२८

अथैकोनत्रिंशः पटलः
त्रितललक्षणम्
अथ वक्ष्ये विशेषेण त्रितलं शृणु सुव्रत
तस्य विस्तारमानं च पुरोक्तं हर्म्यमानकं १
विन्याससूत्रयोरन्तरष्टाविंशे तु भाजिते
एकांशं कूटविस्तारं शालायामं च तद्वयम् २
अंशं त्रिपादमर्धं वा पञ्जरव्यासमुच्यते
शेषं हारान्तरं ख्यातं निष्क्रान्तादीनि पूर्वकं ३
ऊर्ध्वभूमिरसं शेषं कूटव्यासमुदाहृतम्
शालायामं द्विभागं तु शेषं हारान्तरं भवेत् ४
हारान्तरं तु सम्पाद्यं त्रिपादं वाथ पञ्जरम्
ऊर्ध्वभूमित्रिभागैकं मध्यभद्रं विधीयते ५
दण्डं सार्धद्विदण्डं वा मध्यभद्र स्य नीप्रकम्
प्रासादस्योच्छ्रयं भानुद्विगुणांशं विभाजिते ६
द्विभागं भूतलोत्सेधं वेदांशं चरणोदयम्
मञ्चमानं द्विभागेन पादोनं चतुरंशकैः ७
पादायां वह्निसाध्यांशं प्रस्तरोच्चमुदाहृतम्
पादोच्चं सार्धवह्न्यंशं सपादांशं तु मञ्चकम् ८
अर्धांशं वेदिकामानं गलमानं शिवांशकम्
सार्धद्व्यंशं तु शिखरं स्तूप्युच्चं त्वेकभाजया ९
एवं हि कल्पितं गेहं शान्तिकं त्विति विद्यते
चतुर्विंशति चायामे तलोच्चं तु द्विभागया १०
वेदांशं चरणायामं पक्षांशं मञ्चमानकम्
पादोन चतुरंशं तु पादायाममितीष्यते ११
सार्धांशं प्रस्तरोत्सेधं साध्यर्धं ह्युदयं भवेत्
अर्धार्धांशं तु मञ्चोच्चं मध्यांशं वेदिकोदयम् १२
शिवांशं ग्रीवमानं तु गुणांशं शिखरोदयम्
सपादांशं शिखामानं पौष्टिकं तदुदाहृतम् १३
सप्तविंशतिभागं तु कृत्वा च सदनोदयम्
द्विभागं धरातलोत्सेधं युगांशं चरणोदयम् १४
मञ्चमानं द्विभागेन वेदांशं चरणायतम्
पादोन द्व्यंश मञ्चोर्ध्वं तलिपोच्चं तु तद्वयम् १५
सार्धांशं प्रस्तरोत्सेधमेकांशं वेदिकोदयम्
द्विभागं ग्रीवमानं तु वेदभागं तु शीर्षकम् १६
शेषं स्तूप्युदयं ख्यातं जयदं तदुदाहृतम्
चत्वारिंशत् द्वयाधिक्यं भागं कृत्वा गृहोन्नतम् १७
अधिष्ठानं त्रिभागार्धं सप्तांशं चरणोदयम्
तलोच्चसदृशं मञ्चं तलिपं सार्धषट्ककम् १८
गुणांशं प्रस्तरोत्सेधं भूभागं च षडंशकम्
सार्धद्व्यंशं तु मञ्चोच्चमेकांशं वेदिकोदयम् १९
गलमानं द्विभागं स्यात् भूतांशं शिखरोदयम्
द्विभागं स्तूपितुङ्गं तु प्रोक्तमद्भुतहर्म्यकम् २०
प्रासादस्य तु तुङ्गेन षडष्टांशविभाजिते
अधिष्ठानं युगांशं तु वस्वंशं चरणायतं २१
मञ्चमानं तु वेदांशं तलिपं सार्धसप्तकम्
सार्धत्रिभागं मञ्चोर्ध्वे सप्तांशं चरणायतम् २२
प्रस्तरोच्चं गुणांशं तु शिवांशं वेदिकोदयम्
द्विभागं गलमानं तु रसांशं शिखरोदयम् २३
द्विभागं तु शिखामानमेवं स्यात् सर्वदेशिकम्
अष्टकूटाष्टशालाभिः कलापञ्जरसंयुतम् २४
द्विर्नवत्यल्पनासाढ्यं जन्मादाग्रं युगाश्रकम्
नानाधिष्ठानसक्तानां नानापादैरलङ्कृतम् २५
शिखरे भानुनासाढ्यं महाञ्चं चतुरष्टकं
कूटकोष्ठन्नतादीनि नागराद्युचितं भवेत् २६
स्वस्तिकं भवनं ख्यातं तदेव शिखरे द्विज
चतुर्महानासिकोपेतं अल्पनास्यष्टविवर्जितम् २७
स्वस्तिभद्र मिदं ख्यातं सर्वदेवप्रियावहम्
तदेव वृत्तशिखरं गलं वै वेदिका तथा २८
रुद्र कान्तमिदं नाम्ना मम प्रीतिकरं परम्
तदेव शीर्षकोणेषु अल्पनासीद्वयाह्वयं २९
कल्पितं शिवकान्तं स्यात् शिवप्रीतिकरं गृहं
तदेव वेदिकाकण्ठं शीर्षकं च घटं तथा ३०
वस्वश्रं कल्पितं यत्तत् विष्णुकान्तमिदं परं
विन्याससूत्रयोरन्तं नवभागविभाजिते ३१
एकांशं कूटविस्तारं द्विभागं कोष्ठदीर्घकम्
कोष्ठं प्रतिद्विकोष्ठं स्यादर्धांशं पञ्जरं ततः ३२
शेषं हारान्तरं ख्यातं कल्पयेत् कल्पवित्तमः
चतुष्कूटाष्टशालांशं भानुपञ्जरसंयुतम् ३३
तं चाल्पनासिकोपेतं वस्वश्रं शीर्षकं गलम्
महानास्यष्टकोपेतं शिखरं तत् द्विजोत्तम ३४
नाम्ना शुद्धविमानं तु धर्मप्रीतिकरं भवेत्
तदेवाष्टाश्रवेदी तु वित्ताभं शिखरं गळम् ३५
विमाना कृति नाम्ना तु सर्वदेवार्हकं भवेत्
तदेव शिखरं तण्ठं युगाश्रं ब्रह्मकान्तकम् ३६
तदेव सायताश्रं तु सपादं सत्रिभागिकम्
वसुभागं तु विस्तारमायामं दशधा भजेत् ३७
एकांशं कूटविस्तारं शालायामं गुणांशकम्
शेषं हारान्तरं ख्यातं प्रागिवैव प्रकल्पयेत् ३८
षडष्टभागं विस्तारमायामं चोर्ध्वभूमिके
एकांशं कूटविस्तारं कोष्ठदीर्घं त्रियंशकम् ३९
अर्धांशं पञ्जरव्यासं शेषं हारान्तरं भवेत्
ऊर्ध्वभूमिविस्तृतं चाग्निभागैः कण्ठभद्र कम् ४०
द्व्यंशवृत्तं च वेदी च कण्ठं वै शीर्षकं तथा
चतुष्कूटाष्टशालं च भानुपञ्जरसंयुतम् ४१
हारान्तरं चतुर्विंशत् कल्पयेदादिभूतले
चतुष्कूटं चतुश्शालं पञ्जराष्टकसंयुतम् ४२
षोडशान्तरसंयुक्तं शतसङ्ख्याल्पनासिकम्
ललाटं नासिकायुक्तं पार्श्वयोः भद्र नासिकं ४३
तथैव नासिका पृष्ठे पृष्ठे चिञ्चोपमाचरेत्
नानाधिष्ठानसंयुक्तं नानाचाङ्घ्रिसमायुतम् ४४
सर्वालङ्कारसंयुक्तं हस्तिपृष्ठमिदं भवेत्
मानसूत्रान्तरं व्यासं नवभागविभाजिते ४५
गुणांशं गर्भगेहं तु शिवांशं कुड्यविस्तृतम्
परितोलिन्द्र मेकांशं हारव्यासं शिवांशकम् ४६
एवं हि कल्पिते तेषु कण्ठकूटं शिवांशकम्
मध्ये कोष्ठं गुणांशं स्यात् एकांशं पञ्जरं ततः ४७
हारान्तरं तदर्धांशं कल्प्यैवं प्रथमे भुवि
अथवा पञ्जराणां तु अर्धांशं वा विधीयते ४८
शेषं हारान्तरं ख्यातं परितस्त्वेवमाचरेत्
कोष्ठमध्ये त्रिदण्डेन महानासीविनिर्गतम् ४९
ऊर्ध्वभूमौ षडंशे तु कूटकोष्ठायतं द्वयम्
अर्धांशं पञ्जरव्यासं शेषं हारान्तरं भवेत् ५०
ऊर्ध्वभूमिविस्तृतार्धं त्वर्धदण्डेन निर्गतम्
चतुरश्रमधिष्ठानं वस्वश्रं शीर्षकं गलम् ५१
आदौ तले चतुष्कर्णे कूटो वेदाश्रशीर्षकः
अष्टाश्रं शीर्षकं कूटं चोर्ध्वभूमौ प्रकल्पयेत् ५२
अष्टकूटाष्टकोष्ठं च कलापञ्जरसंयुतम्
शताल्पनासिकोपेतं शिखरेन्द्रं महान्तरम् ५३
भद्र कोष्ठमिदं नाम्ना सर्वदेवार्हकं वरम्
तदेव कर्णकूटं च शीर्षकं वर्तुळा कृति ५४
प्रासादशीर्षकं कण्ठं वृत्ताकारं प्रकल्पयेत्
शिखरे तु चतुर्दिक्षु भद्र नासिसमन्वितम् ५५
तथा दिक्ष्वल्पनासाढ्यं वृत्तकूटमिदं परम्
तदेव शिखरे कोणे क्षुद्र नास्यष्टकान्वितम् ५६
युगाश्रं कर्णकूटानां शीर्षकं परिकल्पयेत्
शेषं प्रागिव कर्तव्यं श्रीकण्ठं तदुदाहृतम् ५७
तदेवाष्टांशमधिकमायामं चतुरश्रकम्
शालामध्ये महानासी भद्र हीनं प्रकल्पयेत् ५८
शालाभं मस्तकं कण्ठं वृत्तायतमथापि वा
स्तूपित्रयसमायुक्तमेतन्नाम्ना सुमङ्गलम् ५९
मानसूत्रान्तरं धर्मं भागं कृत्वा द्विजोत्तम
गर्भगेहं तु वेदांशं गृहपिण्ड्यंशमावृतम् ६०
परितो लिन्द्र मेकांशं हारं भागेन कल्पयेत्
तदेकं कूटविस्तारं मध्ये कोष्ठाय तं द्वयम् ६१
तयोर्मध्ये तु भागेन पञ्जरव्यासमुच्यते
हारान्तरं तथांशेन पञ्जरस्य तु पार्श्वयोः ६२
अष्टांशां चोर्ध्वभूमिं तु कृत्वांशं कूटविस्तृतम्
शालाया द्विगुणायामं तयोर्मध्ये तु पञ्जरम् ६३
एकांशेनैव कर्तव्यं शेषं हारान्तरं भवेत्
ऊर्ध्वभूमिं चतुर्भागं द्विभागं मध्यभद्र कम् ६४
दण्डं वा द्विदण्डं वा त्रिदण्डं वाथ निर्गतिः
वेदाश्रं तदधिष्ठानं तद्वत्कण्ठं च शीर्षकम् ६५
अष्टशालाष्टकूटं च पञ्जरं षोडशान्वितम्
नानाधिष्ठानसंयुक्तं नानापादैरलङ्कृतम् ६६
उन्नतौ कूटकोष्ठौ च सान्तरप्रस्तरान्वितौ
गान्धारमिति विख्यातमष्टाश्रं वा गलं शिरः ६७
श्रीविशालमिति ख्यातं वर्तुला वेदिका गलम्
शीर्षं चैव च कर्तव्यं शेषं पूर्ववदाचरेत् ६८
श्रीभागाढ्यमिति ख्यातं सर्वदेवार्हकं परम्
वृत्ते वृत्तायते द्व्यश्रवृत्ते चैव षडश्रके ६९
कूटकोष्ठादिसर्वाङ्गं प्रागिवैव प्रकल्पयेत्
वर्षस्थलं मण्डलं च त्यजेत् कर्णं च शीर्षकम् ७०
वक्षस्थलविहीनानां कर्णं शीर्षसंयुतम्
कूटकोष्ठादिसर्वाङ्गमुचितं नागरादिकं ७१
नानालङ्कारसंयुक्तं नानाचित्रैर्विचित्रिकम्
गर्भगेहविशालं च गृहं पिण्ड्यग्रमण्डपम् ७२
एकभूमिविधानोक्तमनुक्तानां विशेषतः
त्रितलं ह्येवमाख्यातं चतुर्भूममथोच्यते ७३
इति काश्यपशिल्पे त्रितलविधानं नाम एकोनत्रिंशः पटलः