ड्यंशमानेन अलिन्द्रं त्वेकभागकम्
हारव्यासं शिवांशेन परितः परिकल्पयेत् ४७
विन्याससूत्रयोरन्तर्व्यासे धर्मविभाजिते
कर्णकूटं तदेकांशं कोष्ठायामं तु तत् द्वयम् ४८
अर्धांशं पञ्जरव्यासं शेषं हारान्तरं भवेत्
चतुष्कूटाष्टकोष्ठं च पञ्चारम्भन्तु सङ्ख्यया ४९
हारान्तरं चतुर्विंशत् कल्पयेत्प्रथमं तलं
आलिन्द्रं जलपादं स्यात् प्रस्तरं तु घनी कृतम् ५०
ऊर्ध्वभूः नवभागं स्यात् शिवांशं कूटविस्तरम्
कोष्ठं तत् द्विगुणायामं पञ्जरं शममानतः ५१
शेषं हारान्तरं ख्यातं क्षुद्र पञ्जरसंयुतम्
ऊर्ध्वभूमौ त्रिभागैकं मध्ये दण्डेन निर्गमम् ५२
चतुरश्रमधिष्टानमष्टाश्रं मस्तकं गळम्
शिखरेष्टमहानास्यः पादं प्रत्यल्पनासिका ५३
कर्णकूटं तु भागं स्यात् कोष्ठं षोडशभिर्युतम्
नतकूटोन्नतकोष्ठमन्तरप्रस्तरान्वितम् ५४
क्षुद्र नीडाष्टविंशं स्यात् नानाश्रं सूकराकृति
नानाचित्रैर्विचित्रं तु तुङ्गभागं तु पूर्ववत् ५५
जयावहमिदं ख्यातं सर्वदेवार्हकं वरम्
तदेव वर्तुलं कर्णं शीर्षान्तं सर्वमानिकं ५६
तदेव सान्तरं मञ्चं कूटं कोष्ठं च पञ्जरम्
कूटानां शीर्षकं स्तूपि कुम्भं कर्णं च वर्तुलम् ५७
एवं स्यात् मूलभूमौ तु वस्वश्रं मध्यमे तले
युगाश्रं मध्यभूमौ तु कर्णकूटं प्रकल्पयेत् ५८
सुखावहमिदं ख्यातं सर्वदेवार्हकं परम्
तदेव कूटं कोष्ठं च अन्तरं प्रस्तरं विना ५९
व्यासोच्चसमसूत्रं तु सदाजयगृहं भवेत्
तदेव शिखरं कण्ठं युगाश्रं धारकान्तकम् ६०
इति काश्यपशिल्पे चतुर्भूमिविधानो नाम त्रिंशः पटलः